Ṛk 1.93.1
Saṃhitā
अग्नी॑षोमावि॒मं सु मे॑ शृणु॒तं वृ॑षणा॒ हवं॑ ।
प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥
अग्नीषोमाव् इमं सु मे शृणुतं वृषणा हवम् |
प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ||
ágnīṣomāvimám sú me śṛṇutám vṛṣaṇā hávam ǀ
práti sūktā́ni haryatam bhávatam dāśúṣe máyaḥ ǁ
agnīṣomāv imaṃ su me śṛṇutaṃ vṛṣaṇā havam |
prati sūktāni haryatam bhavataṃ dāśuṣe mayaḥ ||
Padapāṭha
अग्नी॑षोमौ । इ॒मम् । सु । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव॑म् ।
प्रति॑ । सु॒ऽउ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे॑ । मयः॑ ॥
अग्नीषोमौ । इमम् । सु । मे । शृणुतम् । वृषणा । हवम् ।
प्रति । सुऽउक्तानि । हर्यतम् । भवतम् । दाशुषे । मयः ॥
ágnīṣomau ǀ imám ǀ sú ǀ me ǀ śṛṇutám ǀ vṛṣaṇā ǀ hávam ǀ
práti ǀ su-uktā́ni ǀ haryatam ǀ bhávatam ǀ dāśúṣe ǀ máyaḥ ǁ
agnīṣomau ǀ imam ǀ su ǀ me ǀ śṛṇutam ǀ vṛṣaṇā ǀ havam ǀ
prati ǀ su-uktāni ǀ haryatam ǀ bhavatam ǀ dāśuṣe ǀ mayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.093.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.28.01
- Maṇḍala · Anuvāka · Ṛk
- 1.14.095
- Devatā देवता
- Agni, Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Gāyatrī, Jagatī Or Triṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.