Sūkta 50
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles pipīlikāmadhyānicṛdgāyatrī (2, 4, 8, 9); nicṛdgāyatrī (1, 6); nicṛdanuṣṭup (10, 11); anuṣṭup (12, 13); gāyatrī (3); yavamadhyāvirāḍgāyatrī (5); virāḍgāyatrī (7)
2nd set of styles gāyatrī (1-9); anuṣṭubh (10-13)
-
Ṛk 1
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हंति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्यं॑ ॥उद् उ त्यं जातवेदसं देवं वहन्ति केतवः |
दृशे विश्वाय सूर्यम् ||údu tyám jātávedasam devám vahanti ketávaḥ ǀ
dṛśé víśvāya sū́ryam ǁud u tyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |
dṛśe viśvāya sūryam ||उत् । ऊं॒ इति॑ । त्यम् । जा॒तऽवे॑दसम् । दे॒वम् । व॒ह॒न्ति॒ । के॒तवः॑ ।
दृ॒शे । विश्वा॑य । सूर्य॑म् ॥उत् । ऊं इति । त्यम् । जातऽवेदसम् । देवम् । वहन्ति । केतवः ।
दृशे । विश्वाय । सूर्यम् ॥út ǀ ūṃ íti ǀ tyám ǀ jātá-vedasam ǀ devám ǀ vahanti ǀ ketávaḥ ǀ
dṛśé ǀ víśvāya ǀ sū́ryam ǁut ǀ ūṃ iti ǀ tyam ǀ jāta-vedasam ǀ devam ǀ vahanti ǀ ketavaḥ ǀ
dṛśe ǀ viśvāya ǀ sūryam ǁ1.50.1 Aṣṭaka 1.4.7.1Anuvāka 1.9.70
-
Ṛk 2
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यंत्य॒क्तुभिः॑ ।
सूरा॑य वि॒श्वच॑क्षसे ॥अप त्ये तायवो यथा नक्षत्रा यन्त्य् अक्तुभिः |
सूराय विश्वचक्षसे ||ápa tyé tāyávo yathā nákṣatrā yantyaktúbhiḥ ǀ
sū́rāya viśvácakṣase ǁapa tye tāyavo yathā nakṣatrā yanty aktubhiḥ |
sūrāya viśvacakṣase ||अप॑ । त्ये । ता॒यवः॑ । य॒था॒ । नक्ष॑त्रा । य॒न्ति॒ । अ॒क्तुऽभिः॑ ।
सूरा॑य । वि॒श्वऽच॑क्षसे ॥अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तुऽभिः ।
सूराय । विश्वऽचक्षसे ॥ápa ǀ tyé ǀ tāyávaḥ ǀ yathā ǀ nákṣatrā ǀ yanti ǀ aktú-bhiḥ ǀ
sū́rāya ǀ viśvá-cakṣase ǁapa ǀ tye ǀ tāyavaḥ ǀ yathā ǀ nakṣatrā ǀ yanti ǀ aktu-bhiḥ ǀ
sūrāya ǀ viśva-cakṣase ǁ1.50.2 Aṣṭaka 1.4.7.2Anuvāka 1.9.71
-
Ṛk 3
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ ।
भ्राजं॑तो अ॒ग्नयो॑ यथा ॥अदृश्रम् अस्य केतवो वि रश्मयो जनां अनु |
भ्राजन्तो अग्नयो यथा ||ádṛśramasya ketávo ví raśmáyo jánām̐ ánu ǀ
bhrā́janto agnáyo yathā ǁadṛśram asya ketavo vi raśmayo janāṃ anu |
bhrājanto agnayo yathā ||अदृ॑श्रम् । अ॒स्य॒ । के॒तवः॑ । वि । र॒श्मयः॑ । जना॑न् । अनु॑ ।
भ्राज॑न्तः । अ॒ग्नयः॑ । य॒था॒ ॥अदृश्रम् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु ।
भ्राजन्तः । अग्नयः । यथा ॥ádṛśram ǀ asya ǀ ketávaḥ ǀ ví ǀ raśmáyaḥ ǀ jánān ǀ ánu ǀ
bhrā́jantaḥ ǀ agnáyaḥ ǀ yathā ǁadṛśram ǀ asya ǀ ketavaḥ ǀ vi ǀ raśmayaḥ ǀ janān ǀ anu ǀ
bhrājantaḥ ǀ agnayaḥ ǀ yathā ǁ1.50.3 Aṣṭaka 1.4.7.3Anuvāka 1.9.72
-
Ṛk 4
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोच॒नं ॥तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य |
विश्वम् आ भासि रोचनम् ||taráṇirviśvádarśato jyotiṣkṛ́dasi sūrya ǀ
víśvamā́ bhāsi rocanám ǁtaraṇir viśvadarśato jyotiṣkṛd asi sūrya |
viśvam ā bhāsi rocanam ||त॒रणिः॑ । वि॒श्वऽद॑र्शतः । ज्यो॒तिः॒ऽकृत् । अ॒सि॒ । सू॒र्य॒ ।
विश्व॑म् । आ । भा॒सि॒ । रो॒च॒नम् ॥तरणिः । विश्वऽदर्शतः । ज्योतिःऽकृत् । असि । सूर्य ।
विश्वम् । आ । भासि । रोचनम् ॥taráṇiḥ ǀ viśvá-darśataḥ ǀ jyotiḥ-kṛ́t ǀ asi ǀ sūrya ǀ
víśvam ǀ ā́ ǀ bhāsi ǀ rocanám ǁtaraṇiḥ ǀ viśva-darśataḥ ǀ jyotiḥ-kṛt ǀ asi ǀ sūrya ǀ
viśvam ǀ ā ǀ bhāsi ǀ rocanam ǁ1.50.4 Aṣṭaka 1.4.7.4Anuvāka 1.9.73
-
Ṛk 5
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षान् ।
प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ॥प्रत्यङ् देवानां विशः प्रत्यङ्ङ् उद् एषि मानुषान् |
प्रत्यङ् विश्वं स्वर् दृशे ||pratyáṅ devā́nām víśaḥ pratyáṅṅúdeṣi mā́nuṣān ǀ
pratyáṅvíśvam svárdṛśé ǁpratyaṅ devānāṃ viśaḥ pratyaṅṅ ud eṣi mānuṣān |
pratyaṅ viśvaṃ svar dṛśe ||प्र॒त्यङ् । दे॒वाना॑म् । विशः॑ । प्र॒त्यङ् । उत् । ए॒षि॒ । मानु॑षान् ।
प्र॒त्यङ् । विश्व॑म् । स्वः॑ । दृ॒शे ॥प्रत्यङ् । देवानाम् । विशः । प्रत्यङ् । उत् । एषि । मानुषान् ।
प्रत्यङ् । विश्वम् । स्वः । दृशे ॥pratyáṅ ǀ devā́nām ǀ víśaḥ ǀ pratyáṅ ǀ út ǀ eṣi ǀ mā́nuṣān ǀ
pratyáṅ ǀ víśvam ǀ sváḥ ǀ dṛśé ǁpratyaṅ ǀ devānām ǀ viśaḥ ǀ pratyaṅ ǀ ut ǀ eṣi ǀ mānuṣān ǀ
pratyaṅ ǀ viśvam ǀ svaḥ ǀ dṛśe ǁ1.50.5 Aṣṭaka 1.4.7.5Anuvāka 1.9.74
-
Ṛk 6
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यंतं॒ जनाँ॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि ॥येना पावक चक्षसा भुरण्यन्तं जनां अनु |
त्वं वरुण पश्यसि ||yénā pāvaka cákṣasā bhuraṇyántam jánām̐ ánu ǀ
tvám varuṇa páśyasi ǁyenā pāvaka cakṣasā bhuraṇyantaṃ janāṃ anu |
tvaṃ varuṇa paśyasi ||येन॑ । पा॒व॒क॒ । चक्ष॑सा । भु॒र॒ण्यन्त॑म् । जना॑न् । अनु॑ ।
त्वम् । व॒रु॒ण॒ । पश्य॑सि ॥येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् । अनु ।
त्वम् । वरुण । पश्यसि ॥yéna ǀ pāvaka ǀ cákṣasā ǀ bhuraṇyántam ǀ jánān ǀ ánu ǀ
tvám ǀ varuṇa ǀ páśyasi ǁyena ǀ pāvaka ǀ cakṣasā ǀ bhuraṇyantam ǀ janān ǀ anu ǀ
tvam ǀ varuṇa ǀ paśyasi ǁ1.50.6 Aṣṭaka 1.4.8.1Anuvāka 1.9.75
-
Ṛk 7
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वहा॒ मिमा॑नो अ॒क्तुभिः॑ ।
पश्यं॒जन्मा॑नि सूर्य ॥वि द्याम् एषि रजस् पृथ्व् अहा मिमानो अक्तुभिः |
पश्यञ् जन्मानि सूर्य ||ví dyā́meṣi rájaspṛthváhā mímāno aktúbhiḥ ǀ
páśyañjánmāni sūrya ǁvi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ |
paśyañ janmāni sūrya ||वि । द्याम् । ए॒षि॒ । रजः॑ । पृ॒थु । अहा॑ । मिमा॑नः । अ॒क्तुऽभिः॑ ।
पश्य॑न् । जन्मा॑नि । सू॒र्य॒ ॥वि । द्याम् । एषि । रजः । पृथु । अहा । मिमानः । अक्तुऽभिः ।
पश्यन् । जन्मानि । सूर्य ॥ví ǀ dyā́m ǀ eṣi ǀ rájaḥ ǀ pṛthú ǀ áhā ǀ mímānaḥ ǀ aktú-bhiḥ ǀ
páśyan ǀ jánmāni ǀ sūrya ǁvi ǀ dyām ǀ eṣi ǀ rajaḥ ǀ pṛthu ǀ ahā ǀ mimānaḥ ǀ aktu-bhiḥ ǀ
paśyan ǀ janmāni ǀ sūrya ǁ1.50.7 Aṣṭaka 1.4.8.2Anuvāka 1.9.76
-
Ṛk 8
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वहं॑ति देव सूर्य ।
शो॒चिष्के॑शं विचक्षण ॥सप्त त्वा हरितो रथे वहन्ति देव सूर्य |
शोचिष्केशं विचक्षण ||saptá tvā haríto ráthe váhanti deva sūrya ǀ
śocíṣkeśam vicakṣaṇa ǁsapta tvā harito rathe vahanti deva sūrya |
śociṣkeśaṃ vicakṣaṇa ||स॒प्त । त्वा॒ । ह॒रितः॑ । रथे॑ । वह॑न्ति । दे॒व॒ । सू॒र्य॒ ।
शो॒चिःऽके॑शम् । वि॒ऽच॒क्ष॒ण॒ ॥सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य ।
शोचिःऽकेशम् । विऽचक्षण ॥saptá ǀ tvā ǀ harítaḥ ǀ ráthe ǀ váhanti ǀ deva ǀ sūrya ǀ
śocíḥ-keśam ǀ vi-cakṣaṇa ǁsapta ǀ tvā ǀ haritaḥ ǀ rathe ǀ vahanti ǀ deva ǀ sūrya ǀ
śociḥ-keśam ǀ vi-cakṣaṇa ǁ1.50.8 Aṣṭaka 1.4.8.3Anuvāka 1.9.77
-
Ṛk 9
अयु॑क्त स॒प्त शुं॒ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः |
ताभिर् याति स्वयुक्तिभिः ||áyukta saptá śundhyúvaḥ sū́ro ráthasya naptyáḥ ǀ
tā́bhiryāti sváyuktibhiḥ ǁayukta sapta śundhyuvaḥ sūro rathasya naptyaḥ |
tābhir yāti svayuktibhiḥ ||अयु॑क्त । स॒प्त । शु॒न्ध्युवः॑ । सूरः॑ । रथ॑स्य । न॒प्त्यः॑ ।
ताभिः॑ । या॒ति॒ । स्वयु॑क्तिऽभिः ॥अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः ।
ताभिः । याति । स्वयुक्तिऽभिः ॥áyukta ǀ saptá ǀ śundhyúvaḥ ǀ sū́raḥ ǀ ráthasya ǀ naptyáḥ ǀ
tā́bhiḥ ǀ yāti ǀ sváyukti-bhiḥ ǁayukta ǀ sapta ǀ śundhyuvaḥ ǀ sūraḥ ǀ rathasya ǀ naptyaḥ ǀ
tābhiḥ ǀ yāti ǀ svayukti-bhiḥ ǁ1.50.9 Aṣṭaka 1.4.8.4Anuvāka 1.9.78
-
Ṛk 10
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं॑त॒ उत्त॑रं ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं ॥उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् |
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ||údvayám támasaspári jyótiṣpáśyanta úttaram ǀ
devám devatrā́ sū́ryamáganma jyótiruttamám ǁud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
devaṃ devatrā sūryam aganma jyotir uttamam ||उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् ।
दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥उत् । वयम् । तमसः । परि । ज्योतिः । पश्यन्तः । उत्ऽतरम् ।
देवम् । देवऽत्रा । सूर्यम् । अगन्म । ज्योतिः । उत्ऽतमम् ॥út ǀ vayám ǀ támasaḥ ǀ pári ǀ jyótiḥ ǀ páśyantaḥ ǀ út-taram ǀ
devám ǀ deva-trā́ ǀ sū́ryam ǀ áganma ǀ jyótiḥ ǀ ut-tamám ǁut ǀ vayam ǀ tamasaḥ ǀ pari ǀ jyotiḥ ǀ paśyantaḥ ǀ ut-taram ǀ
devam ǀ deva-trā ǀ sūryam ǀ aganma ǀ jyotiḥ ǀ ut-tamam ǁ1.50.10 Aṣṭaka 1.4.8.5Anuvāka 1.9.79
-
Ṛk 11
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवं॑ ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् |
हृद्रोगम् मम सूर्य हरिमाणं च नाशय ||udyánnadyá mitramaha āróhannúttarām dívam ǀ
hṛdrogám máma sūrya harimā́ṇam ca nāśaya ǁudyann adya mitramaha ārohann uttarāṃ divam |
hṛdrogam mama sūrya harimāṇaṃ ca nāśaya ||उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् ।
हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥उत्ऽयन् । अद्य । मित्रऽमहः । आऽरोहन् । उत्ऽतराम् । दिवम् ।
हृत्ऽरोगम् । मम । सूर्य । हरिमाणम् । च । नाशय ॥ut-yán ǀ adyá ǀ mitra-mahaḥ ǀ ā-róhan ǀ út-tarām ǀ dívam ǀ
hṛt-rogám ǀ máma ǀ sūrya ǀ harimā́ṇam ǀ ca ǀ nāśaya ǁut-yan ǀ adya ǀ mitra-mahaḥ ǀ ā-rohan ǀ ut-tarām ǀ divam ǀ
hṛt-rogam ǀ mama ǀ sūrya ǀ harimāṇam ǀ ca ǀ nāśaya ǁ1.50.11 Aṣṭaka 1.4.8.6Anuvāka 1.9.80
-
Ṛk 12
शुके॑षु मे हरि॒माणं॑ रोप॒णाका॑सु दध्मसि ।
अथो॑ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ॥शुकेषु मे हरिमाणं रोपणाकासु दध्मसि |
अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ||śúkeṣu me harimā́ṇam ropaṇā́kāsu dadhmasi ǀ
átho hāridravéṣu me harimā́ṇam ní dadhmasi ǁśukeṣu me harimāṇaṃ ropaṇākāsu dadhmasi |
atho hāridraveṣu me harimāṇaṃ ni dadhmasi ||शुके॑षु । मे॒ । ह॒रि॒माण॑म् । रो॒प॒णाका॑सु । द॒ध्म॒सि॒ ।
अथो॒ इति॑ । हा॒रि॒द्र॒वेषु॑ । मे॒ । ह॒रि॒माण॑म् । नि । द॒ध्म॒सि॒ ॥शुकेषु । मे । हरिमाणम् । रोपणाकासु । दध्मसि ।
अथो इति । हारिद्रवेषु । मे । हरिमाणम् । नि । दध्मसि ॥śúkeṣu ǀ me ǀ harimā́ṇam ǀ ropaṇā́kāsu ǀ dadhmasi ǀ
átho íti ǀ hāridravéṣu ǀ me ǀ harimā́ṇam ǀ ní ǀ dadhmasi ǁśukeṣu ǀ me ǀ harimāṇam ǀ ropaṇākāsu ǀ dadhmasi ǀ
atho iti ǀ hāridraveṣu ǀ me ǀ harimāṇam ǀ ni ǀ dadhmasi ǁ1.50.12 Aṣṭaka 1.4.8.7Anuvāka 1.9.81
-
Ṛk 13
उद॑गाद॒यमा॑दि॒त्यो विश्वे॑न॒ सह॑सा स॒ह ।
द्वि॒षंतं॒ मह्यं॑ रं॒धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धं ॥उद् अगाद् अयम् आदित्यो विश्वेन सहसा सह |
द्विषन्तम् मह्यं रन्धयन् मो अहं द्विषते रधम् ||údagādayámādityó víśvena sáhasā sahá ǀ
dviṣántam máhyam randháyanmó ahám dviṣaté radham ǁud agād ayam ādityo viśvena sahasā saha |
dviṣantam mahyaṃ randhayan mo ahaṃ dviṣate radham ||उत् । अ॒गा॒त् । अ॒यम् । आ॒दि॒त्यः । विश्वे॑न । सह॑सा । स॒ह ।
द्वि॒षन्त॑म् । मह्य॑म् । र॒न्धय॑न् । मो इति॑ । अ॒हम् । द्वि॒ष॒ते । र॒ध॒म् ॥उत् । अगात् । अयम् । आदित्यः । विश्वेन । सहसा । सह ।
द्विषन्तम् । मह्यम् । रन्धयन् । मो इति । अहम् । द्विषते । रधम् ॥út ǀ agāt ǀ ayám ǀ ādityáḥ ǀ víśvena ǀ sáhasā ǀ sahá ǀ
dviṣántam ǀ máhyam ǀ randháyan ǀ mó íti ǀ ahám ǀ dviṣaté ǀ radham ǁut ǀ agāt ǀ ayam ǀ ādityaḥ ǀ viśvena ǀ sahasā ǀ saha ǀ
dviṣantam ǀ mahyam ǀ randhayan ǀ mo iti ǀ aham ǀ dviṣate ǀ radham ǁ1.50.13 Aṣṭaka 1.4.8.8Anuvāka 1.9.82
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.