Ṛk 1.50.11
Saṃhitā
उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिवं॑ ।
हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं॑ च नाशय ॥
उद्यन्न् अद्य मित्रमह आरोहन्न् उत्तरां दिवम् |
हृद्रोगम् मम सूर्य हरिमाणं च नाशय ||
udyánnadyá mitramaha āróhannúttarām dívam ǀ
hṛdrogám máma sūrya harimā́ṇam ca nāśaya ǁ
udyann adya mitramaha ārohann uttarāṃ divam |
hṛdrogam mama sūrya harimāṇaṃ ca nāśaya ||
Padapāṭha
उ॒त्ऽयन् । अ॒द्य । मि॒त्र॒ऽम॒हः॒ । आ॒ऽरोह॑न् । उत्ऽत॑राम् । दिव॑म् ।
हृ॒त्ऽरो॒गम् । मम॑ । सू॒र्य॒ । ह॒रि॒माण॑म् । च॒ । ना॒श॒य॒ ॥
उत्ऽयन् । अद्य । मित्रऽमहः । आऽरोहन् । उत्ऽतराम् । दिवम् ।
हृत्ऽरोगम् । मम । सूर्य । हरिमाणम् । च । नाशय ॥
ut-yán ǀ adyá ǀ mitra-mahaḥ ǀ ā-róhan ǀ út-tarām ǀ dívam ǀ
hṛt-rogám ǀ máma ǀ sūrya ǀ harimā́ṇam ǀ ca ǀ nāśaya ǁ
ut-yan ǀ adya ǀ mitra-mahaḥ ǀ ā-rohan ǀ ut-tarām ǀ divam ǀ
hṛt-rogam ǀ mama ǀ sūrya ǀ harimāṇam ǀ ca ǀ nāśaya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.050.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.08.06
- Maṇḍala · Anuvāka · Ṛk
- 01.09.080
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.