Ṛgveda · Maṇḍala 1

Sūkta 122

Viśvedevās · Kakṣīvat Dairghatamasa · 15 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Kakṣīvat Dairghatamasa
Chandas छन्दस्
Triṣṭubh, Virāḍrūpā
Metres by ṛk

1st set of styles virāṭtrisṭup (2, 9, 10, 13); bhurikpaṅkti (1, 5, 14); svarāṭpaṅkti (3, 15); triṣṭup (7, 11); nicṛttriṣṭup (8, 12); nicṛtpaṅkti (4); virāṭpaṅkti (6)

2nd set of styles triṣṭubh (1-4, 7-15); virāḍrūpā (5-6)

  1. Ṛk 1

    प्र वः॒ पांतं॑ रघुमन्य॒वोऽंधो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वं ।
    दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥

    प्र वः पान्तं रघुमन्यवो ऽन्धो यज्ञं रुद्राय मीऌहुषे भरध्वम् |
    दिवो अस्तोष्य् असुरस्य वीरैर् इषुध्येव मरुतो रोदस्योः ||

    prá vaḥ pā́ntam raghumanyavó’ndho yajñám rudrā́ya mīḷhúṣe bharadhvam ǀ
    divó astoṣyásurasya vīráiriṣudhyéva marúto ródasyoḥ ǁ

    pra vaḥ pāntaṃ raghumanyavo 'ndho yajñaṃ rudrāya mīḷhuṣe bharadhvam |
    divo astoṣy asurasya vīrair iṣudhyeva maruto rodasyoḥ ||

    प्र । वः॒ । पान्त॑म् । र॒घु॒ऽम॒न्य॒वः॒ । अन्धः॑ । य॒ज्ञम् । रु॒द्राय॑ । मी॒ळ्हुषे॑ । भ॒र॒ध्व॒म् ।
    दि॒वः । अ॒स्तो॒षि॒ । असु॑रस्य । वी॒रैः । इ॒षु॒ध्याऽइ॑व । म॒रुतः॑ । रोद॑स्योः ॥

    प्र । वः । पान्तम् । रघुऽमन्यवः । अन्धः । यज्ञम् । रुद्राय । मीळ्हुषे । भरध्वम् ।
    दिवः । अस्तोषि । असुरस्य । वीरैः । इषुध्याऽइव । मरुतः । रोदस्योः ॥

    prá ǀ vaḥ ǀ pā́ntam ǀ raghu-manyavaḥ ǀ ándhaḥ ǀ yajñám ǀ rudrā́ya ǀ mīḷhúṣe ǀ bharadhvam ǀ
    diváḥ ǀ astoṣi ǀ ásurasya ǀ vīráiḥ ǀ iṣudhyā́-iva ǀ marútaḥ ǀ ródasyoḥ ǁ

    pra ǀ vaḥ ǀ pāntam ǀ raghu-manyavaḥ ǀ andhaḥ ǀ yajñam ǀ rudrāya ǀ mīḷhuṣe ǀ bharadhvam ǀ
    divaḥ ǀ astoṣi ǀ asurasya ǀ vīraiḥ ǀ iṣudhyā-iva ǀ marutaḥ ǀ rodasyoḥ ǁ

    1.122.1 Aṣṭaka 2.1.1.0

  2. Ṛk 2

    पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।
    स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥

    पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने |
    स्तरीर् नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ||

    pátnīva pūrváhūtim vāvṛdhádhyā uṣā́sānáktā purudhā́ vídāne ǀ
    starī́rnā́tkam vyútam vásānā sū́ryasya śriyā́ sudṛ́śī híraṇyaiḥ ǁ

    patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne |
    starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ ||

    पत्नी॑ऽइव । पू॒र्वऽहू॑तिम् । व॒वृ॒धध्यै॑ । उ॒षसा॒नक्ता॑ । पु॒रु॒धा । विदा॑ने॒ इति॑ ।
    स्त॒रीः । न । अत्क॑म् । विऽउ॑तम् । वसा॑ना । सूर्य॑स्य । श्रि॒या । सु॒ऽदृशी॑ । हिर॑ण्यैः ॥

    पत्नीऽइव । पूर्वऽहूतिम् । ववृधध्यै । उषसानक्ता । पुरुधा । विदाने इति ।
    स्तरीः । न । अत्कम् । विऽउतम् । वसाना । सूर्यस्य । श्रिया । सुऽदृशी । हिरण्यैः ॥

    pátnī-iva ǀ pūrvá-hūtim ǀ vavṛdhádhyai ǀ uṣásānáktā ǀ purudhā́ ǀ vídāne íti ǀ
    starī́ḥ ǀ ná ǀ átkam ǀ ví-utam ǀ vásānā ǀ sū́ryasya ǀ śriyā́ ǀ su-dṛ́śī ǀ híraṇyaiḥ ǁ

    patnī-iva ǀ pūrva-hūtim ǀ vavṛdhadhyai ǀ uṣasānaktā ǀ purudhā ǀ vidāne iti ǀ
    starīḥ ǀ na ǀ atkam ǀ vi-utam ǀ vasānā ǀ sūryasya ǀ śriyā ǀ su-dṛśī ǀ hiraṇyaiḥ ǁ

    1.122.2 Aṣṭaka 2.1.1.0

  3. Ṛk 3

    म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।
    शि॒शी॒तमिं॑द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ॥

    ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् |
    शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः ||

    mamáttu naḥ párijmā vasarhā́ mamáttu vā́to apā́m vṛ́ṣaṇvān ǀ
    śiśītámindrāparvatā yuvám nastánno víśve varivasyantu devā́ḥ ǁ

    mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān |
    śiśītam indrāparvatā yuvaṃ nas tan no viśve varivasyantu devāḥ ||

    म॒मत्तु॑ । नः॒ । परि॑ऽज्मा । व॒स॒र्हा । म॒मत्तु॑ । वातः॑ । अ॒पाम् । वृष॑ण्ऽवान् ।
    शि॒शी॒तम् । इ॒न्द्रा॒प॒र्व॒ता॒ । यु॒वम् । नः॒ । तत् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ॥

    ममत्तु । नः । परिऽज्मा । वसर्हा । ममत्तु । वातः । अपाम् । वृषण्ऽवान् ।
    शिशीतम् । इन्द्रापर्वता । युवम् । नः । तत् । नः । विश्वे । वरिवस्यन्तु । देवाः ॥

    mamáttu ǀ naḥ ǀ pári-jmā ǀ vasarhā́ ǀ mamáttu ǀ vā́taḥ ǀ apā́m ǀ vṛ́ṣaṇ-vān ǀ
    śiśītám ǀ indrāparvatā ǀ yuvám ǀ naḥ ǀ tát ǀ naḥ ǀ víśve ǀ varivasyantu ǀ devā́ḥ ǁ

    mamattu ǀ naḥ ǀ pari-jmā ǀ vasarhā ǀ mamattu ǀ vātaḥ ǀ apām ǀ vṛṣaṇ-vān ǀ
    śiśītam ǀ indrāparvatā ǀ yuvam ǀ naḥ ǀ tat ǀ naḥ ǀ viśve ǀ varivasyantu ǀ devāḥ ǁ

    1.122.3 Aṣṭaka 2.1.1.0

  4. Ṛk 4

    उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यंता॒ पांतौ॑शि॒जो हु॒वध्यै॑ ।
    प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥

    उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै |
    प्र वो नपातम् अपां कृणुध्वम् प्र मातरा रास्पिनस्यायोः ||

    utá tyā́ me yaśásā śvetanā́yai vyántā pā́ntauśijó huvádhyai ǀ
    prá vo nápātamapā́m kṛṇudhvam prá mātárā rāspinásyāyóḥ ǁ

    uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai |
    pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ ||

    उ॒त । त्या । मे॒ । य॒शसा॑ । श्वे॒त॒नायै॑ । व्यन्ता॑ । पान्ता॑ । औ॒शि॒जः । हु॒वध्यै॑ ।
    प्र । वः॒ । नपा॑तम् । अ॒पाम् । कृ॒णु॒ध्व॒म् । प्र । मा॒तरा॑ । रा॒स्पि॒नस्य॑ । आ॒योः ॥

    उत । त्या । मे । यशसा । श्वेतनायै । व्यन्ता । पान्ता । औशिजः । हुवध्यै ।
    प्र । वः । नपातम् । अपाम् । कृणुध्वम् । प्र । मातरा । रास्पिनस्य । आयोः ॥

    utá ǀ tyā́ ǀ me ǀ yaśásā ǀ śvetanā́yai ǀ vyántā ǀ pā́ntā ǀ auśijáḥ ǀ huvádhyai ǀ
    prá ǀ vaḥ ǀ nápātam ǀ apā́m ǀ kṛṇudhvam ǀ prá ǀ mātárā ǀ rāspinásya ǀ āyóḥ ǁ

    uta ǀ tyā ǀ me ǀ yaśasā ǀ śvetanāyai ǀ vyantā ǀ pāntā ǀ auśijaḥ ǀ huvadhyai ǀ
    pra ǀ vaḥ ǀ napātam ǀ apām ǀ kṛṇudhvam ǀ pra ǀ mātarā ǀ rāspinasya ǀ āyoḥ ǁ

    1.122.4 Aṣṭaka 2.1.1.0

  5. Ṛk 5

    आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।
    प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥

    आ वो रुवण्युम् औशिजो हुवध्यै घोषेव शंसम् अर्जुनस्य नंशे |
    प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिम् अग्नेः ||

    ā́ vo ruvaṇyúmauśijó huvádhyai ghóṣeva śáṃsamárjunasya náṃśe ǀ
    prá vaḥ pūṣṇé dāvána ā́m̐ ácchā voceya vasútātimagnéḥ ǁ

    ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe |
    pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ ||

    आ । वः॒ । रु॒व॒ण्युम् । औ॒शि॒जः । हु॒वध्यै॑ । घोषा॑ऽइव । शंस॑म् । अर्जु॑नस्य । नंशे॑ ।
    प्र । वः॒ । पू॒ष्णे । दा॒वने॑ । आ । अच्छ॑ । वो॒चे॒य॒ । व॒सुऽता॑तिम् । अ॒ग्नेः ॥

    आ । वः । रुवण्युम् । औशिजः । हुवध्यै । घोषाऽइव । शंसम् । अर्जुनस्य । नंशे ।
    प्र । वः । पूष्णे । दावने । आ । अच्छ । वोचेय । वसुऽतातिम् । अग्नेः ॥

    ā́ ǀ vaḥ ǀ ruvaṇyúm ǀ auśijáḥ ǀ huvádhyai ǀ ghóṣā-iva ǀ śáṃsam ǀ árjunasya ǀ náṃśe ǀ
    prá ǀ vaḥ ǀ pūṣṇé ǀ dāváne ǀ ā́ ǀ áccha ǀ voceya ǀ vasú-tātim ǀ agnéḥ ǁ

    ā ǀ vaḥ ǀ ruvaṇyum ǀ auśijaḥ ǀ huvadhyai ǀ ghoṣā-iva ǀ śaṃsam ǀ arjunasya ǀ naṃśe ǀ
    pra ǀ vaḥ ǀ pūṣṇe ǀ dāvane ǀ ā ǀ accha ǀ voceya ǀ vasu-tātim ǀ agneḥ ǁ

    1.122.5 Aṣṭaka 2.1.1.0

  6. Ṛk 6

    श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीं ।
    श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिंधु॑र॒द्भिः ॥

    श्रुतम् मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् |
    श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुर् अद्भिः ||

    śrutám me mitrāvaruṇā hávemótá śrutam sádane viśvátaḥ sīm ǀ
    śrótu naḥ śróturātiḥ suśrótuḥ sukṣétrā síndhuradbhíḥ ǁ

    śrutam me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm |
    śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhur adbhiḥ ||

    श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा । उ॒त । श्रु॒त॒म् । सद॑ने । वि॒श्वतः॑ । सी॒म् ।
    श्रोतु॑ । नः॒ । श्रोतु॑ऽरातिः । सु॒ऽश्रोतुः॑ । सु॒ऽक्षेत्रा॑ । सिन्धुः॑ । अ॒त्ऽभिः ॥

    श्रुतम् । मे । मित्रावरुणा । हवा । इमा । उत । श्रुतम् । सदने । विश्वतः । सीम् ।
    श्रोतु । नः । श्रोतुऽरातिः । सुऽश्रोतुः । सुऽक्षेत्रा । सिन्धुः । अत्ऽभिः ॥

    śrutám ǀ me ǀ mitrāvaruṇā ǀ hávā ǀ imā́ ǀ utá ǀ śrutam ǀ sádane ǀ viśvátaḥ ǀ sīm ǀ
    śrótu ǀ naḥ ǀ śrótu-rātiḥ ǀ su-śrótuḥ ǀ su-kṣétrā ǀ síndhuḥ ǀ at-bhíḥ ǁ

    śrutam ǀ me ǀ mitrāvaruṇā ǀ havā ǀ imā ǀ uta ǀ śrutam ǀ sadane ǀ viśvataḥ ǀ sīm ǀ
    śrotu ǀ naḥ ǀ śrotu-rātiḥ ǀ su-śrotuḥ ǀ su-kṣetrā ǀ sindhuḥ ǀ at-bhiḥ ǁ

    1.122.6 Aṣṭaka 2.1.2.0

  7. Ṛk 7

    स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।
    श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुंधा॒नासो॑ अग्मन् ॥

    स्तुषे सा वां वरुण मित्र रातिर् गवां शता पृक्षयामेषु पज्रे |
    श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ||

    stuṣé sā́ vām varuṇa mitra rātírgávām śatā́ pṛkṣáyāmeṣu pajré ǀ
    śrutárathe priyárathe dádhānāḥ sadyáḥ puṣṭím nirundhānā́so agman ǁ

    stuṣe sā vāṃ varuṇa mitra rātir gavāṃ śatā pṛkṣayāmeṣu pajre |
    śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃ nirundhānāso agman ||

    स्तु॒षे । सा । वा॒म् । व॒रु॒ण॒ । मि॒त्र॒ । रा॒तिः । गवा॑म् । श॒ता । पृ॒क्षऽया॑मेषु । प॒ज्रे ।
    श्रु॒तऽर॑थे । प्रि॒यऽर॑थे । दधा॑नाः । स॒द्यः । पु॒ष्टिम् । नि॒ऽरु॒न्धा॒नासः॑ । अ॒ग्म॒न् ॥

    स्तुषे । सा । वाम् । वरुण । मित्र । रातिः । गवाम् । शता । पृक्षऽयामेषु । पज्रे ।
    श्रुतऽरथे । प्रियऽरथे । दधानाः । सद्यः । पुष्टिम् । निऽरुन्धानासः । अग्मन् ॥

    stuṣé ǀ sā́ ǀ vām ǀ varuṇa ǀ mitra ǀ rātíḥ ǀ gávām ǀ śatā́ ǀ pṛkṣá-yāmeṣu ǀ pajré ǀ
    śrutá-rathe ǀ priyá-rathe ǀ dádhānāḥ ǀ sadyáḥ ǀ puṣṭím ǀ ni-rundhānā́saḥ ǀ agman ǁ

    stuṣe ǀ sā ǀ vām ǀ varuṇa ǀ mitra ǀ rātiḥ ǀ gavām ǀ śatā ǀ pṛkṣa-yāmeṣu ǀ pajre ǀ
    śruta-rathe ǀ priya-rathe ǀ dadhānāḥ ǀ sadyaḥ ǀ puṣṭim ǀ ni-rundhānāsaḥ ǀ agman ǁ

    1.122.7 Aṣṭaka 2.1.2.0

  8. Ṛk 8

    अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ ।
    जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥

    अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः |
    जनो यः पज्रेभ्यो वाजिनीवान् अश्वावतो रथिनो मह्यं सूरिः ||

    asyá stuṣe máhimaghasya rā́dhaḥ sácā sanema náhuṣaḥ suvī́rāḥ ǀ
    jáno yáḥ pajrébhyo vājínīvānáśvāvato rathíno máhyam sūríḥ ǁ

    asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ |
    jano yaḥ pajrebhyo vājinīvān aśvāvato rathino mahyaṃ sūriḥ ||

    अ॒स्य । स्तु॒षे॒ । महि॑ऽमघस्य । राधः॑ । सचा॑ । स॒ने॒म॒ । नहु॑षः । सु॒ऽवीराः॑ ।
    जनः॑ । यः । प॒ज्रेभ्यः॑ । वा॒जिनी॑ऽवान् । अश्व॑ऽवतः । र॒थिनः॑ । मह्य॑म् । सू॒रिः ॥

    अस्य । स्तुषे । महिऽमघस्य । राधः । सचा । सनेम । नहुषः । सुऽवीराः ।
    जनः । यः । पज्रेभ्यः । वाजिनीऽवान् । अश्वऽवतः । रथिनः । मह्यम् । सूरिः ॥

    asyá ǀ stuṣe ǀ máhi-maghasya ǀ rā́dhaḥ ǀ sácā ǀ sanema ǀ náhuṣaḥ ǀ su-vī́rāḥ ǀ
    jánaḥ ǀ yáḥ ǀ pajrébhyaḥ ǀ vājínī-vān ǀ áśva-vataḥ ǀ rathínaḥ ǀ máhyam ǀ sūríḥ ǁ

    asya ǀ stuṣe ǀ mahi-maghasya ǀ rādhaḥ ǀ sacā ǀ sanema ǀ nahuṣaḥ ǀ su-vīrāḥ ǀ
    janaḥ ǀ yaḥ ǀ pajrebhyaḥ ǀ vājinī-vān ǀ aśva-vataḥ ǀ rathinaḥ ǀ mahyam ǀ sūriḥ ǁ

    1.122.8 Aṣṭaka 2.1.2.0

  9. Ṛk 9

    जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।
    स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥

    जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् |
    स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ||

    jáno yó mitrāvaruṇāvabhidhrúgapó ná vām sunótyakṣṇayādhrúk ǀ
    svayám sá yákṣmam hṛ́daye ní dhatta ā́pa yádīm hótrābhirṛtā́vā ǁ

    jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk |
    svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā ||

    जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् ।
    स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्त॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥

    जनः । यः । मित्रावरुणौ । अभिऽध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाऽध्रुक् ।
    स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋतऽवा ॥

    jánaḥ ǀ yáḥ ǀ mitrāvaruṇau ǀ abhi-dhrúk ǀ apáḥ ǀ ná ǀ vām ǀ sunóti ǀ akṣṇayā-dhrúk ǀ
    svayám ǀ sáḥ ǀ yákṣmam ǀ hṛ́daye ǀ ní ǀ dhatta ǀ ā́pa ǀ yát ǀ īm ǀ hótrābhiḥ ǀ ṛtá-vā ǁ

    janaḥ ǀ yaḥ ǀ mitrāvaruṇau ǀ abhi-dhruk ǀ apaḥ ǀ na ǀ vām ǀ sunoti ǀ akṣṇayā-dhruk ǀ
    svayam ǀ saḥ ǀ yakṣmam ǀ hṛdaye ǀ ni ǀ dhatta ǀ āpa ǀ yat ǀ īm ǀ hotrābhiḥ ǀ ṛta-vā ǁ

    1.122.9 Aṣṭaka 2.1.2.0

  10. Ṛk 10

    स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः ।
    विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥

    स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः |
    विसृष्टरातिर् याति बाऌहसृत्वा विश्वासु पृत्सु सदम् इच् छूरः ||

    sá vrā́dhato náhuṣo dáṃsujūtaḥ śárdhastaro narā́m gūrtáśravāḥ ǀ
    vísṛṣṭarātiryāti bāḷhasṛ́tvā víśvāsu pṛtsú sádamícchū́raḥ ǁ

    sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ gūrtaśravāḥ |
    visṛṣṭarātir yāti bāḷhasṛtvā viśvāsu pṛtsu sadam ic chūraḥ ||

    सः । व्राध॑तः । नहु॑षः । दंऽसु॑जूतः । शर्धः॑ऽतरः । न॒राम् । गू॒र्तऽश्र॑वाः ।
    विसृ॑ष्टऽरातिः । या॒ति॒ । बा॒ळ्ह॒ऽसृत्वा॑ । विश्वा॑सु । पृ॒त्ऽसु । सद॑म् । इत् । शूरः॑ ॥

    सः । व्राधतः । नहुषः । दंऽसुजूतः । शर्धःऽतरः । नराम् । गूर्तऽश्रवाः ।
    विसृष्टऽरातिः । याति । बाळ्हऽसृत्वा । विश्वासु । पृत्ऽसु । सदम् । इत् । शूरः ॥

    sáḥ ǀ vrā́dhataḥ ǀ náhuṣaḥ ǀ dáṃ-sujūtaḥ ǀ śárdhaḥ-taraḥ ǀ narā́m ǀ gūrtá-śravāḥ ǀ
    vísṛṣṭa-rātiḥ ǀ yāti ǀ bāḷha-sṛ́tvā ǀ víśvāsu ǀ pṛt-sú ǀ sádam ǀ ít ǀ śū́raḥ ǁ

    saḥ ǀ vrādhataḥ ǀ nahuṣaḥ ǀ daṃ-sujūtaḥ ǀ śardhaḥ-taraḥ ǀ narām ǀ gūrta-śravāḥ ǀ
    visṛṣṭa-rātiḥ ǀ yāti ǀ bāḷha-sṛtvā ǀ viśvāsu ǀ pṛt-su ǀ sadam ǀ it ǀ śūraḥ ǁ

    1.122.10 Aṣṭaka 2.1.2.0

  11. Ṛk 11

    अध॒ ग्मंता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मंद्राः ।
    न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥

    अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः |
    नभोजुवो यन् निरवस्य राधः प्रशस्तये महिना रथवते ||

    ádha gmántā náhuṣo hávam sūréḥ śrótā rājāno amṛ́tasya mandrāḥ ǀ
    nabhojúvo yánniravásya rā́dhaḥ práśastaye mahinā́ ráthavate ǁ

    adha gmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ |
    nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate ||

    अध॑ । ग्मन्त॑ । नहु॑षः । हव॑म् । सू॒रेः । श्रोत॑ । रा॒जा॒नः॒ । अ॒मृत॑स्य । म॒न्द्राः॒ ।
    न॒भः॒ऽजुवः॑ । यत् । नि॒र॒वस्य॑ । राधः॑ । प्रऽश॑स्तये । म॒हि॒ना । रथ॑ऽवते ॥

    अध । ग्मन्त । नहुषः । हवम् । सूरेः । श्रोत । राजानः । अमृतस्य । मन्द्राः ।
    नभःऽजुवः । यत् । निरवस्य । राधः । प्रऽशस्तये । महिना । रथऽवते ॥

    ádha ǀ gmánta ǀ náhuṣaḥ ǀ hávam ǀ sūréḥ ǀ śróta ǀ rājānaḥ ǀ amṛ́tasya ǀ mandrāḥ ǀ
    nabhaḥ-júvaḥ ǀ yát ǀ niravásya ǀ rā́dhaḥ ǀ prá-śastaye ǀ mahinā́ ǀ rátha-vate ǁ

    adha ǀ gmanta ǀ nahuṣaḥ ǀ havam ǀ sūreḥ ǀ śrota ǀ rājānaḥ ǀ amṛtasya ǀ mandrāḥ ǀ
    nabhaḥ-juvaḥ ǀ yat ǀ niravasya ǀ rādhaḥ ǀ pra-śastaye ǀ mahinā ǀ ratha-vate ǁ

    1.122.11 Aṣṭaka 2.1.3.0

  12. Ṛk 12

    ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोचं॒दश॑तयस्य॒ नंशे॑ ।
    द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वंतु प्रभृ॒थेषु॒ वाजं॑ ॥

    एतं शर्धं धाम यस्य सूरेर् इत्य् अवोचन् दशतयस्य नंशे |
    द्युम्नानि येषु वसुताती रारन् विश्वे सन्वन्तु प्रभृथेषु वाजम् ||

    etám śárdham dhāma yásya sūrérítyavocandáśatayasya náṃśe ǀ
    dyumnā́ni yéṣu vasútātī rāránvíśve sanvantu prabhṛthéṣu vā́jam ǁ

    etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe |
    dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam ||

    ए॒तम् । शर्ध॑म् । धा॒म॒ । यस्य॑ । सू॒रेः । इति॑ । अ॒वो॒च॒न् । दश॑ऽतयस्य । नंशे॑ ।
    द्यु॒म्नानि॑ । येषु॑ । व॒सुऽता॑तिः । र॒रन् । विश्वे॑ । स॒न्व॒न्तु॒ । प्र॒ऽभृ॒थेषु॑ । वाज॑म् ॥

    एतम् । शर्धम् । धाम । यस्य । सूरेः । इति । अवोचन् । दशऽतयस्य । नंशे ।
    द्युम्नानि । येषु । वसुऽतातिः । ररन् । विश्वे । सन्वन्तु । प्रऽभृथेषु । वाजम् ॥

    etám ǀ śárdham ǀ dhāma ǀ yásya ǀ sūréḥ ǀ íti ǀ avocan ǀ dáśa-tayasya ǀ náṃśe ǀ
    dyumnā́ni ǀ yéṣu ǀ vasú-tātiḥ ǀ rarán ǀ víśve ǀ sanvantu ǀ pra-bhṛthéṣu ǀ vā́jam ǁ

    etam ǀ śardham ǀ dhāma ǀ yasya ǀ sūreḥ ǀ iti ǀ avocan ǀ daśa-tayasya ǀ naṃśe ǀ
    dyumnāni ǀ yeṣu ǀ vasu-tātiḥ ǀ raran ǀ viśve ǀ sanvantu ǀ pra-bhṛtheṣu ǀ vājam ǁ

    1.122.12 Aṣṭaka 2.1.3.0

  13. Ṛk 13

    मंदा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पंच॒ बिभ्र॑तो॒ यंत्यन्ना॑ ।
    किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋंजते॒ नॄन् ॥

    मन्दामहे दशतयस्य धासेर् द्विर् यत् पञ्च बिभ्रतो यन्त्य् अन्ना |
    किम् इष्टाश्व इष्टरश्मिर् एत ईशानासस् तरुष ऋञ्जते नॄन् ||

    mándāmahe dáśatayasya dhāsérdvíryátpáñca bíbhrato yántyánnā ǀ
    kímiṣṭā́śva iṣṭáraśmiretá īśānā́sastáruṣa ṛñjate nṝ́n ǁ

    mandāmahe daśatayasya dhāser dvir yat pañca bibhrato yanty annā |
    kim iṣṭāśva iṣṭaraśmir eta īśānāsas taruṣa ṛñjate nṝn ||

    मन्दा॑महे । दश॑ऽतयस्य । धा॒सेः । द्विः । यत् । पञ्च॑ । बिभ्र॑तः । यन्ति॑ । अन्ना॑ ।
    किम् । इ॒ष्टऽअ॑श्वः । इ॒ष्टऽर॑श्मिः । ए॒ते । ई॒शा॒नासः॑ । तरु॑षः । ऋ॒ञ्ज॒ते॒ । नॄन् ॥

    मन्दामहे । दशऽतयस्य । धासेः । द्विः । यत् । पञ्च । बिभ्रतः । यन्ति । अन्ना ।
    किम् । इष्टऽअश्वः । इष्टऽरश्मिः । एते । ईशानासः । तरुषः । ऋञ्जते । नॄन् ॥

    mándāmahe ǀ dáśa-tayasya ǀ dhāséḥ ǀ dvíḥ ǀ yát ǀ páñca ǀ bíbhrataḥ ǀ yánti ǀ ánnā ǀ
    kím ǀ iṣṭá-aśvaḥ ǀ iṣṭá-raśmiḥ ǀ eté ǀ īśānā́saḥ ǀ táruṣaḥ ǀ ṛñjate ǀ nṝ́n ǁ

    mandāmahe ǀ daśa-tayasya ǀ dhāseḥ ǀ dviḥ ǀ yat ǀ pañca ǀ bibhrataḥ ǀ yanti ǀ annā ǀ
    kim ǀ iṣṭa-aśvaḥ ǀ iṣṭa-raśmiḥ ǀ ete ǀ īśānāsaḥ ǀ taruṣaḥ ǀ ṛñjate ǀ nṝn ǁ

    1.122.13 Aṣṭaka 2.1.3.0

  14. Ṛk 14

    हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यंतु दे॒वाः ।
    अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कंतू॒भये॑ष्व॒स्मे ॥

    हिरण्यकर्णम् मणिग्रीवम् अर्णस् तन् नो विश्वे वरिवस्यन्तु देवाः |
    अर्यो गिरः सद्य आ जग्मुषीर् ओस्राश् चाकन्तूभयेष्व् अस्मे ||

    híraṇyakarṇam maṇigrīvamárṇastánno víśve varivasyantu devā́ḥ ǀ
    aryó gíraḥ sadyá ā́ jagmúṣīrósrā́ścākantūbháyeṣvasmé ǁ

    hiraṇyakarṇam maṇigrīvam arṇas tan no viśve varivasyantu devāḥ |
    aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme ||

    हिर॑ण्यऽकर्णम् । म॒णि॒ऽग्री॒व॒म् । अर्णः॑ । तम् । नः॒ । विश्वे॑ । व॒रि॒व॒स्य॒न्तु॒ । दे॒वाः ।
    अ॒र्यः । गिरः॑ । स॒द्यः । आ । ज॒ग्मुषीः॑ । आ । उ॒स्राः । चा॒क॒न्तु॒ । उ॒भये॑षु । अ॒स्मे इति॑ ॥

    हिरण्यऽकर्णम् । मणिऽग्रीवम् । अर्णः । तम् । नः । विश्वे । वरिवस्यन्तु । देवाः ।
    अर्यः । गिरः । सद्यः । आ । जग्मुषीः । आ । उस्राः । चाकन्तु । उभयेषु । अस्मे इति ॥

    híraṇya-karṇam ǀ maṇi-grīvam ǀ árṇaḥ ǀ tám ǀ naḥ ǀ víśve ǀ varivasyantu ǀ devā́ḥ ǀ
    aryáḥ ǀ gíraḥ ǀ sadyáḥ ǀ ā́ ǀ jagmúṣīḥ ǀ ā́ ǀ usrā́ḥ ǀ cākantu ǀ ubháyeṣu ǀ asmé íti ǁ

    hiraṇya-karṇam ǀ maṇi-grīvam ǀ arṇaḥ ǀ tam ǀ naḥ ǀ viśve ǀ varivasyantu ǀ devāḥ ǀ
    aryaḥ ǀ giraḥ ǀ sadyaḥ ǀ ā ǀ jagmuṣīḥ ǀ ā ǀ usrāḥ ǀ cākantu ǀ ubhayeṣu ǀ asme iti ǁ

    1.122.14 Aṣṭaka 2.1.3.0

  15. Ṛk 15

    च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।
    रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥

    चत्वारो मा मशर्शारस्य शिश्वस् त्रयो राज्ञ आयवसस्य जिष्णोः |
    रथो वाम् मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ||

    catvā́ro mā maśarśā́rasya śíśvastráyo rā́jña ā́yavasasya jiṣṇóḥ ǀ
    rátho vām mitrāvaruṇā dīrghā́psāḥ syū́magabhastiḥ sū́ro nā́dyaut ǁ

    catvāro mā maśarśārasya śiśvas trayo rājña āyavasasya jiṣṇoḥ |
    ratho vām mitrāvaruṇā dīrghāpsāḥ syūmagabhastiḥ sūro nādyaut ||

    च॒त्वारः॑ । मा॒ । म॒श॒र्शार॑स्य । शिश्वः॑ । त्रयः॑ । राज्ञः॑ । आय॑वसस्य । जि॒ष्णोः ।
    रथः॑ । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दी॒र्घऽअ॑प्साः । स्यूम॑ऽगभस्तिः । सूरः॑ । न । अ॒द्यौ॒त् ॥

    चत्वारः । मा । मशर्शारस्य । शिश्वः । त्रयः । राज्ञः । आयवसस्य । जिष्णोः ।
    रथः । वाम् । मित्रावरुणा । दीर्घऽअप्साः । स्यूमऽगभस्तिः । सूरः । न । अद्यौत् ॥

    catvā́raḥ ǀ mā ǀ maśarśā́rasya ǀ śíśvaḥ ǀ tráyaḥ ǀ rā́jñaḥ ǀ ā́yavasasya ǀ jiṣṇóḥ ǀ
    ráthaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrghá-apsāḥ ǀ syū́ma-gabhastiḥ ǀ sū́raḥ ǀ ná ǀ adyaut ǁ

    catvāraḥ ǀ mā ǀ maśarśārasya ǀ śiśvaḥ ǀ trayaḥ ǀ rājñaḥ ǀ āyavasasya ǀ jiṣṇoḥ ǀ
    rathaḥ ǀ vām ǀ mitrāvaruṇā ǀ dīrgha-apsāḥ ǀ syūma-gabhastiḥ ǀ sūraḥ ǀ na ǀ adyaut ǁ

    1.122.15 Aṣṭaka 2.1.3.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.122 · Viśvedevās

Interpretations

Ralph T. H. Griffith

Ṛk 1

SAY, bringing sacrifice to bounteous Rudra, This juice for drink to you whose wrath is fleeting! With Dyaus the Asura's Heroes I have lauded the Maruts as with prayer to Earth and Heaven.

Ṛk 2

Strong to exalt the early invocation are Night and Dawn who show with varied aspect. The Barren clothes her in wide-woven raiment, and fair Morn shines with Sūrya's golden splendour.

Ṛk 3

Cheer us the Roamer round, who strikes at morning, the Wind delight us, pourer forth of waters! Sharpen our wits, O Parvata and Indra. May all the Gods vouchsafe to us this favour.

Ṛk 4

And Auśija shall call for me that famous Pair who enjoy and drink, who come to brighten. Set ye the Offspring of the Floods before you; both Mothers of the Living One who beameth.

Ṛk 5

For you shall Auśija call him who thunders, as, to win Arjuna's assent, cried Ghoṣā. I will invoke, that Pūṣan may be bounteous to you, the rich munificence of Agni.

Ṛk 6

Hear, Mitra-Varuṇa, these mine invocations, hear them from all men in the hall of worship. Giver of famous gifts, kind hearer, Sindhu who gives fair fields, listen with all his waters!

Ṛk 7

Praised, Mitra, Varuṇa! is your gift, a hundred cows to the Pṛkṣayāmas and the Pajra. Presented by car-famous Priyaratha, supplying nourishment, they came directly.

Ṛk 8

Praised is the gift of him the very wealthy: may we enjoy it, men with hero children: His who hath many gifts to give the Pajras, a chief who makes me rich in cars and horses.

Ṛk 9

The folk, O Mitra-Varuṇa, who hate you, who sinfully hating pour you no libations, Lay in their hearts, themselves, a wasting sickness, whereas the righteous gaineth all by worship.

Ṛk 10

That man, most puissant, wondrously urged onward, famed among heroes, liberal in giving, Moveth a warrior, evermore undaunted in all encounters even with the mighty.

Ṛk 11

Come to the man's, the sacrificer's calling: hear, Kings of Immortality, joy-givers! While ye who speed through clouds decree your bounty largely, for fame, to him the chariot rider.

Ṛk 12

Vigour will we bestow on that adorer whose tenfold draught we come to taste, so spake they. May all in whom rest splendour and great riches obtain refreshment in these sacrifices.

Ṛk 13

We will rejoice to drink the tenfold present when the twicefive come bearing sacred viands. What can he do whose steeds and reins are choicest? These, the all-potent, urge brave men to conquest.

Ṛk 14

The sea and all the Deities shall give us him with the golden ear and neck bejewelled. Dawns, hasting to the praises of the pious, be pleased with us, both offerers and singers.