Sūkta 4
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2, 4-9); virāḍgāyatrī (3); nicṛdgāyatrī (10)
2nd set of styles gāyatrī
-
Ṛk 1
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥सुरूपकृत्नुम् ऊतये सुदुघाम् इव गोदुहे |
जुहूमसि द्यवि-द्यवि ||surūpakṛtnúmūtáye sudúghāmiva godúhe ǀ
juhūmási dyávidyavi ǁsurūpakṛtnum ūtaye sudughām iva goduhe |
juhūmasi dyavi-dyavi ||सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ ।
जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥सुरूपऽकृत्नुम् । ऊतये । सुदुघाम्ऽइव । गोऽदुहे ।
जुहूमसि । द्यविऽद्यवि ॥surūpa-kṛtnúm ǀ ūtáye ǀ sudúghām-iva ǀ go-dúhe ǀ
juhūmási ǀ dyávi-dyavi ǁsurūpa-kṛtnum ǀ ūtaye ǀ sudughām-iva ǀ go-duhe ǀ
juhūmasi ǀ dyavi-dyavi ǁ1.4.1 Aṣṭaka 1.1.7.1Anuvāka 1.2.1
-
Ṛk 2
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद्रे॒वतो॒ मदः॑ ॥उप नः सवना गहि सोमस्य सोमपाः पिब |
गोदा इद् रेवतो मदः ||úpa naḥ sávanā́ gahi sómasya somapāḥ piba ǀ
godā́ ídreváto mádaḥ ǁupa naḥ savanā gahi somasya somapāḥ piba |
godā id revato madaḥ ||उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ ।
गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥उप । नः । सवना । आ । गहि । सोमस्य । सोमऽपाः । पिब ।
गोऽदाः । इत् । रेवतः । मदः ॥úpa ǀ naḥ ǀ sávanā ǀ ā́ ǀ gahi ǀ sómasya ǀ soma-pāḥ ǀ piba ǀ
go-dā́ḥ ǀ ít ǀ revátaḥ ǀ mádaḥ ǁupa ǀ naḥ ǀ savanā ǀ ā ǀ gahi ǀ somasya ǀ soma-pāḥ ǀ piba ǀ
go-dāḥ ǀ it ǀ revataḥ ǀ madaḥ ǁ1.4.2 Aṣṭaka 1.1.7.2Anuvāka 1.2.2
-
Ṛk 3
अथा॑ ते॒ अंत॑मानां वि॒द्याम॑ सुमती॒नां ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥अथा ते अन्तमानां विद्याम सुमतीनाम् |
मा नो अति ख्य आ गहि ||áthā te ántamānām vidyā́ma sumatīnā́m ǀ
mā́ no áti khya ā́ gahi ǁathā te antamānāṃ vidyāma sumatīnām |
mā no ati khya ā gahi ||अथ॑ । ते॒ । अन्त॑मानाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् ।
मा । नः॒ । अति॑ । ख्यः॒ । आ । ग॒हि॒ ॥अथ । ते । अन्तमानाम् । विद्याम । सुऽमतीनाम् ।
मा । नः । अति । ख्यः । आ । गहि ॥átha ǀ te ǀ ántamānām ǀ vidyā́ma ǀ su-matīnā́m ǀ
mā́ ǀ naḥ ǀ áti ǀ khyaḥ ǀ ā́ ǀ gahi ǁatha ǀ te ǀ antamānām ǀ vidyāma ǀ su-matīnām ǀ
mā ǀ naḥ ǀ ati ǀ khyaḥ ǀ ā ǀ gahi ǁ1.4.3 Aṣṭaka 1.1.7.3Anuvāka 1.2.3
-
Ṛk 4
परे॑हि॒ विग्र॒मस्तृ॑त॒मिंद्रं॑ पृच्छा विप॒श्चितं॑ ।
यस्ते॒ सखि॑भ्य॒ आ वरं॑ ॥परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छा विपश्चितम् |
यस् ते सखिभ्य आ वरम् ||párehi vígramástṛtamíndram pṛcchā vipaścítam ǀ
yáste sákhibhya ā́ váram ǁparehi vigram astṛtam indram pṛcchā vipaścitam |
yas te sakhibhya ā varam ||परा॑ । इ॒हि॒ । विग्र॑म् । अस्तृ॑तम् । इन्द्र॑म् । पृ॒च्छ॒ । वि॒पः॒ऽचित॑म् ।
यः । ते॒ । सखि॑ऽभ्यः । आ । वर॑म् ॥परा । इहि । विग्रम् । अस्तृतम् । इन्द्रम् । पृच्छ । विपःऽचितम् ।
यः । ते । सखिऽभ्यः । आ । वरम् ॥párā ǀ ihi ǀ vígram ǀ ástṛtam ǀ índram ǀ pṛccha ǀ vipaḥ-cítam ǀ
yáḥ ǀ te ǀ sákhi-bhyaḥ ǀ ā́ ǀ váram ǁparā ǀ ihi ǀ vigram ǀ astṛtam ǀ indram ǀ pṛccha ǀ vipaḥ-citam ǀ
yaḥ ǀ te ǀ sakhi-bhyaḥ ǀ ā ǀ varam ǁ1.4.4 Aṣṭaka 1.1.7.4Anuvāka 1.2.4
-
Ṛk 5
उ॒त ब्रु॑वंतु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
दधा॑ना॒ इंद्र॒ इद्दुवः॑ ॥उत ब्रुवन्तु नो निदो निर् अन्यतश् चिद् आरत |
दधाना इन्द्र इद् दुवः ||utá bruvantu no nído níranyátaścidārata ǀ
dádhānā índra íddúvaḥ ǁuta bruvantu no nido nir anyataś cid ārata |
dadhānā indra id duvaḥ ||उ॒त । ब्रु॒व॒न्तु॒ । नः॒ । निदः॑ । निः । अ॒न्यतः॑ । चि॒त् । आ॒र॒त॒ ।
दधा॑नाः । इन्द्रे॑ । इत् । दुवः॑ ॥उत । ब्रुवन्तु । नः । निदः । निः । अन्यतः । चित् । आरत ।
दधानाः । इन्द्रे । इत् । दुवः ॥utá ǀ bruvantu ǀ naḥ ǀ nídaḥ ǀ níḥ ǀ anyátaḥ ǀ cit ǀ ārata ǀ
dádhānāḥ ǀ índre ǀ ít ǀ dúvaḥ ǁuta ǀ bruvantu ǀ naḥ ǀ nidaḥ ǀ niḥ ǀ anyataḥ ǀ cit ǀ ārata ǀ
dadhānāḥ ǀ indre ǀ it ǀ duvaḥ ǁ1.4.5 Aṣṭaka 1.1.7.5Anuvāka 1.2.5
-
Ṛk 6
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
स्यामेदिंद्र॑स्य॒ शर्म॑णि ॥उत नः सुभगां अरिर् वोचेयुर् दस्म कृष्टयः |
स्यामेद् इन्द्रस्य शर्मणि ||utá naḥ subhágām̐ arírvocéyurdasma kṛṣṭáyaḥ ǀ
syā́médíndrasya śármaṇi ǁuta naḥ subhagāṃ arir voceyur dasma kṛṣṭayaḥ |
syāmed indrasya śarmaṇi ||उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ ।
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥उत । नः । सुभगान् । अरिः । वोचेयुः । दस्म । कृष्टयः ।
स्याम । इत् । इन्द्रस्य । शर्मणि ॥utá ǀ naḥ ǀ subhágān ǀ aríḥ ǀ vocéyuḥ ǀ dasma ǀ kṛṣṭáyaḥ ǀ
syā́ma ǀ ít ǀ índrasya ǀ śármaṇi ǁuta ǀ naḥ ǀ subhagān ǀ ariḥ ǀ voceyuḥ ǀ dasma ǀ kṛṣṭayaḥ ǀ
syāma ǀ it ǀ indrasya ǀ śarmaṇi ǁ1.4.6 Aṣṭaka 1.1.8.1Anuvāka 1.2.6
-
Ṛk 7
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नं ।
प॒त॒यन्मं॑द॒यत्स॑खं ॥एम् आशुम् आशवे भर यज्ञश्रियं नृमादनम् |
पतयन् मन्दयत्सखम् ||émāśúmāśáve bhara yajñaśríyam nṛmā́danam ǀ
patayánmandayátsakham ǁem āśum āśave bhara yajñaśriyaṃ nṛmādanam |
patayan mandayatsakham ||आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाद॑नम् ।
प॒त॒यत् । म॒न्द॒यत्ऽस॑खम् ॥आ । ईम् । आशुम् । आशवे । भर । यज्ञऽश्रियम् । नृऽमादनम् ।
पतयत् । मन्दयत्ऽसखम् ॥ā́ ǀ īm ǀ āśúm ǀ āśáve ǀ bhara ǀ yajña-śríyam ǀ nṛ-mā́danam ǀ
patayát ǀ mandayát-sakham ǁā ǀ īm ǀ āśum ǀ āśave ǀ bhara ǀ yajña-śriyam ǀ nṛ-mādanam ǀ
patayat ǀ mandayat-sakham ǁ1.4.7 Aṣṭaka 1.1.8.2Anuvāka 1.2.7
-
Ṛk 8
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
प्रावो॒ वाजे॑षु वा॒जिनं॑ ॥अस्य पीत्वा शतक्रतो घनो वृत्राणाम् अभवः |
प्रावो वाजेषु वाजिनम् ||asyá pītvā́ śatakrato ghanó vṛtrā́ṇāmabhavaḥ ǀ
prā́vo vā́jeṣu vājínam ǁasya pītvā śatakrato ghano vṛtrāṇām abhavaḥ |
prāvo vājeṣu vājinam ||अ॒स्य । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒नः । वृ॒त्राणा॑म् । अ॒भ॒वः॒ ।
प्र । आ॒वः॒ । वाजे॑षु । वा॒जिन॑म् ॥अस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घनः । वृत्राणाम् । अभवः ।
प्र । आवः । वाजेषु । वाजिनम् ॥asyá ǀ pītvā́ ǀ śatakrato íti śata-krato ǀ ghanáḥ ǀ vṛtrā́ṇām ǀ abhavaḥ ǀ
prá ǀ āvaḥ ǀ vā́jeṣu ǀ vājínam ǁasya ǀ pītvā ǀ śatakrato iti śata-krato ǀ ghanaḥ ǀ vṛtrāṇām ǀ abhavaḥ ǀ
pra ǀ āvaḥ ǀ vājeṣu ǀ vājinam ǁ1.4.8 Aṣṭaka 1.1.8.3Anuvāka 1.2.8
-
Ṛk 9
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
धना॑नामिंद्र सा॒तये॑ ॥तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो |
धनानाम् इन्द्र सातये ||tám tvā vā́jeṣu vājínam vājáyāmaḥ śatakrato ǀ
dhánānāmindra sātáye ǁtaṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato |
dhanānām indra sātaye ||तम् । त्वा॒ । वाजे॑षु । वा॒जिन॑म् । वा॒जया॑मः । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
धना॑नाम् । इ॒न्द्र॒ । सा॒तये॑ ॥तम् । त्वा । वाजेषु । वाजिनम् । वाजयामः । शतक्रतो इति शतऽक्रतो ।
धनानाम् । इन्द्र । सातये ॥tám ǀ tvā ǀ vā́jeṣu ǀ vājínam ǀ vājáyāmaḥ ǀ śatakrato íti śata-krato ǀ
dhánānām ǀ indra ǀ sātáye ǁtam ǀ tvā ǀ vājeṣu ǀ vājinam ǀ vājayāmaḥ ǀ śatakrato iti śata-krato ǀ
dhanānām ǀ indra ǀ sātaye ǁ1.4.9 Aṣṭaka 1.1.8.4Anuvāka 1.2.9
-
Ṛk 10
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तस्मा॒ इंद्रा॑य गायत ॥यो रायो ऽवनिर् महान् सुपारः सुन्वतः सखा |
तस्मा इन्द्राय गायत ||yó rāyó’vánirmahā́ntsupāráḥ sunvatáḥ sákhā ǀ
tásmā índrāya gāyata ǁyo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā |
tasmā indrāya gāyata ||यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।
तस्मै । इन्द्राय । गायत ॥yáḥ ǀ rāyáḥ ǀ avániḥ ǀ mahā́n ǀ su-pāráḥ ǀ sunvatáḥ ǀ sákhā ǀ
tásmai ǀ índrāya ǀ gāyata ǁyaḥ ǀ rāyaḥ ǀ avaniḥ ǀ mahān ǀ su-pāraḥ ǀ sunvataḥ ǀ sakhā ǀ
tasmai ǀ indrāya ǀ gāyata ǁ1.4.10 Aṣṭaka 1.1.8.5Anuvāka 1.2.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.