Ṛk 1.94.3
Saṃhitā
श॒केम॑ त्वा स॒मिधं॑ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑दं॒त्याहु॑तं ।
त्वमा॑दि॒त्याँ आ व॑ह॒ तान्ह्यु१॒॑श्मस्यग्ने॑ स॒ख्ये मा रि॑षामा व॒यं तव॑ ॥
शकेम त्वा समिधं साधया धियस् त्वे देवा हविर् अदन्त्य् आहुतम् |
त्वम् आदित्यां आ वह तान् ह्य् उश्मस्य् अग्ने सख्ये मा रिषामा वयं तव ||
śakéma tvā samídham sādháyā dhíyastvé devā́ havíradantyā́hutam ǀ
tvámādityā́m̐ ā́ vaha tā́nhyúśmásyágne sakhyé mā́ riṣāmā vayám táva ǁ
śakema tvā samidhaṃ sādhayā dhiyas tve devā havir adanty āhutam |
tvam ādityāṃ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava ||
Padapāṭha
श॒केम॑ । त्वा॒ । स॒म्ऽइध॑म् । सा॒धय॑ । धियः॑ । त्वे इति॑ । दे॒वाः । ह॒विः । अ॒द॒न्ति॒ । आऽहु॑तम् ।
त्वम् । आ॒दि॒त्यान् । आ । व॒ह॒ । तान् । हि । उ॒श्मसि॑ । अग्ने॑ । स॒ख्ये । मा । रि॒षा॒म॒ । व॒यम् । तव॑ ॥
शकेम । त्वा । सम्ऽइधम् । साधय । धियः । त्वे इति । देवाः । हविः । अदन्ति । आऽहुतम् ।
त्वम् । आदित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । मा । रिषाम । वयम् । तव ॥
śakéma ǀ tvā ǀ sam-ídham ǀ sādháya ǀ dhíyaḥ ǀ tvé íti ǀ devā́ḥ ǀ havíḥ ǀ adanti ǀ ā́-hutam ǀ
tvám ǀ ādityā́n ǀ ā́ ǀ vaha ǀ tā́n ǀ hí ǀ uśmási ǀ ágne ǀ sakhyé ǀ mā́ ǀ riṣāma ǀ vayám ǀ táva ǁ
śakema ǀ tvā ǀ sam-idham ǀ sādhaya ǀ dhiyaḥ ǀ tve iti ǀ devāḥ ǀ haviḥ ǀ adanti ǀ ā-hutam ǀ
tvam ǀ ādityān ǀ ā ǀ vaha ǀ tān ǀ hi ǀ uśmasi ǀ agne ǀ sakhye ǀ mā ǀ riṣāma ǀ vayam ǀ tava ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.094.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.6.30.03
- Maṇḍala · Anuvāka · Ṛk
- 1.15.003
- Devatā देवता
- 1-7, 9-15: Agni; 8: Agni (D); Devās (Abc); 16: Agni (Ab); Agni Or Mitra, Varuṇa, Aditi Sindhu (Cd)
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.