Ṛk 1.93.12
Saṃhitā
अग्नी॑षोमा पिपृ॒तमर्व॑तो न॒ आ प्या॑यंतामु॒स्रिया॑ हव्य॒सूदः॑ ।
अ॒स्मे बला॑नि म॒घव॑त्सु धत्तं कृणु॒तं नो॑ अध्व॒रं श्रु॑ष्टि॒मंतं॑ ॥
अग्नीषोमा पिपृतम् अर्वतो न आ प्यायन्ताम् उस्रिया हव्यसूदः |
अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ||
ágnīṣomā pipṛtámárvato na ā́ pyāyantāmusríyā havyasū́daḥ ǀ
asmé bálāni maghávatsu dhattam kṛṇutám no adhvarám śruṣṭimántam ǁ
agnīṣomā pipṛtam arvato na ā pyāyantām usriyā havyasūdaḥ |
asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam ||
Padapāṭha
अग्नी॑षोमा । पि॒पृ॒तम् । अर्व॑तः । नः॒ । आ । प्या॒य॒न्ता॒म् । उ॒स्रियाः॑ । ह॒व्य॒ऽसूदः॑ ।
अ॒स्मे इति॑ । बला॑नि । म॒घव॑त्ऽसु । ध॒त्त॒म् । कृ॒णु॒तम् । नः॒ । अ॒ध्व॒रम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥
अग्नीषोमा । पिपृतम् । अर्वतः । नः । आ । प्यायन्ताम् । उस्रियाः । हव्यऽसूदः ।
अस्मे इति । बलानि । मघवत्ऽसु । धत्तम् । कृणुतम् । नः । अध्वरम् । श्रुष्टिऽमन्तम् ॥
ágnīṣomā ǀ pipṛtám ǀ árvataḥ ǀ naḥ ǀ ā́ ǀ pyāyantām ǀ usríyāḥ ǀ havya-sū́daḥ ǀ
asmé íti ǀ bálāni ǀ maghávat-su ǀ dhattam ǀ kṛṇutám ǀ naḥ ǀ adhvarám ǀ śruṣṭi-mántam ǁ
agnīṣomā ǀ pipṛtam ǀ arvataḥ ǀ naḥ ǀ ā ǀ pyāyantām ǀ usriyāḥ ǀ havya-sūdaḥ ǀ
asme iti ǀ balāni ǀ maghavat-su ǀ dhattam ǀ kṛṇutam ǀ naḥ ǀ adhvaram ǀ śruṣṭi-mantam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.093.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.29.06
- Maṇḍala · Anuvāka · Ṛk
- 1.14.106
- Devatā देवता
- Agni, Soma
- Ṛṣi ऋषि
- Gotama Rāhūgaṇa
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh, Gāyatrī, Jagatī Or Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.