Ṛk 1.94.5
Saṃhitā
वि॒शां गो॒पा अ॑स्य चरंति जं॒तवो॑ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ ।
चि॒त्रः प्र॑के॒त उ॒षसो॑ म॒हाँ अ॒स्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
विशां गोपा अस्य चरन्ति जन्तवो द्विपच् च यद् उत चतुष्पद् अक्तुभिः |
चित्रः प्रकेत उषसो महां अस्य् अग्ने सख्ये मा रिषामा वयं तव ||
viśā́m gopā́ asya caranti jantávo dvipácca yádutá cátuṣpadaktúbhiḥ ǀ
citráḥ praketá uṣáso mahā́m̐ asyágne sakhyé mā́ riṣāmā vayám táva ǁ
viśāṃ gopā asya caranti jantavo dvipac ca yad uta catuṣpad aktubhiḥ |
citraḥ praketa uṣaso mahāṃ asy agne sakhye mā riṣāmā vayaṃ tava ||
Padapāṭha
वि॒शाम् । गो॒पाः । अ॒स्य॒ । च॒र॒न्ति॒ । ज॒न्तवः॑ । द्वि॒ऽपत् । च॒ । यत् । उ॒त । चतुः॑ऽपत् । अ॒क्तुऽभिः॑ ।
चि॒त्रः । प्र॒ऽके॒तः । उ॒षसः॑ । म॒हान् । अ॒सि॒ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
विशाम् । गोपाः । अस्य । चरन्ति । जन्तवः । द्विऽपत् । च । यत् । उत । चतुःऽपत् । अक्तुऽभिः ।
चित्रः । प्रऽकेतः । उषसः । महान् । असि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
viśā́m ǀ gopā́ḥ ǀ asya ǀ caranti ǀ jantávaḥ ǀ dvi-pát ǀ ca ǀ yát ǀ utá ǀ cátuḥ-pat ǀ aktú-bhiḥ ǀ
citráḥ ǀ pra-ketáḥ ǀ uṣásaḥ ǀ mahā́n ǀ asi ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁ
viśām ǀ gopāḥ ǀ asya ǀ caranti ǀ jantavaḥ ǀ dvi-pat ǀ ca ǀ yat ǀ uta ǀ catuḥ-pat ǀ aktu-bhiḥ ǀ
citraḥ ǀ pra-ketaḥ ǀ uṣasaḥ ǀ mahān ǀ asi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.094.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.30.05
- Maṇḍala · Anuvāka · Ṛk
- 1.15.005
- Devatā देवता
- 1-7, 9-15: Agni; 8: Agni (D); Devās (Abc); 16: Agni (Ab); Agni Or Mitra, Varuṇa, Aditi Sindhu (Cd)
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.