Sūkta 40
- Devatā देवता
- Brahmaṇaspati
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Bṛhatī, Satobṛhatī
Metres by ṛk
1st set of styles nicṛdupariṣṭād bṛhatī (1, 2); ārcītriṣṭup (3, 7); sataḥpaṅkti (4, 6); pathyāvṛhatī (5); nicṛtpaṅkti (8)
2nd set of styles bṛhatī (1, 3, 5, 7); satobṛhatī (2, 4, 6, 8)
-
Ṛk 1
उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यंत॑स्त्वेमहे ।
उप॒ प्र यं॑तु म॒रुतः॑ सु॒दान॑व॒ इंद्र॑ प्रा॒शूर्भ॑वा॒ सचा॑ ॥उत् तिष्ठ ब्रह्मणस् पते देवयन्तस् त्वेमहे |
उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर् भवा सचा ||úttiṣṭha brahmaṇaspate devayántastvemahe ǀ
úpa prá yantu marútaḥ sudā́nava índra prāśū́rbhavā sácā ǁut tiṣṭha brahmaṇas pate devayantas tvemahe |
upa pra yantu marutaḥ sudānava indra prāśūr bhavā sacā ||उत् । ति॒ष्ठ॒ । ब्र॒ह्म॒णः॒ । प॒ते॒ । दे॒व॒ऽयन्तः॑ । त्वा॒ । ई॒म॒हे॒ ।
उप॑ । प्र । य॒न्तु॒ । म॒रुतः॑ । सु॒ऽदान॑वः । इन्द्र॑ । प्रा॒शूः । भ॒व॒ । सचा॑ ॥उत् । तिष्ठ । ब्रह्मणः । पते । देवऽयन्तः । त्वा । ईमहे ।
उप । प्र । यन्तु । मरुतः । सुऽदानवः । इन्द्र । प्राशूः । भव । सचा ॥út ǀ tiṣṭha ǀ brahmaṇaḥ ǀ pate ǀ deva-yántaḥ ǀ tvā ǀ īmahe ǀ
úpa ǀ prá ǀ yantu ǀ marútaḥ ǀ su-dā́navaḥ ǀ índra ǀ prāśū́ḥ ǀ bhava ǀ sácā ǁut ǀ tiṣṭha ǀ brahmaṇaḥ ǀ pate ǀ deva-yantaḥ ǀ tvā ǀ īmahe ǀ
upa ǀ pra ǀ yantu ǀ marutaḥ ǀ su-dānavaḥ ǀ indra ǀ prāśūḥ ǀ bhava ǀ sacā ǁ1.40.1 Aṣṭaka 1.3.20.1Anuvāka 1.8.61
-
Ṛk 2
त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने॑ हि॒ते ।
सु॒वीर्यं॑ मरुत॒ आ स्वश्व्यं॒ दधी॑त॒ यो व॑ आच॒के ॥त्वाम् इद् धि सहसस् पुत्र मर्त्य उपब्रूते धने हिते |
सुवीर्यम् मरुत आ स्वश्व्यं दधीत यो व आचके ||tvā́míddhí sahasasputra mártya upabrūté dháne hité ǀ
suvī́ryam maruta ā́ sváśvyam dádhīta yó va ācaké ǁtvām id dhi sahasas putra martya upabrūte dhane hite |
suvīryam maruta ā svaśvyaṃ dadhīta yo va ācake ||त्वाम् । इत् । हि । स॒ह॒सः॒ । पु॒त्र॒ । मर्त्यः॑ । उ॒प॒ऽब्रू॒ते । धने॑ । हि॒ते ।
सु॒ऽवीर्य॑म् । म॒रु॒तः॒ । आ । सु॒ऽअश्व्य॑म् । दधी॑त । यः । वः॒ । आ॒ऽच॒क्रे ॥त्वाम् । इत् । हि । सहसः । पुत्र । मर्त्यः । उपऽब्रूते । धने । हिते ।
सुऽवीर्यम् । मरुतः । आ । सुऽअश्व्यम् । दधीत । यः । वः । आऽचक्रे ॥tvā́m ǀ ít ǀ hí ǀ sahasaḥ ǀ putra ǀ mártyaḥ ǀ upa-brūté ǀ dháne ǀ hité ǀ
su-vī́ryam ǀ marutaḥ ǀ ā́ ǀ su-áśvyam ǀ dádhīta ǀ yáḥ ǀ vaḥ ǀ ā-cakré ǁtvām ǀ it ǀ hi ǀ sahasaḥ ǀ putra ǀ martyaḥ ǀ upa-brūte ǀ dhane ǀ hite ǀ
su-vīryam ǀ marutaḥ ǀ ā ǀ su-aśvyam ǀ dadhīta ǀ yaḥ ǀ vaḥ ǀ ā-cakre ǁ1.40.2 Aṣṭaka 1.3.20.2Anuvāka 1.8.62
-
Ṛk 3
प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये॑तु सू॒नृता॑ ।
अच्छा॑ वी॒रं नर्यं॑ पं॒क्तिरा॑धसं दे॒वा य॒ज्ञं न॑यंतु नः ॥प्रैतु ब्रह्मणस् पतिः प्र देव्य् एतु सूनृता |
अच्छा वीरं नर्यम् पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ||práitu bráhmaṇaspátiḥ prá devyétu sūnṛ́tā ǀ
ácchā vīrám náryam paṅktírādhasam devā́ yajñám nayantu naḥ ǁpraitu brahmaṇas patiḥ pra devy etu sūnṛtā |
acchā vīraṃ naryam paṅktirādhasaṃ devā yajñaṃ nayantu naḥ ||प्र । ए॒तु॒ । ब्रह्म॑णः । पतिः॑ । प्र । दे॒वी । ए॒तु॒ । सू॒नृता॑ ।
अच्छ॑ । वी॒रम् । नर्य॑म् । प॒ङ्क्तिऽरा॑धसम् । दे॒वाः । य॒ज्ञम् । न॒य॒न्तु॒ । नः॒ ॥प्र । एतु । ब्रह्मणः । पतिः । प्र । देवी । एतु । सूनृता ।
अच्छ । वीरम् । नर्यम् । पङ्क्तिऽराधसम् । देवाः । यज्ञम् । नयन्तु । नः ॥prá ǀ etu ǀ bráhmaṇaḥ ǀ pátiḥ ǀ prá ǀ devī́ ǀ etu ǀ sūnṛ́tā ǀ
áccha ǀ vīrám ǀ náryam ǀ paṅktí-rādhasam ǀ devā́ḥ ǀ yajñám ǀ nayantu ǀ naḥ ǁpra ǀ etu ǀ brahmaṇaḥ ǀ patiḥ ǀ pra ǀ devī ǀ etu ǀ sūnṛtā ǀ
accha ǀ vīram ǀ naryam ǀ paṅkti-rādhasam ǀ devāḥ ǀ yajñam ǀ nayantu ǀ naḥ ǁ1.40.3 Aṣṭaka 1.3.20.3Anuvāka 1.8.63
-
Ṛk 4
यो वा॒घते॒ ददा॑ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ ।
तस्मा॒ इळां॑ सु॒वीरा॒मा य॑जामहे सु॒प्रतू॑र्तिमने॒हसं॑ ॥यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः |
तस्मा इऌआं सुवीराम् आ यजामहे सुप्रतूर्तिम् अनेहसम् ||yó vāgháte dádāti sūnáram vásu sá dhatte ákṣiti śrávaḥ ǀ
tásmā íḷām suvī́rāmā́ yajāmahe suprátūrtimanehásam ǁyo vāghate dadāti sūnaraṃ vasu sa dhatte akṣiti śravaḥ |
tasmā iḷāṃ suvīrām ā yajāmahe supratūrtim anehasam ||यः । वा॒घते॑ । ददा॑ति । सू॒नर॑म् । वसु॑ । सः । ध॒त्ते॒ । अक्षि॑ति । श्रवः॑ ।
तस्मै॑ । इळा॑म् । सु॒ऽवीरा॑म् । आ । य॒जा॒म॒हे॒ । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥यः । वाघते । ददाति । सूनरम् । वसु । सः । धत्ते । अक्षिति । श्रवः ।
तस्मै । इळाम् । सुऽवीराम् । आ । यजामहे । सुऽप्रतूर्तिम् । अनेहसम् ॥yáḥ ǀ vāgháte ǀ dádāti ǀ sūnáram ǀ vásu ǀ sáḥ ǀ dhatte ǀ ákṣiti ǀ śrávaḥ ǀ
tásmai ǀ íḷām ǀ su-vī́rām ǀ ā́ ǀ yajāmahe ǀ su-prátūrtim ǀ anehásam ǁyaḥ ǀ vāghate ǀ dadāti ǀ sūnaram ǀ vasu ǀ saḥ ǀ dhatte ǀ akṣiti ǀ śravaḥ ǀ
tasmai ǀ iḷām ǀ su-vīrām ǀ ā ǀ yajāmahe ǀ su-pratūrtim ǀ anehasam ǁ1.40.4 Aṣṭaka 1.3.20.4Anuvāka 1.8.64
-
Ṛk 5
प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मंत्रं॑ वदत्यु॒क्थ्यं॑ ।
यस्मि॒न्निंद्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा दे॒वा ओकां॑सि चक्रि॒रे ॥प्र नूनम् ब्रह्मणस् पतिर् मन्त्रं वदत्य् उक्थ्यम् |
यस्मिन्न् इन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ||prá nūnám bráhmaṇaspátirmántram vadatyukthyám ǀ
yásminníndro váruṇo mitró aryamā́ devā́ ókāṃsi cakriré ǁpra nūnam brahmaṇas patir mantraṃ vadaty ukthyam |
yasminn indro varuṇo mitro aryamā devā okāṃsi cakrire ||प्र । नू॒नम् । ब्रह्म॑णः । पतिः॑ । मन्त्र॑म् । व॒द॒ति॒ । उ॒क्थ्य॑म् ।
यस्मि॑न् । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । दे॒वाः । ओकां॑सि । च॒क्रि॒रे ॥प्र । नूनम् । ब्रह्मणः । पतिः । मन्त्रम् । वदति । उक्थ्यम् ।
यस्मिन् । इन्द्रः । वरुणः । मित्रः । अर्यमा । देवाः । ओकांसि । चक्रिरे ॥prá ǀ nūnám ǀ bráhmaṇaḥ ǀ pátiḥ ǀ mántram ǀ vadati ǀ ukthyám ǀ
yásmin ǀ índraḥ ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ devā́ḥ ǀ ókāṃsi ǀ cakriré ǁpra ǀ nūnam ǀ brahmaṇaḥ ǀ patiḥ ǀ mantram ǀ vadati ǀ ukthyam ǀ
yasmin ǀ indraḥ ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ devāḥ ǀ okāṃsi ǀ cakrire ǁ1.40.5 Aṣṭaka 1.3.20.5Anuvāka 1.8.65
-
Ṛk 6
तमिद्वो॑चेमा वि॒दथे॑षु शं॒भुवं॒ मंत्रं॑ देवा अने॒हसं॑ ।
इ॒मां च॒ वाचं॑ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो॑ अश्नवत् ॥तम् इद् वोचेमा विदथेषु शम्भुवम् मन्त्रं देवा अनेहसम् |
इमां च वाचम् प्रतिहर्यथा नरो विश्वेद् वामा वो अश्नवत् ||támídvocemā vidátheṣu śambhúvam mántram devā anehásam ǀ
imā́m ca vā́cam pratiháryathā naro víśvédvāmā́ vo aśnavat ǁtam id vocemā vidatheṣu śambhuvam mantraṃ devā anehasam |
imāṃ ca vācam pratiharyathā naro viśved vāmā vo aśnavat ||तम् । इत् । वो॒चे॒म॒ । वि॒दथे॑षु । श॒म्ऽभुव॑म् । मन्त्र॑म् । दे॒वाः॒ । अ॒ने॒हस॑म् ।
इ॒माम् । च॒ । वाच॑म् । प्र॒ति॒ऽहर्य॑थ । न॒रः॒ । विश्वा॑ । इत् । वा॒मा । वः॒ । अ॒श्न॒व॒त् ॥तम् । इत् । वोचेम । विदथेषु । शम्ऽभुवम् । मन्त्रम् । देवाः । अनेहसम् ।
इमाम् । च । वाचम् । प्रतिऽहर्यथ । नरः । विश्वा । इत् । वामा । वः । अश्नवत् ॥tám ǀ ít ǀ vocema ǀ vidátheṣu ǀ śam-bhúvam ǀ mántram ǀ devāḥ ǀ anehásam ǀ
imā́m ǀ ca ǀ vā́cam ǀ prati-háryatha ǀ naraḥ ǀ víśvā ǀ ít ǀ vāmā́ ǀ vaḥ ǀ aśnavat ǁtam ǀ it ǀ vocema ǀ vidatheṣu ǀ śam-bhuvam ǀ mantram ǀ devāḥ ǀ anehasam ǀ
imām ǀ ca ǀ vācam ǀ prati-haryatha ǀ naraḥ ǀ viśvā ǀ it ǀ vāmā ǀ vaḥ ǀ aśnavat ǁ1.40.6 Aṣṭaka 1.3.21.1Anuvāka 1.8.66
-
Ṛk 7
को दे॑व॒यंत॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषं ।
प्रप्र॑ दा॒श्वान्प॒स्त्या॑भिरस्थितांत॒र्वाव॒त्क्षयं॑ दधे ॥को देवयन्तम् अश्नवज् जनं को वृक्तबर्हिषम् |
प्र-प्र दाश्वान् पस्त्याभिर् अस्थितान्तर्वावत् क्षयं दधे ||kó devayántamaśnavajjánam kó vṛktábarhiṣam ǀ
prápra dāśvā́npastyā́bhirasthitāntarvā́vatkṣáyam dadhe ǁko devayantam aśnavaj janaṃ ko vṛktabarhiṣam |
pra-pra dāśvān pastyābhir asthitāntarvāvat kṣayaṃ dadhe ||कः । दे॒व॒ऽयन्त॑म् । अ॒श्न॒व॒त् । जन॑म् । कः । वृ॒क्तऽब॑र्हिषम् ।
प्रऽप्र॑ । दा॒श्वान् । प॒स्त्या॑भिः । अ॒स्थि॒त॒ । अ॒न्तः॒ऽवाव॑त् । क्षय॑म् । द॒धे॒ ॥कः । देवऽयन्तम् । अश्नवत् । जनम् । कः । वृक्तऽबर्हिषम् ।
प्रऽप्र । दाश्वान् । पस्त्याभिः । अस्थित । अन्तःऽवावत् । क्षयम् । दधे ॥káḥ ǀ deva-yántam ǀ aśnavat ǀ jánam ǀ káḥ ǀ vṛktá-barhiṣam ǀ
prá-pra ǀ dāśvā́n ǀ pastyā́bhiḥ ǀ asthita ǀ antaḥ-vā́vat ǀ kṣáyam ǀ dadhe ǁkaḥ ǀ deva-yantam ǀ aśnavat ǀ janam ǀ kaḥ ǀ vṛkta-barhiṣam ǀ
pra-pra ǀ dāśvān ǀ pastyābhiḥ ǀ asthita ǀ antaḥ-vāvat ǀ kṣayam ǀ dadhe ǁ1.40.7 Aṣṭaka 1.3.21.2Anuvāka 1.8.67
-
Ṛk 8
उप॑ क्ष॒त्रं पृं॑ची॒त हंति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे ।
नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे॑ अस्ति व॒ज्रिणः॑ ॥उप क्षत्रम् पृञ्चीत हन्ति राजभिर् भये चित् सुक्षितिं दधे |
नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ||úpa kṣatrám pṛñcītá hánti rā́jabhirbhayé citsukṣitím dadhe ǀ
nā́sya vartā́ ná tarutā́ mahādhané nā́rbhe asti vajríṇaḥ ǁupa kṣatram pṛñcīta hanti rājabhir bhaye cit sukṣitiṃ dadhe |
nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ ||उप॑ । क्ष॒त्रम् । पृ॒ञ्ची॒त । हन्ति॑ । राज॑ऽभिः । भ॒ये । चि॒त् । सु॒ऽक्षि॒तिम् । द॒धे॒ ।
न । अ॒स्य॒ । व॒र्ता । न । त॒रु॒ता । म॒हा॒ऽध॒ने । न । अर्भे॑ । अ॒स्ति॒ । व॒ज्रिणः॑ ॥उप । क्षत्रम् । पृञ्चीत । हन्ति । राजऽभिः । भये । चित् । सुऽक्षितिम् । दधे ।
न । अस्य । वर्ता । न । तरुता । महाऽधने । न । अर्भे । अस्ति । वज्रिणः ॥úpa ǀ kṣatrám ǀ pṛñcītá ǀ hánti ǀ rā́ja-bhiḥ ǀ bhayé ǀ cit ǀ su-kṣitím ǀ dadhe ǀ
ná ǀ asya ǀ vartā́ ǀ ná ǀ tarutā́ ǀ mahā-dhané ǀ ná ǀ árbhe ǀ asti ǀ vajríṇaḥ ǁupa ǀ kṣatram ǀ pṛñcīta ǀ hanti ǀ rāja-bhiḥ ǀ bhaye ǀ cit ǀ su-kṣitim ǀ dadhe ǀ
na ǀ asya ǀ vartā ǀ na ǀ tarutā ǀ mahā-dhane ǀ na ǀ arbhe ǀ asti ǀ vajriṇaḥ ǁ1.40.8 Aṣṭaka 1.3.21.3Anuvāka 1.8.68
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.