Sūkta 6
- Devatā देवता
- 1-3, 10: Indra; 4, 6, 8, 9: Maruts; 5, 7: Indra, Maruts
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3, 5-7, 9, 10); nicṛdgāyatrī (4, 8); virāḍgāyatrī (2)
2nd set of styles gāyatrī
-
Ṛk 1
युं॒जंति॑ ब्र॒ध्नम॑रु॒षं चरं॑तं॒ परि॑ त॒स्थुषः॑ ।
रोचं॑ते रोच॒ना दि॒वि ॥युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः |
रोचन्ते रोचना दिवि ||yuñjánti bradhnámaruṣám cárantam pári tasthúṣaḥ ǀ
rócante rocanā́ diví ǁyuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ |
rocante rocanā divi ||यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ ।
रोच॑न्ते । रो॒च॒ना । दि॒वि ॥युञ्जन्ति । ब्रध्नम् । अरुषम् । चरन्तम् । परि । तस्थुषः ।
रोचन्ते । रोचना । दिवि ॥yuñjánti ǀ bradhnám ǀ aruṣám ǀ cárantam ǀ pári ǀ tasthúṣaḥ ǀ
rócante ǀ rocanā́ ǀ diví ǁyuñjanti ǀ bradhnam ǀ aruṣam ǀ carantam ǀ pari ǀ tasthuṣaḥ ǀ
rocante ǀ rocanā ǀ divi ǁ1.6.1 Aṣṭaka 1.1.11.1Anuvāka 1.2.21
-
Ṛk 2
युं॒जंत्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे |
शोणा धृष्णू नृवाहसा ||yuñjántyasya kā́myā hárī vípakṣasā ráthe ǀ
śóṇā dhṛṣṇū́ nṛvā́hasā ǁyuñjanty asya kāmyā harī vipakṣasā rathe |
śoṇā dhṛṣṇū nṛvāhasā ||यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विऽप॑क्षसा । रथे॑ ।
शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥युञ्जन्ति । अस्य । काम्या । हरी इति । विऽपक्षसा । रथे ।
शोणा । धृष्णू इति । नृऽवाहसा ॥yuñjánti ǀ asya ǀ kā́myā ǀ hárī íti ǀ ví-pakṣasā ǀ ráthe ǀ
śóṇā ǀ dhṛṣṇū́ íti ǀ nṛ-vā́hasā ǁyuñjanti ǀ asya ǀ kāmyā ǀ harī iti ǀ vi-pakṣasā ǀ rathe ǀ
śoṇā ǀ dhṛṣṇū iti ǀ nṛ-vāhasā ǁ1.6.2 Aṣṭaka 1.1.11.2Anuvāka 1.2.22
-
Ṛk 3
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे |
सम् उषद्भिर् अजायथाः ||ketúm kṛṇvánnaketáve péśo maryā apeśáse ǀ
sámuṣádbhirajāyathāḥ ǁketuṃ kṛṇvann aketave peśo maryā apeśase |
sam uṣadbhir ajāyathāḥ ||के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ ।
सम् । उ॒षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥केतुम् । कृण्वन् । अकेतवे । पेशः । मर्याः । अपेशसे ।
सम् । उषत्ऽभिः । अजायथाः ॥ketúm ǀ kṛṇván ǀ aketáve ǀ péśaḥ ǀ maryāḥ ǀ apeśáse ǀ
sám ǀ uṣát-bhiḥ ǀ ajāyathāḥ ǁketum ǀ kṛṇvan ǀ aketave ǀ peśaḥ ǀ maryāḥ ǀ apeśase ǀ
sam ǀ uṣat-bhiḥ ǀ ajāyathāḥ ǁ1.6.3 Aṣṭaka 1.1.11.3Anuvāka 1.2.23
-
Ṛk 4
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधा॑ना॒ नाम॑ य॒ज्ञियं॑ ॥आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिरे |
दधाना नाम यज्ञियम् ||ā́dáha svadhā́mánu púnargarbhatvámeriré ǀ
dádhānā nā́ma yajñíyam ǁād aha svadhām anu punar garbhatvam erire |
dadhānā nāma yajñiyam ||आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ।
दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥आत् । अह । स्वधाम् । अनु । पुनः । गर्भऽत्वम् । आऽईरिरे ।
दधानाः । नाम । यज्ञियम् ॥ā́t ǀ áha ǀ svadhā́m ǀ ánu ǀ púnaḥ ǀ garbha-tvám ǀ ā-īriré ǀ
dádhānāḥ ǀ nā́ma ǀ yajñíyam ǁāt ǀ aha ǀ svadhām ǀ anu ǀ punaḥ ǀ garbha-tvam ǀ ā-īrire ǀ
dadhānāḥ ǀ nāma ǀ yajñiyam ǁ1.6.4 Aṣṭaka 1.1.11.4Anuvāka 1.2.24
-
Ṛk 5
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिंद्र॒ वह्नि॑भिः ।
अविं॑द उ॒स्रिया॒ अनु॑ ॥वीऌउ चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः |
अविन्द उस्रिया अनु ||vīḷú cidārujatnúbhirgúhā cidindra váhnibhiḥ ǀ
ávinda usríyā ánu ǁvīḷu cid ārujatnubhir guhā cid indra vahnibhiḥ |
avinda usriyā anu ||वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः ।
अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥वीळु । चित् । आरुजत्नुऽभिः । गुहा । चित् । इन्द्र । वह्निऽभिः ।
अविन्दः । उस्रियाः । अनु ॥vīḷú ǀ cit ǀ ārujatnú-bhiḥ ǀ gúhā ǀ cit ǀ indra ǀ váhni-bhiḥ ǀ
ávindaḥ ǀ usríyāḥ ǀ ánu ǁvīḷu ǀ cit ǀ ārujatnu-bhiḥ ǀ guhā ǀ cit ǀ indra ǀ vahni-bhiḥ ǀ
avindaḥ ǀ usriyāḥ ǀ anu ǁ1.6.5 Aṣṭaka 1.1.11.5Anuvāka 1.2.25
-
Ṛk 6
दे॒व॒यंतो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
म॒हाम॑नूषत श्रु॒तं ॥देवयन्तो यथा मतिम् अच्छा विदद्वसुं गिरः |
महाम् अनूषत श्रुतम् ||devayánto yáthā matímácchā vidádvasum gíraḥ ǀ
mahā́manūṣata śrutám ǁdevayanto yathā matim acchā vidadvasuṃ giraḥ |
mahām anūṣata śrutam ||दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ ।
म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥देवऽयन्तः । यथा । मतिम् । अच्छ । विदत्ऽवसुम् । गिरः ।
महाम् । अनूषत । श्रुतम् ॥deva-yántaḥ ǀ yáthā ǀ matím ǀ áccha ǀ vidát-vasum ǀ gíraḥ ǀ
mahā́m ǀ anūṣata ǀ śrutám ǁdeva-yantaḥ ǀ yathā ǀ matim ǀ accha ǀ vidat-vasum ǀ giraḥ ǀ
mahām ǀ anūṣata ǀ śrutam ǁ1.6.6 Aṣṭaka 1.1.12.1Anuvāka 1.2.26
-
Ṛk 7
इंद्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
मं॒दू स॑मा॒नव॑र्चसा ॥इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा |
मन्दू समानवर्चसा ||índreṇa sám hí dṛ́kṣase saṃjagmānó ábibhyuṣā ǀ
mandū́ samānávarcasā ǁindreṇa saṃ hi dṛkṣase saṃjagmāno abibhyuṣā |
mandū samānavarcasā ||इन्द्रे॑ण । सम् । हि । दृक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा ।
म॒न्दू इति॑ । स॒मा॒नऽव॑र्चसा ॥इन्द्रेण । सम् । हि । दृक्षसे । सम्ऽजग्मानः । अबिभ्युषा ।
मन्दू इति । समानऽवर्चसा ॥índreṇa ǀ sám ǀ hí ǀ dṛ́kṣase ǀ sam-jagmānáḥ ǀ ábibhyuṣā ǀ
mandū́ íti ǀ samāná-varcasā ǁindreṇa ǀ sam ǀ hi ǀ dṛkṣase ǀ sam-jagmānaḥ ǀ abibhyuṣā ǀ
mandū iti ǀ samāna-varcasā ǁ1.6.7 Aṣṭaka 1.1.12.2Anuvāka 1.2.27
-
Ṛk 8
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णैरिंद्र॑स्य॒ काम्यैः॑ ॥अनवद्यैर् अभिद्युभिर् मखः सहस्वद् अर्चति |
गणैर् इन्द्रस्य काम्यैः ||anavadyáirabhídyubhirmakháḥ sáhasvadarcati ǀ
gaṇáiríndrasya kā́myaiḥ ǁanavadyair abhidyubhir makhaḥ sahasvad arcati |
gaṇair indrasya kāmyaiḥ ||अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ ।
ग॒णैः । इन्द्र॑स्य । काम्यैः॑ ॥अनवद्यैः । अभिद्युऽभिः । मखः । सहस्वत् । अर्चति ।
गणैः । इन्द्रस्य । काम्यैः ॥anavadyáiḥ ǀ abhídyu-bhiḥ ǀ makháḥ ǀ sáhasvat ǀ arcati ǀ
gaṇáiḥ ǀ índrasya ǀ kā́myaiḥ ǁanavadyaiḥ ǀ abhidyu-bhiḥ ǀ makhaḥ ǀ sahasvat ǀ arcati ǀ
gaṇaiḥ ǀ indrasya ǀ kāmyaiḥ ǁ1.6.8 Aṣṭaka 1.1.12.3Anuvāka 1.2.28
-
Ṛk 9
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
सम॑स्मिन्नृंजते॒ गिरः॑ ॥अतः परिज्मन्न् आ गहि दिवो वा रोचनाद् अधि |
सम् अस्मिन्न् ऋञ्जते गिरः ||átaḥ parijmannā́ gahi divó vā rocanā́dádhi ǀ
sámasminnṛñjate gíraḥ ǁataḥ parijmann ā gahi divo vā rocanād adhi |
sam asminn ṛñjate giraḥ ||अतः॑ । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ ।
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥अतः । परिऽज्मन् । आ । गहि । दिवः । वा । रोचनात् । अधि ।
सम् । अस्मिन् । ऋञ्जते । गिरः ॥átaḥ ǀ pari-jman ǀ ā́ ǀ gahi ǀ diváḥ ǀ vā ǀ rocanā́t ǀ ádhi ǀ
sám ǀ asmin ǀ ṛñjate ǀ gíraḥ ǁataḥ ǀ pari-jman ǀ ā ǀ gahi ǀ divaḥ ǀ vā ǀ rocanāt ǀ adhi ǀ
sam ǀ asmin ǀ ṛñjate ǀ giraḥ ǁ1.6.9 Aṣṭaka 1.1.12.4Anuvāka 1.2.29
-
Ṛk 10
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
इंद्रं॑ म॒हो वा॒ रज॑सः ॥इतो वा सातिम् ईमहे दिवो वा पार्थिवाद् अधि |
इन्द्रम् महो वा रजसः ||itó vā sātímī́mahe divó vā pā́rthivādádhi ǀ
índram mahó vā rájasaḥ ǁito vā sātim īmahe divo vā pārthivād adhi |
indram maho vā rajasaḥ ||इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒व । वा॒ । पार्थि॑वात् । अधि॑ ।
इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥इतः । वा । सातिम् । ईमहे । दिव । वा । पार्थिवात् । अधि ।
इन्द्रम् । महः । वा । रजसः ॥itáḥ ǀ vā ǀ sātím ǀ ī́mahe ǀ divá ǀ vā ǀ pā́rthivāt ǀ ádhi ǀ
índram ǀ maháḥ ǀ vā ǀ rájasaḥ ǁitaḥ ǀ vā ǀ sātim ǀ īmahe ǀ diva ǀ vā ǀ pārthivāt ǀ adhi ǀ
indram ǀ mahaḥ ǀ vā ǀ rajasaḥ ǁ1.6.10 Aṣṭaka 1.1.12.5Anuvāka 1.2.30
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.