Sūkta 14
- Devatā देवता
- Viśvedevās; 1-2, 5-9, 11-12: Agni
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1-6, 9); pipīlikāmadhyānicṛdgāyatrī (7, 8); virāḍgāyatrī (10, 11); nicṛdgāyatrī (12)
2nd set of styles gāyatrī
-
Ṛk 1
ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे॑भिः॒ सोम॑पीतये ।
दे॒वेभि॑र्याहि॒ यक्षि॑ च ॥ऐभिर् अग्ने दुवो गिरो विश्वेभिः सोमपीतये |
देवेभिर् याहि यक्षि च ||áibhiragne dúvo gíro víśvebhiḥ sómapītaye ǀ
devébhiryāhi yákṣi ca ǁaibhir agne duvo giro viśvebhiḥ somapītaye |
devebhir yāhi yakṣi ca ||आ । ए॒भिः॒ । अ॒ग्ने॒ । दुवः॑ । गिरः॑ । विश्वे॑भिः । सोम॑ऽपीतये ।
दे॒वेभिः॑ । या॒हि॒ । यक्षि॑ । च॒ ॥आ । एभिः । अग्ने । दुवः । गिरः । विश्वेभिः । सोमऽपीतये ।
देवेभिः । याहि । यक्षि । च ॥ā́ ǀ ebhiḥ ǀ agne ǀ dúvaḥ ǀ gíraḥ ǀ víśvebhiḥ ǀ sóma-pītaye ǀ
devébhiḥ ǀ yāhi ǀ yákṣi ǀ ca ǁā ǀ ebhiḥ ǀ agne ǀ duvaḥ ǀ giraḥ ǀ viśvebhiḥ ǀ soma-pītaye ǀ
devebhiḥ ǀ yāhi ǀ yakṣi ǀ ca ǁ1.14.1 Aṣṭaka 1.1.26.1Anuvāka 1.4.25
-
Ṛk 2
आ त्वा॒ कण्वा॑ अहूषत गृ॒णंति॑ विप्र ते॒ धियः॑ ।
दे॒वेभि॑रग्न॒ आ ग॑हि ॥आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः |
देवेभिर् अग्न आ गहि ||ā́ tvā káṇvā ahūṣata gṛṇánti vipra te dhíyaḥ ǀ
devébhiragna ā́ gahi ǁā tvā kaṇvā ahūṣata gṛṇanti vipra te dhiyaḥ |
devebhir agna ā gahi ||आ । त्वा॒ । कण्वाः॑ । अ॒हू॒ष॒त॒ । गृ॒णन्ति॑ । वि॒प्र॒ । ते॒ । धियः॑ ।
दे॒वेभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥आ । त्वा । कण्वाः । अहूषत । गृणन्ति । विप्र । ते । धियः ।
देवेभिः । अग्ने । आ । गहि ॥ā́ ǀ tvā ǀ káṇvāḥ ǀ ahūṣata ǀ gṛṇánti ǀ vipra ǀ te ǀ dhíyaḥ ǀ
devébhiḥ ǀ agne ǀ ā́ ǀ gahi ǁā ǀ tvā ǀ kaṇvāḥ ǀ ahūṣata ǀ gṛṇanti ǀ vipra ǀ te ǀ dhiyaḥ ǀ
devebhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.14.2 Aṣṭaka 1.1.26.2Anuvāka 1.4.26
-
Ṛk 3
इं॒द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भगं॑ ।
आ॒दि॒त्यान्मारु॑तं ग॒णं ॥इन्द्रवायू बृहस्पतिम् मित्राग्निम् पूषणम् भगम् |
आदित्यान् मारुतं गणम् ||indravāyū́ bṛ́haspátim mitrā́gním pūṣáṇam bhágam ǀ
ādityā́nmā́rutam gaṇám ǁindravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam |
ādityān mārutaṃ gaṇam ||इ॒न्द्र॒वा॒यू इति॑ । बृह॒स्पति॑म् । मि॒त्रा । अ॒ग्निम् । पू॒षण॑म् । भग॑म् ।
आ॒दि॒त्यान् । मारु॑तम् । ग॒णम् ॥इन्द्रवायू इति । बृहस्पतिम् । मित्रा । अग्निम् । पूषणम् । भगम् ।
आदित्यान् । मारुतम् । गणम् ॥indravāyū́ íti ǀ bṛ́haspátim ǀ mitrā́ ǀ agním ǀ pūṣáṇam ǀ bhágam ǀ
ādityā́n ǀ mā́rutam ǀ gaṇám ǁindravāyū iti ǀ bṛhaspatim ǀ mitrā ǀ agnim ǀ pūṣaṇam ǀ bhagam ǀ
ādityān ǀ mārutam ǀ gaṇam ǁ1.14.3 Aṣṭaka 1.1.26.3Anuvāka 1.4.27
-
Ṛk 4
प्र वो॑ भ्रियंत॒ इंद॑वो मत्स॒रा मा॑दयि॒ष्णवः॑ ।
द्र॒प्सा मध्व॑श्चमू॒षदः॑ ॥प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः |
द्रप्सा मध्वश् चमूषदः ||prá vo bhriyanta índavo matsarā́ mādayiṣṇávaḥ ǀ
drapsā́ mádhvaścamūṣádaḥ ǁpra vo bhriyanta indavo matsarā mādayiṣṇavaḥ |
drapsā madhvaś camūṣadaḥ ||प्र । वः॒ । भ्रि॒य॒न्ते॒ । इन्द॑वः । म॒त्स॒राः । मा॒द॒यि॒ष्णवः॑ ।
द्र॒प्साः । मध्वः॑ । च॒मू॒ऽसदः॑ ॥प्र । वः । भ्रियन्ते । इन्दवः । मत्सराः । मादयिष्णवः ।
द्रप्साः । मध्वः । चमूऽसदः ॥prá ǀ vaḥ ǀ bhriyante ǀ índavaḥ ǀ matsarā́ḥ ǀ mādayiṣṇávaḥ ǀ
drapsā́ḥ ǀ mádhvaḥ ǀ camū-sádaḥ ǁpra ǀ vaḥ ǀ bhriyante ǀ indavaḥ ǀ matsarāḥ ǀ mādayiṣṇavaḥ ǀ
drapsāḥ ǀ madhvaḥ ǀ camū-sadaḥ ǁ1.14.4 Aṣṭaka 1.1.26.4Anuvāka 1.4.28
-
Ṛk 5
ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा॑सो वृ॒क्तब॑र्हिषः ।
ह॒विष्मं॑तो अरं॒कृतः॑ ॥ईऌअते त्वाम् अवस्यवः कण्वासो वृक्तबर्हिषः |
हविष्मन्तो अरङ्कृतः ||ī́ḷate tvā́mavasyávaḥ káṇvāso vṛktábarhiṣaḥ ǀ
havíṣmanto araṃkṛ́taḥ ǁīḷate tvām avasyavaḥ kaṇvāso vṛktabarhiṣaḥ |
haviṣmanto araṅkṛtaḥ ||ईळ॑ते । त्वाम् । अ॒व॒स्यवः॑ । कण्वा॑सः । वृ॒क्तऽब॑र्हिषः ।
ह॒विष्म॑न्तः । अ॒र॒म्ऽकृतः॑ ॥ईळते । त्वाम् । अवस्यवः । कण्वासः । वृक्तऽबर्हिषः ।
हविष्मन्तः । अरम्ऽकृतः ॥ī́ḷate ǀ tvā́m ǀ avasyávaḥ ǀ káṇvāsaḥ ǀ vṛktá-barhiṣaḥ ǀ
havíṣmantaḥ ǀ aram-kṛ́taḥ ǁīḷate ǀ tvām ǀ avasyavaḥ ǀ kaṇvāsaḥ ǀ vṛkta-barhiṣaḥ ǀ
haviṣmantaḥ ǀ aram-kṛtaḥ ǁ1.14.5 Aṣṭaka 1.1.26.5Anuvāka 1.4.29
-
Ṛk 6
घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वहं॑ति॒ वह्न॑यः ।
आ दे॒वान्त्सोम॑पीतये ॥घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः |
आ देवान् सोमपीतये ||ghṛtápṛṣṭhā manoyújo yé tvā váhanti váhnayaḥ ǀ
ā́ devā́ntsómapītaye ǁghṛtapṛṣṭhā manoyujo ye tvā vahanti vahnayaḥ |
ā devān somapītaye ||घृ॒तऽपृ॑ष्ठाः । म॒नः॒ऽयुजः॑ । ये । त्वा॒ । वह॑न्ति । वह्न॑यः ।
आ । दे॒वान् । सोम॑ऽपीतये ॥घृतऽपृष्ठाः । मनःऽयुजः । ये । त्वा । वहन्ति । वह्नयः ।
आ । देवान् । सोमऽपीतये ॥ghṛtá-pṛṣṭhāḥ ǀ manaḥ-yújaḥ ǀ yé ǀ tvā ǀ váhanti ǀ váhnayaḥ ǀ
ā́ ǀ devā́n ǀ sóma-pītaye ǁghṛta-pṛṣṭhāḥ ǀ manaḥ-yujaḥ ǀ ye ǀ tvā ǀ vahanti ǀ vahnayaḥ ǀ
ā ǀ devān ǀ soma-pītaye ǁ1.14.6 Aṣṭaka 1.1.26.6Anuvāka 1.4.30
-
Ṛk 7
तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी॑वतस्कृधि ।
मध्वः॑ सुजिह्व पायय ॥तान् यजत्रां ऋतावृधो ऽग्ने पत्नीवतस् कृधि |
मध्वः सुजिह्व पायय ||tā́nyájatrām̐ ṛtāvṛ́dhó’gne pátnīvataskṛdhi ǀ
mádhvaḥ sujihva pāyaya ǁtān yajatrāṃ ṛtāvṛdho 'gne patnīvatas kṛdhi |
madhvaḥ sujihva pāyaya ||तान् । यज॑त्रान् । ऋ॒त॒ऽवृधः॑ । अग्ने॑ । पत्नी॑ऽवतः । कृ॒धि॒ ।
मध्वः॑ । सु॒ऽजि॒ह्व॒ । पा॒य॒य॒ ॥तान् । यजत्रान् । ऋतऽवृधः । अग्ने । पत्नीऽवतः । कृधि ।
मध्वः । सुऽजिह्व । पायय ॥tā́n ǀ yájatrān ǀ ṛta-vṛ́dhaḥ ǀ ágne ǀ pátnī-vataḥ ǀ kṛdhi ǀ
mádhvaḥ ǀ su-jihva ǀ pāyaya ǁtān ǀ yajatrān ǀ ṛta-vṛdhaḥ ǀ agne ǀ patnī-vataḥ ǀ kṛdhi ǀ
madhvaḥ ǀ su-jihva ǀ pāyaya ǁ1.14.7 Aṣṭaka 1.1.27.1Anuvāka 1.4.31
-
Ṛk 8
ये यज॑त्रा॒ य ईड्या॒स्ते ते॑ पिबंतु जि॒ह्वया॑ ।
मधो॑रग्ने॒ वष॑ट्कृति ॥ये यजत्रा य ईड्यास् ते ते पिबन्तु जिह्वया |
मधोर् अग्ने वषट्कृति ||yé yájatrā yá ī́ḍyāsté te pibantu jihváyā ǀ
mádhoragne váṣaṭkṛti ǁye yajatrā ya īḍyās te te pibantu jihvayā |
madhor agne vaṣaṭkṛti ||ये । यज॑त्राः । ये । ईड्याः॑ । ते । ते॒ । पि॒ब॒न्तु॒ । जि॒ह्वया॑ ।
मधोः॑ । अ॒ग्ने॒ । वष॑ट्ऽकृति ॥ये । यजत्राः । ये । ईड्याः । ते । ते । पिबन्तु । जिह्वया ।
मधोः । अग्ने । वषट्ऽकृति ॥yé ǀ yájatrāḥ ǀ yé ǀ ī́ḍyāḥ ǀ té ǀ te ǀ pibantu ǀ jihváyā ǀ
mádhoḥ ǀ agne ǀ váṣaṭ-kṛti ǁye ǀ yajatrāḥ ǀ ye ǀ īḍyāḥ ǀ te ǀ te ǀ pibantu ǀ jihvayā ǀ
madhoḥ ǀ agne ǀ vaṣaṭ-kṛti ǁ1.14.8 Aṣṭaka 1.1.27.2Anuvāka 1.4.32
-
Ṛk 9
आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वां॑दे॒वाँ उ॑ष॒र्बुधः॑ ।
विप्रो॒ होते॒ह व॑क्षति ॥आकीं सूर्यस्य रोचनाद् विश्वान् देवां उषर्बुधः |
विप्रो होतेह वक्षति ||ā́kīm sū́ryasya rocanā́dvíśvāndevā́m̐ uṣarbúdhaḥ ǀ
vípro hótehá vakṣati ǁākīṃ sūryasya rocanād viśvān devāṃ uṣarbudhaḥ |
vipro hoteha vakṣati ||आकी॑म् । सूर्य॑स्य । रो॒च॒नात् । विश्वा॑न् । दे॒वान् । उ॒षः॒ऽबुधः॑ ।
विप्रः॑ । होता॑ । इ॒ह । व॒क्ष॒ति॒ ॥आकीम् । सूर्यस्य । रोचनात् । विश्वान् । देवान् । उषःऽबुधः ।
विप्रः । होता । इह । वक्षति ॥ā́kīm ǀ sū́ryasya ǀ rocanā́t ǀ víśvān ǀ devā́n ǀ uṣaḥ-búdhaḥ ǀ
vípraḥ ǀ hótā ǀ ihá ǀ vakṣati ǁākīm ǀ sūryasya ǀ rocanāt ǀ viśvān ǀ devān ǀ uṣaḥ-budhaḥ ǀ
vipraḥ ǀ hotā ǀ iha ǀ vakṣati ǁ1.14.9 Aṣṭaka 1.1.27.3Anuvāka 1.4.33
-
Ṛk 10
विश्वे॑भिः सो॒म्यं मध्वग्न॒ इंद्रे॑ण वा॒युना॑ ।
पिबा॑ मि॒त्रस्य॒ धाम॑भिः ॥विश्वेभिः सोम्यम् मध्व् अग्न इन्द्रेण वायुना |
पिबा मित्रस्य धामभिः ||víśvebhiḥ somyám mádhvágna índreṇa vāyúnā ǀ
píbā mitrásya dhā́mabhiḥ ǁviśvebhiḥ somyam madhv agna indreṇa vāyunā |
pibā mitrasya dhāmabhiḥ ||विश्वे॑भिः । सो॒म्यम् । मधु॑ । अग्ने॑ । इन्द्रे॑ण । वा॒युना॑ ।
पिब॑ । मि॒त्रस्य॑ । धाम॑ऽभिः ॥विश्वेभिः । सोम्यम् । मधु । अग्ने । इन्द्रेण । वायुना ।
पिब । मित्रस्य । धामऽभिः ॥víśvebhiḥ ǀ somyám ǀ mádhu ǀ ágne ǀ índreṇa ǀ vāyúnā ǀ
píba ǀ mitrásya ǀ dhā́ma-bhiḥ ǁviśvebhiḥ ǀ somyam ǀ madhu ǀ agne ǀ indreṇa ǀ vāyunā ǀ
piba ǀ mitrasya ǀ dhāma-bhiḥ ǁ1.14.10 Aṣṭaka 1.1.27.4Anuvāka 1.4.34
-
Ṛk 11
त्वं होता॒ मनु॑र्हि॒तोऽग्ने॑ य॒ज्ञेषु॑ सीदसि ।
सेमं नो॑ अध्व॒रं य॑ज ॥त्वं होता मनुर्हितो ऽग्ने यज्ञेषु सीदसि |
सेमं नो अध्वरं यज ||tvám hótā mánurhitó’gne yajñéṣu sīdasi ǀ
sémám no adhvarám yaja ǁtvaṃ hotā manurhito 'gne yajñeṣu sīdasi |
semaṃ no adhvaraṃ yaja ||त्वम् । होता॑ । मनुः॑ऽहितः । अग्ने॑ । य॒ज्ञेषु॑ । सी॒द॒सि॒ ।
सः । इ॒मम् । नः॒ । अ॒ध्व॒रम् । य॒ज॒ ॥त्वम् । होता । मनुःऽहितः । अग्ने । यज्ञेषु । सीदसि ।
सः । इमम् । नः । अध्वरम् । यज ॥tvám ǀ hótā ǀ mánuḥ-hitaḥ ǀ ágne ǀ yajñéṣu ǀ sīdasi ǀ
sáḥ ǀ imám ǀ naḥ ǀ adhvarám ǀ yaja ǁtvam ǀ hotā ǀ manuḥ-hitaḥ ǀ agne ǀ yajñeṣu ǀ sīdasi ǀ
saḥ ǀ imam ǀ naḥ ǀ adhvaram ǀ yaja ǁ1.14.11 Aṣṭaka 1.1.27.5Anuvāka 1.4.35
-
Ṛk 12
यु॒क्ष्वा ह्यरु॑षी॒ रथे॑ ह॒रितो॑ देव रो॒हितः॑ ।
ताभि॑र्दे॒वाँ इ॒हा व॑ह ॥युक्ष्वा ह्य् अरुषी रथे हरितो देव रोहितः |
ताभिर् देवां इहा वह ||yukṣvā́ hyáruṣī ráthe haríto deva rohítaḥ ǀ
tā́bhirdevā́m̐ ihā́ vaha ǁyukṣvā hy aruṣī rathe harito deva rohitaḥ |
tābhir devāṃ ihā vaha ||यु॒क्ष्व । हि । अरु॑षीः । रथे॑ । ह॒रितः॑ । दे॒व॒ । रो॒हितः॑ ।
ताभिः॑ । दे॒वान् । इ॒ह । आ । व॒ह॒ ॥युक्ष्व । हि । अरुषीः । रथे । हरितः । देव । रोहितः ।
ताभिः । देवान् । इह । आ । वह ॥yukṣvá ǀ hí ǀ áruṣīḥ ǀ ráthe ǀ harítaḥ ǀ deva ǀ rohítaḥ ǀ
tā́bhiḥ ǀ devā́n ǀ ihá ǀ ā́ ǀ vaha ǁyukṣva ǀ hi ǀ aruṣīḥ ǀ rathe ǀ haritaḥ ǀ deva ǀ rohitaḥ ǀ
tābhiḥ ǀ devān ǀ iha ǀ ā ǀ vaha ǁ1.14.12 Aṣṭaka 1.1.27.6Anuvāka 1.4.36
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.