Sūkta 94
- Devatā देवता
- 1-7, 9-15: Agni; 8: Agni (D); Devās (Abc); 16: Agni (Ab); Agni Or Mitra, Varuṇa, Aditi Sindhu (Cd)
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
Metres by ṛk
1st set of styles nicṛjjagatī (1, 4, 5, 7, 10); virāḍjagatī (9, 12-14); triṣṭup (2, 3, 16); svarāṭtriṣṭup (6); nicṛttriṣṭup (8); bhuriktriṣṭup (11); bhurikpaṅkti (15)
2nd set of styles jagatī (1-14); triṣṭubh (15-16)
-
Ṛk 1
इ॒मं स्तोम॒मर्ह॑ते जा॒तवे॑दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया॑ ।
भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥इमं स्तोमम् अर्हते जातवेदसे रथम् इव सम् महेमा मनीषया |
भद्रा हि नः प्रमतिर् अस्य संसद्य् अग्ने सख्ये मा रिषामा वयं तव ||imám stómamárhate jātávedase ráthamiva sám mahemā manīṣáyā ǀ
bhadrā́ hí naḥ prámatirasya saṃsádyágne sakhyé mā́ riṣāmā vayám táva ǁimaṃ stomam arhate jātavedase ratham iva sam mahemā manīṣayā |
bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava ||इ॒मम् । स्तोम॑म् । अर्ह॑ते । जा॒तऽवे॑दसे । रथ॑म्ऽइव । सम् । म॒हे॒म॒ । म॒नी॒षया॑ ।
भ॒द्रा । हि । नः॒ । प्रऽम॑तिः । अ॒स्य॒ । स॒म्ऽसदि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥इमम् । स्तोमम् । अर्हते । जातऽवेदसे । रथम्ऽइव । सम् । महेम । मनीषया ।
भद्रा । हि । नः । प्रऽमतिः । अस्य । सम्ऽसदि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥imám ǀ stómam ǀ árhate ǀ jātá-vedase ǀ rátham-iva ǀ sám ǀ mahema ǀ manīṣáyā ǀ
bhadrā́ ǀ hí ǀ naḥ ǀ prá-matiḥ ǀ asya ǀ sam-sádi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁimam ǀ stomam ǀ arhate ǀ jāta-vedase ǀ ratham-iva ǀ sam ǀ mahema ǀ manīṣayā ǀ
bhadrā ǀ hi ǀ naḥ ǀ pra-matiḥ ǀ asya ǀ sam-sadi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.1 Aṣṭaka 1.6.30.1Anuvāka 1.15.1
-
Ṛk 2
यस्मै॒ त्वमा॒यज॑से॒ स सा॑धत्यन॒र्वा क्षे॑ति॒ दध॑ते सु॒वीर्यं॑ ।
स तू॑ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥यस्मै त्वम् आयजसे स साधत्य् अनर्वा क्षेति दधते सुवीर्यम् |
स तूताव नैनम् अश्नोत्य् अंहतिर् अग्ने सख्ये मा रिषामा वयं तव ||yásmai tvámāyájase sá sādhatyanarvā́ kṣeti dádhate suvī́ryam ǀ
sá tūtāva náinamaśnotyaṃhatírágne sakhyé mā́ riṣāmā vayám táva ǁyasmai tvam āyajase sa sādhaty anarvā kṣeti dadhate suvīryam |
sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava ||यस्मै॑ । त्वम् । आ॒ऽयज॑से । सः । सा॒ध॒ति॒ । अ॒न॒र्वा । क्षे॒ति॒ । दध॑ते । सु॒ऽवीर्य॑म् ।
सः । तू॒ता॒व॒ । न । ए॒न॒म् । अ॒श्नो॒ति॒ । अं॒ह॒तिः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यस्मै । त्वम् । आऽयजसे । सः । साधति । अनर्वा । क्षेति । दधते । सुऽवीर्यम् ।
सः । तूताव । न । एनम् । अश्नोति । अंहतिः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yásmai ǀ tvám ǀ ā-yájase ǀ sáḥ ǀ sādhati ǀ anarvā́ ǀ kṣeti ǀ dádhate ǀ su-vī́ryam ǀ
sáḥ ǀ tūtāva ǀ ná ǀ enam ǀ aśnoti ǀ aṃhatíḥ ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁyasmai ǀ tvam ǀ ā-yajase ǀ saḥ ǀ sādhati ǀ anarvā ǀ kṣeti ǀ dadhate ǀ su-vīryam ǀ
saḥ ǀ tūtāva ǀ na ǀ enam ǀ aśnoti ǀ aṃhatiḥ ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.2 Aṣṭaka 1.6.30.2Anuvāka 1.15.2
-
Ṛk 3
श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ।
त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् |
त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ||śakéma tvā samídham sādháyā dhíyastvé devā́ havíradantyā́hutam ǀ
tvámādityā́m̐ ā́ vaha tā́nhyúśmásyágne sakhyé mā́ riṣāmā vayám táva ǁśakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam |
tvam ādityāṃ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava ||श॒केम॑ । त्वा॒ । स॒म्ऽइध॑म् । सा॒धय॑ । धियः॑ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।
त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥शकेम । त्वा । सम्ऽइधम् । साधय । धियः । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ।
त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥śakéma ǀ tvā ǀ sam-ídham ǀ sādháya ǀ dhíyaḥ ǀ tvé íti ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǀ
tvám ǀ ādityā́n ǀ ā́ ǀ vaha ǀ tā́n ǀ hí ǀ uśmási ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁśakema ǀ tvā ǀ sam-idham ǀ sādhaya ǀ dhiyaḥ ǀ tve iti ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǀ
tvam ǀ ādityān ǀ ā ǀ vaha ǀ tān ǀ hi ǀ uśmasi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.3 Aṣṭaka 1.6.30.3Anuvāka 1.15.3
-
Ṛk 4
भरा॑मे॒ध्मं कृ॒णवा॑मा ह॒वींषि॑ ते चि॒तयं॑तः॒ पर्व॑णापर्वणा व॒यं ।
जी॒वात॑वे प्रत॒रं सा॑धया॒ धियोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम् |
जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ||bhárāmedhmám kṛṇávāmā havī́ṃṣi te citáyantaḥ párvaṇāparvaṇā vayám ǀ
jīvā́tave pratarám sādhayā dhíyó’gne sakhyé mā́ riṣāmā vayám táva ǁbharāmedhmaṃ kṛṇavāmā havīṃṣi te citayantaḥ parvaṇā-parvaṇā vayam |
jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava ||भरा॑म । इ॒ध्मम् । कृ॒णवा॑म । ह॒वींषि॑ । ते॒ । चि॒तय॑न्तः । पर्व॑णाऽपर्वणा । व॒यम् ।
जी॒वात॑वे । प्र॒ऽत॒रम् । सा॒ध॒य॒ । धियः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥भराम । इध्मम् । कृणवाम । हवींषि । ते । चितयन्तः । पर्वणाऽपर्वणा । वयम् ।
जीवातवे । प्रऽतरम् । साधय । धियः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥bhárāma ǀ idhmám ǀ kṛṇávāma ǀ havī́ṃṣi ǀ te ǀ citáyantaḥ ǀ párvaṇā-parvaṇā ǀ vayám ǀ
jīvā́tave ǀ pra-tarám ǀ sādhaya ǀ dhíyaḥ ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁbharāma ǀ idhmam ǀ kṛṇavāma ǀ havīṃṣi ǀ te ǀ citayantaḥ ǀ parvaṇā-parvaṇā ǀ vayam ǀ
jīvātave ǀ pra-taram ǀ sādhaya ǀ dhiyaḥ ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.4 Aṣṭaka 1.6.30.4Anuvāka 1.15.4
-
Ṛk 5
वि॒शां गो॒पा अ॑स्य चरंति जं॒तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ ।
चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः |
चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ||viśā́m gopā́ asya caranti jantávo dvipácca yádutá cátuṣpadaktúbhiḥ ǀ
citráḥ praketá uṣáso mahā́m̐ asyágne sakhyé mā́ riṣāmā vayám táva ǁviśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ |
citraḥ praketa uṣaso mahāṃ asy agne sakhye mā riṣāmā vayaṃ tava ||वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ ।
चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः । द्विऽपत् । च । यत् । उत । चतुःऽपत् । अक्तुऽभिः ।
चित्रः । प्रऽकेतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥viśā́m ǀ gopā́ḥ ǀ asya ǀ caranti ǀ jantávaḥ ǀ dvi-pát ǀ ca ǀ yát ǀ utá ǀ cátuḥ-pat ǀ aktú-bhiḥ ǀ
citráḥ ǀ pra-ketáḥ ǀ uṣásaḥ ǀ mahā́n ǀ asi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁviśām ǀ gopāḥ ǀ asya ǀ caranti ǀ jantavaḥ ǀ dvi-pat ǀ ca ǀ yat ǀ uta ǀ catuḥ-pat ǀ aktu-bhiḥ ǀ
citraḥ ǀ pra-ketaḥ ǀ uṣasaḥ ǀ mahān ǀ asi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.5 Aṣṭaka 1.6.30.5Anuvāka 1.15.5
-
Ṛk 6
त्वम॑ध्व॒र्युरु॒त होता॑सि पू॒र्व्यः प्र॑शा॒स्ता पोता॑ ज॒नुषा॑ पु॒रोहि॑तः ।
विश्वा॑ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥त्वम् अध्वर्युर् उत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः |
विश्वा विद्वां आर्त्विज्या धीर पुष्यस्य् अग्ने सख्ये मा रिषामा वयं तव ||tvámadhvaryúrutá hótāsi pūrvyáḥ praśāstā́ pótā janúṣā puróhitaḥ ǀ
víśvā vidvā́m̐ ā́rtvijyā dhīra puṣyasyágne sakhyé mā́ riṣāmā vayám táva ǁtvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ |
viśvā vidvāṃ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava ||त्वम् । अ॒ध्व॒र्युः । उ॒त । होता॑ । अ॒सि॒ । पू॒र्व्यः । प्र॒ऽशा॒स्ता । पोता॑ । ज॒नुषा॑ । पु॒रःऽहि॑तः ।
विश्वा॑ । वि॒द्वान् । आर्त्वि॑ज्या । धी॒र॒ । पु॒ष्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥त्वम् । अध्वर्युः । उत । होता । असि । पूर्व्यः । प्रऽशास्ता । पोता । जनुषा । पुरःऽहितः ।
विश्वा । विद्वान् । आर्त्विज्या । धीर । पुष्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥tvám ǀ adhvaryúḥ ǀ utá ǀ hótā ǀ asi ǀ pūrvyáḥ ǀ pra-śāstā́ ǀ pótā ǀ janúṣā ǀ puráḥ-hitaḥ ǀ
víśvā ǀ vidvā́n ǀ ā́rtvijyā ǀ dhīra ǀ puṣyasi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁtvam ǀ adhvaryuḥ ǀ uta ǀ hotā ǀ asi ǀ pūrvyaḥ ǀ pra-śāstā ǀ potā ǀ januṣā ǀ puraḥ-hitaḥ ǀ
viśvā ǀ vidvān ǀ ārtvijyā ǀ dhīra ǀ puṣyasi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.6 Aṣṭaka 1.6.31.1Anuvāka 1.15.6
-
Ṛk 7
यो वि॒श्वतः॑ सु॒प्रती॑कः स॒दृङ्ङसि॑ दू॒रे चि॒त्संत॒ळिदि॒वाति॑ रोचसे ।
रात्र्या॑श्चि॒दंधो॒ अति॑ देव पश्य॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥यो विश्वतः सुप्रतीकः सदृङ्ङ् असि दूरे चित् सन् तऌइद् इवाति रोचसे |
रात्र्याश् चिद् अन्धो अति देव पश्यस्य् अग्ने सख्ये मा रिषामा वयं तव ||yó viśvátaḥ suprátīkaḥ sadṛ́ṅṅási dūré citsántaḷídivā́ti rocase ǀ
rā́tryāścidándho áti deva paśyasyágne sakhyé mā́ riṣāmā vayám táva ǁyo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḷid ivāti rocase |
rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava ||यः । वि॒श्वतः॑ । सु॒ऽप्रती॑कः । स॒ऽदृङ् । असि॑ । दू॒रे । चि॒त् । सन् । त॒ळित्ऽइ॑व । अति॑ । रो॒च॒से॒ ।
रात्र्याः॑ । चि॒त् । अन्धः॑ । अति॑ । दे॒व॒ । प॒श्य॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यः । विश्वतः । सुऽप्रतीकः । सऽदृङ् । असि । दूरे । चित् । सन् । तळित्ऽइव । अति । रोचसे ।
रात्र्याः । चित् । अन्धः । अति । देव । पश्यसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yáḥ ǀ viśvátaḥ ǀ su-prátīkaḥ ǀ sa-dṛ́ṅ ǀ ási ǀ dūré ǀ cit ǀ sán ǀ taḷít-iva ǀ áti ǀ rocase ǀ
rā́tryāḥ ǀ cit ǀ ándhaḥ ǀ áti ǀ deva ǀ paśyasi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁyaḥ ǀ viśvataḥ ǀ su-pratīkaḥ ǀ sa-dṛṅ ǀ asi ǀ dūre ǀ cit ǀ san ǀ taḷit-iva ǀ ati ǀ rocase ǀ
rātryāḥ ǀ cit ǀ andhaḥ ǀ ati ǀ deva ǀ paśyasi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.7 Aṣṭaka 1.6.31.2Anuvāka 1.15.7
-
Ṛk 8
पूर्वो॑ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो॑ अ॒भ्य॑स्तु दू॒ढ्यः॑ ।
तदा जा॑नीतो॒त पु॑ष्यता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥पूर्वो देवा भवतु सुन्वतो रथो ऽस्माकं शंसो अभ्य् अस्तु दूढ्यः |
तद् आ जानीतोत पुष्यता वचो ऽग्ने सख्ये मा रिषामा वयं तव ||pū́rvo devā bhavatu sunvató rátho’smā́kam śáṃso abhyástu dūḍhyáḥ ǀ
tádā́ jānītotá puṣyatā vácó’gne sakhyé mā́ riṣāmā vayám táva ǁpūrvo devā bhavatu sunvato ratho 'smākaṃ śaṃso abhy astu dūḍhyaḥ |
tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava ||पूर्वः॑ । दे॒वाः॒ । भ॒व॒तु॒ । सु॒न्व॒तः । रथः॑ । अ॒स्माक॑म् । शंसः॑ । अ॒भि । अ॒स्तु॒ । दुः॒ऽध्यः॑ ।
तत् । आ । जा॒नी॒त॒ । उ॒त । पु॒ष्य॒त॒ । वचः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥पूर्वः । देवाः । भवतु । सुन्वतः । रथः । अस्माकम् । शंसः । अभि । अस्तु । दुःऽध्यः ।
तत् । आ । जानीत । उत । पुष्यत । वचः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥pū́rvaḥ ǀ devāḥ ǀ bhavatu ǀ sunvatáḥ ǀ ráthaḥ ǀ asmā́kam ǀ śáṃsaḥ ǀ abhí ǀ astu ǀ duḥ-dhyáḥ ǀ
tát ǀ ā́ ǀ jānīta ǀ utá ǀ puṣyata ǀ vácaḥ ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁpūrvaḥ ǀ devāḥ ǀ bhavatu ǀ sunvataḥ ǀ rathaḥ ǀ asmākam ǀ śaṃsaḥ ǀ abhi ǀ astu ǀ duḥ-dhyaḥ ǀ
tat ǀ ā ǀ jānīta ǀ uta ǀ puṣyata ǀ vacaḥ ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.8 Aṣṭaka 1.6.31.3Anuvāka 1.15.8
-
Ṛk 9
व॒धैर्दुः॒शंसाँ॒ अप॑ दू॒ढ्यो॑ जहि दू॒रे वा॒ ये अंति॑ वा॒ के चि॑द॒त्रिणः॑ ।
अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥वधैर् दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिद् अत्रिणः |
अथा यज्ञाय गृणते सुगं कृध्य् अग्ने सख्ये मा रिषामा वयं तव ||vadháirduḥśáṃsām̐ ápa dūḍhyó jahi dūré vā yé ánti vā ké cidatríṇaḥ ǀ
áthā yajñā́ya gṛṇaté sugám kṛdhyágne sakhyé mā́ riṣāmā vayám táva ǁvadhair duḥśaṃsāṃ apa dūḍhyo jahi dūre vā ye anti vā ke cid atriṇaḥ |
athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava ||व॒धैः । दुः॒ऽशंसा॑न् । अप॑ । दुः॒ऽध्यः॑ । ज॒हि॒ । दू॒रे । वा॒ । ये । अन्ति॑ । वा॒ । के । चि॒त् । अ॒त्रिणः॑ ।
अथ॑ । य॒ज्ञाय॑ । गृ॒ण॒ते । सु॒ऽगम् । कृ॒धि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥वधैः । दुःऽशंसान् । अप । दुःऽध्यः । जहि । दूरे । वा । ये । अन्ति । वा । के । चित् । अत्रिणः ।
अथ । यज्ञाय । गृणते । सुऽगम् । कृधि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥vadháiḥ ǀ duḥ-śáṃsān ǀ ápa ǀ duḥ-dhyáḥ ǀ jahi ǀ dūré ǀ vā ǀ yé ǀ ánti ǀ vā ǀ ké ǀ cit ǀ atríṇaḥ ǀ
átha ǀ yajñā́ya ǀ gṛṇaté ǀ su-gám ǀ kṛdhi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁvadhaiḥ ǀ duḥ-śaṃsān ǀ apa ǀ duḥ-dhyaḥ ǀ jahi ǀ dūre ǀ vā ǀ ye ǀ anti ǀ vā ǀ ke ǀ cit ǀ atriṇaḥ ǀ
atha ǀ yajñāya ǀ gṛṇate ǀ su-gam ǀ kṛdhi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.9 Aṣṭaka 1.6.31.4Anuvāka 1.15.9
-
Ṛk 10
यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये॑व ते॒ रवः॑ ।
आदि॑न्वसि व॒निनो॑ धू॒मके॑तु॒नाग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥यद् अयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः |
आद् इन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ||yádáyukthā aruṣā́ róhitā ráthe vā́tajūtā vṛṣabhásyeva te rávaḥ ǀ
ā́dinvasi vaníno dhūmáketunā́gne sakhyé mā́ riṣāmā vayám táva ǁyad ayukthā aruṣā rohitā rathe vātajūtā vṛṣabhasyeva te ravaḥ |
ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava ||यत् । अयु॑क्थाः । अ॒रु॒षा । रोहि॑ता । रथे॑ । वात॑ऽजूता । वृ॒ष॒भस्य॑ऽइव । ते॒ । रवः॑ ।
आत् । इ॒न्व॒सि॒ । व॒निनः॑ । धू॒मऽके॑तुना । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥यत् । अयुक्थाः । अरुषा । रोहिता । रथे । वातऽजूता । वृषभस्यऽइव । ते । रवः ।
आत् । इन्वसि । वनिनः । धूमऽकेतुना । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥yát ǀ áyukthāḥ ǀ aruṣā́ ǀ róhitā ǀ ráthe ǀ vā́ta-jūtā ǀ vṛṣabhásya-iva ǀ te ǀ rávaḥ ǀ
ā́t ǀ invasi ǀ vanínaḥ ǀ dhūmá-ketunā ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁyat ǀ ayukthāḥ ǀ aruṣā ǀ rohitā ǀ rathe ǀ vāta-jūtā ǀ vṛṣabhasya-iva ǀ te ǀ ravaḥ ǀ
āt ǀ invasi ǀ vaninaḥ ǀ dhūma-ketunā ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.10 Aṣṭaka 1.6.31.5Anuvāka 1.15.10
-
Ṛk 11
अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो॑ द्र॒प्सा यत्ते॑ यव॒सादो॒ व्यस्थि॑रन् ।
सु॒गं तत्ते॑ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥अध स्वनाद् उत बिभ्युः पतत्रिणो द्रप्सा यत् ते यवसादो व्य् अस्थिरन् |
सुगं तत् ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव ||ádha svanā́dutá bibhyuḥ patatríṇo drapsā́ yátte yavasā́do vyásthiran ǀ
sugám tátte tāvakébhyo ráthebhyó’gne sakhyé mā́ riṣāmā vayám táva ǁadha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran |
sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava ||अध॑ । स्व॒नात् । उ॒त । बि॒भ्युः॒ । प॒त॒त्रिणः॑ । द्र॒प्साः । यत् । ते॒ । य॒व॒स॒ऽअदः॑ । वि । अस्थि॑रन् ।
सु॒ऽगम् । तत् । ते॒ । ता॒व॒केभ्यः॑ । र॒थे॒भ्यः । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥अध । स्वनात् । उत । बिभ्युः । पतत्रिणः । द्रप्साः । यत् । ते । यवसऽअदः । वि । अस्थिरन् ।
सुऽगम् । तत् । ते । तावकेभ्यः । रथेभ्यः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥ádha ǀ svanā́t ǀ utá ǀ bibhyuḥ ǀ patatríṇaḥ ǀ drapsā́ḥ ǀ yát ǀ te ǀ yavasa-ádaḥ ǀ ví ǀ ásthiran ǀ
su-gám ǀ tát ǀ te ǀ tāvakébhyaḥ ǀ rathebhyáḥ ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁadha ǀ svanāt ǀ uta ǀ bibhyuḥ ǀ patatriṇaḥ ǀ drapsāḥ ǀ yat ǀ te ǀ yavasa-adaḥ ǀ vi ǀ asthiran ǀ
su-gam ǀ tat ǀ te ǀ tāvakebhyaḥ ǀ rathebhyaḥ ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.11 Aṣṭaka 1.6.32.1Anuvāka 1.15.11
-
Ṛk 12
अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः ।
मृ॒ळा सु नो॒ भूत्वे॑षां॒ मनः॒ पुन॒रग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥अयम् मित्रस्य वरुणस्य धायसे ऽवयाताम् मरुतां हेऌओ अद्भुतः |
मृऌआ सु नो भूत्व् एषाम् मनः पुनर् अग्ने सख्ये मा रिषामा वयं तव ||ayám mitrásya váruṇasya dhā́yase’vayātā́m marútām héḷo ádbhutaḥ ǀ
mṛḷā́ sú no bhū́tveṣām mánaḥ púnarágne sakhyé mā́ riṣāmā vayám táva ǁayam mitrasya varuṇasya dhāyase 'vayātām marutāṃ heḷo adbhutaḥ |
mṛḷā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava ||अ॒यम् । मि॒त्रस्य॑ । वरु॑णस्य । धाय॑से । अ॒व॒ऽया॒ताम् । म॒रुता॑म् । हेळः॑ । अद्भु॑तः ।
मृ॒ळ । सु । नः॒ । भूतु॑ । ए॒षा॒म् । मनः॑ । पुनः॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥अयम् । मित्रस्य । वरुणस्य । धायसे । अवऽयाताम् । मरुताम् । हेळः । अद्भुतः ।
मृळ । सु । नः । भूतु । एषाम् । मनः । पुनः । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥ayám ǀ mitrásya ǀ váruṇasya ǀ dhā́yase ǀ ava-yātā́m ǀ marútām ǀ héḷaḥ ǀ ádbhutaḥ ǀ
mṛḷá ǀ sú ǀ naḥ ǀ bhū́tu ǀ eṣām ǀ mánaḥ ǀ púnaḥ ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁayam ǀ mitrasya ǀ varuṇasya ǀ dhāyase ǀ ava-yātām ǀ marutām ǀ heḷaḥ ǀ adbhutaḥ ǀ
mṛḷa ǀ su ǀ naḥ ǀ bhūtu ǀ eṣām ǀ manaḥ ǀ punaḥ ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.12 Aṣṭaka 1.6.32.2Anuvāka 1.15.12
-
Ṛk 13
दे॒वो दे॒वाना॑मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू॑नामसि॒ चारु॑रध्व॒रे ।
शर्म॑न्त्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥देवो देवानाम् असि मित्रो अद्भुतो वसुर् वसूनाम् असि चारुर् अध्वरे |
शर्मन् स्याम तव सप्रथस्तमे ऽग्ने सख्ये मा रिषामा वयं तव ||devó devā́nāmasi mitró ádbhuto vásurvásūnāmasi cā́ruradhvaré ǀ
śármantsyāma táva sapráthastamé’gne sakhyé mā́ riṣāmā vayám táva ǁdevo devānām asi mitro adbhuto vasur vasūnām asi cārur adhvare |
śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava ||दे॒वः । दे॒वाना॑म् । अ॒सि॒ । मि॒त्रः । अद्भु॑तः । वसुः॑ । वसू॑नाम् । अ॒सि॒ । चारुः॑ । अ॒ध्व॒रे ।
शर्म॑न् । स्या॒म॒ । तव॑ । स॒प्रथः॑ऽतमे । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥देवः । देवानाम् । असि । मित्रः । अद्भुतः । वसुः । वसूनाम् । असि । चारुः । अध्वरे ।
शर्मन् । स्याम । तव । सप्रथःऽतमे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥deváḥ ǀ devā́nām ǀ asi ǀ mitráḥ ǀ ádbhutaḥ ǀ vásuḥ ǀ vásūnām ǀ asi ǀ cā́ruḥ ǀ adhvaré ǀ
śárman ǀ syāma ǀ táva ǀ sapráthaḥ-tame ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁdevaḥ ǀ devānām ǀ asi ǀ mitraḥ ǀ adbhutaḥ ǀ vasuḥ ǀ vasūnām ǀ asi ǀ cāruḥ ǀ adhvare ǀ
śarman ǀ syāma ǀ tava ǀ saprathaḥ-tame ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.13 Aṣṭaka 1.6.32.3Anuvāka 1.15.13
-
Ṛk 14
तत्ते॑ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा॑हुतो॒ जर॑से मृळ॒यत्त॑मः ।
दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥तत् ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृऌअयत्तमः |
दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ||tátte bhadrám yátsámiddhaḥ své dáme sómāhuto járase mṛḷayáttamaḥ ǀ
dádhāsi rátnam dráviṇam ca dāśúṣé’gne sakhyé mā́ riṣāmā vayám táva ǁtat te bhadraṃ yat samiddhaḥ sve dame somāhuto jarase mṛḷayattamaḥ |
dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava ||तत् । ते॒ । भ॒द्रम् । यत् । सम्ऽइ॑द्धः । स्वे । दमे॑ । सोम॑ऽआहुतः । जर॑से । मृ॒ळ॒यत्ऽत॑मः ।
दधा॑सि । रत्न॑म् । द्रवि॑णम् । च॒ । दा॒शुषे॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥तत् । ते । भद्रम् । यत् । सम्ऽइद्धः । स्वे । दमे । सोमऽआहुतः । जरसे । मृळयत्ऽतमः ।
दधासि । रत्नम् । द्रविणम् । च । दाशुषे । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥tát ǀ te ǀ bhadrám ǀ yát ǀ sám-iddhaḥ ǀ své ǀ dáme ǀ sóma-āhutaḥ ǀ járase ǀ mṛḷayát-tamaḥ ǀ
dádhāsi ǀ rátnam ǀ dráviṇam ǀ ca ǀ dāśúṣe ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁtat ǀ te ǀ bhadram ǀ yat ǀ sam-iddhaḥ ǀ sve ǀ dame ǀ soma-āhutaḥ ǀ jarase ǀ mṛḷayat-tamaḥ ǀ
dadhāsi ǀ ratnam ǀ draviṇam ǀ ca ǀ dāśuṣe ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ1.94.14 Aṣṭaka 1.6.32.4Anuvāka 1.15.14
-
Ṛk 15
यस्मै॒ त्वं सु॑द्रविणो॒ ददा॑शोऽनागा॒स्त्वम॑दिते स॒र्वता॑ता ।
यं भ॒द्रेण॒ शव॑सा चो॒दया॑सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या॑म ॥यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वम् अदिते सर्वताता |
यम् भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ||yásmai tvám sudraviṇo dádāśo’nāgāstvámadite sarvátātā ǀ
yám bhadréṇa śávasā codáyāsi prajā́vatā rā́dhasā té syāma ǁyasmai tvaṃ sudraviṇo dadāśo 'nāgāstvam adite sarvatātā |
yam bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma ||यस्मै॑ । त्वम् । सु॒ऽद्र॒वि॒णः॒ । ददा॑शः । अ॒ना॒गाः॒ऽत्वम् । अ॒दि॒ते॒ । स॒र्वऽता॑ता ।
यम् । भ॒द्रेण॑ । शव॑सा । चो॒दया॑सि । प्र॒जाऽव॑ता । राध॑सा । ते । स्या॒म॒ ॥यस्मै । त्वम् । सुऽद्रविणः । ददाशः । अनागाःऽत्वम् । अदिते । सर्वऽताता ।
यम् । भद्रेण । शवसा । चोदयासि । प्रजाऽवता । राधसा । ते । स्याम ॥yásmai ǀ tvám ǀ su-draviṇaḥ ǀ dádāśaḥ ǀ anāgāḥ-tvám ǀ adite ǀ sarvá-tātā ǀ
yám ǀ bhadréṇa ǀ śávasā ǀ codáyāsi ǀ prajā́-vatā ǀ rā́dhasā ǀ té ǀ syāma ǁyasmai ǀ tvam ǀ su-draviṇaḥ ǀ dadāśaḥ ǀ anāgāḥ-tvam ǀ adite ǀ sarva-tātā ǀ
yam ǀ bhadreṇa ǀ śavasā ǀ codayāsi ǀ prajā-vatā ǀ rādhasā ǀ te ǀ syāma ǁ1.94.15 Aṣṭaka 1.6.32.5Anuvāka 1.15.15
-
Ṛk 16
स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे॑व ।
तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥स त्वम् अग्ने सौभगत्वस्य विद्वान् अस्माकम् आयुः प्र तिरेह देव |
तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||sá tvámagne saubhagatvásya vidvā́nasmā́kamā́yuḥ prá tirehá deva ǀ
tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁsa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva |
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||सः । त्वम् । अ॒ग्ने॒ । सौ॒भ॒ग॒ऽत्वस्य॑ । वि॒द्वान् । अ॒स्माक॑म् । आयुः॑ । प्र । ति॒र॒ । इ॒ह । दे॒व॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥सः । त्वम् । अग्ने । सौभगऽत्वस्य । विद्वान् । अस्माकम् । आयुः । प्र । तिर । इह । देव ।
तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥sáḥ ǀ tvám ǀ agne ǀ saubhaga-tvásya ǀ vidvā́n ǀ asmā́kam ǀ ā́yuḥ ǀ prá ǀ tira ǀ ihá ǀ deva ǀ
tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁsaḥ ǀ tvam ǀ agne ǀ saubhaga-tvasya ǀ vidvān ǀ asmākam ǀ āyuḥ ǀ pra ǀ tira ǀ iha ǀ deva ǀ
tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ1.94.16 Aṣṭaka 1.6.32.6Anuvāka 1.15.16
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.