Ṛk 1.50.10
Saṃhitā
उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्यं॑त॒ उत्त॑रं ।
दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मं ॥
उद् वयं तमसस् परि ज्योतिष् पश्यन्त उत्तरम् |
देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ||
údvayám támasaspári jyótiṣpáśyanta úttaram ǀ
devám devatrā́ sū́ryamáganma jyótiruttamám ǁ
ud vayaṃ tamasas pari jyotiṣ paśyanta uttaram |
devaṃ devatrā sūryam aganma jyotir uttamam ||
Padapāṭha
उत् । व॒यम् । तम॑सः । परि॑ । ज्योतिः॑ । पश्य॑न्तः । उत्ऽत॑रम् ।
दे॒वम् । दे॒व॒ऽत्रा । सूर्य॑म् । अग॑न्म । ज्योतिः॑ । उ॒त्ऽत॒मम् ॥
उत् । वयम् । तमसः । परि । ज्योतिः । पश्यन्तः । उत्ऽतरम् ।
देवम् । देवऽत्रा । सूर्यम् । अगन्म । ज्योतिः । उत्ऽतमम् ॥
út ǀ vayám ǀ támasaḥ ǀ pári ǀ jyótiḥ ǀ páśyantaḥ ǀ út-taram ǀ
devám ǀ deva-trā́ ǀ sū́ryam ǀ áganma ǀ jyótiḥ ǀ ut-tamám ǁ
ut ǀ vayam ǀ tamasaḥ ǀ pari ǀ jyotiḥ ǀ paśyantaḥ ǀ ut-taram ǀ
devam ǀ deva-trā ǀ sūryam ǀ aganma ǀ jyotiḥ ǀ ut-tamam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.050.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.4.08.05
- Maṇḍala · Anuvāka · Ṛk
- 01.09.079
- Devatā देवता
- Sūrya
- Ṛṣi ऋषि
- Praskaṇva Kāṇva
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.