Ṛk 1.93.5
Saṃhitā
यु॒वमे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तं ।
यु॒वं सिंधूँ॑र॒भिश॑स्तेरव॒द्यादग्नी॑षोमा॒वमुं॑चतं गृभी॒तान् ॥
युवम् एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् |
युवं सिन्धूंर् अभिशस्तेर् अवद्याद् अग्नीषोमाव् अमुञ्चतं गृभीतान् ||
yuvámetā́ni diví rocanā́nyagníśca soma sákratū adhattam ǀ
yuvám síndhūm̐rabhíśasteravadyā́dágnīṣomāvámuñcatam gṛbhītā́n ǁ
yuvam etāni divi rocanāny agniś ca soma sakratū adhattam |
yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān ||
Padapāṭha
यु॒वम् । ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ सऽक्र॑तू । अ॒ध॒त्त॒म् ।
यु॒वम् । सिन्धू॑न् । अ॒भिऽश॑स्तेः । अ॒व॒द्यात् । अग्नी॑षोमौ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥
युवम् । एतानि । दिवि । रोचनानि । अग्निः । च । सोम । सक्रतू इति सऽक्रतू । अधत्तम् ।
युवम् । सिन्धून् । अभिऽशस्तेः । अवद्यात् । अग्नीषोमौ । अमुञ्चतम् । गृभीतान् ॥
yuvám ǀ etā́ni ǀ diví ǀ rocanā́ni ǀ agníḥ ǀ ca ǀ soma ǀ sákratū íti sá-kratū ǀ adhattam ǀ
yuvám ǀ síndhūn ǀ abhí-śasteḥ ǀ avadyā́t ǀ ágnīṣomau ǀ ámuñcatam ǀ gṛbhītā́n ǁ
yuvam ǀ etāni ǀ divi ǀ rocanāni ǀ agniḥ ǀ ca ǀ soma ǀ sakratū iti sa-kratū ǀ adhattam ǀ
yuvam ǀ sindhūn ǀ abhi-śasteḥ ǀ avadyāt ǀ agnīṣomau ǀ amuñcatam ǀ gṛbhītān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.093.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.28.05
- Maṇḍala · Anuvāka · Ṛk
- 1.14.099
- Devatā देवता
- Agni, Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Gāyatrī, Jagatī Or Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.