Ṛgveda · Maṇḍala 1 · Sūkta 122
Ṛk 1.122.9
Saṃhitā
जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।
स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिर्ऋ॒तावा॑ ॥
जनो यो मित्रावरुणाव् अभिध्रुग् अपो न वां सुनोत्य् अक्ष्णयाध्रुक् |
स्वयं स यक्ष्मं हृदये नि धत्त आप यद् ईं होत्राभिर् ऋतावा ||
jáno yó mitrāvaruṇāvabhidhrúgapó ná vām sunótyakṣṇayādhrúk ǀ
svayám sá yákṣmam hṛ́daye ní dhatta ā́pa yádīm hótrābhirṛtā́vā ǁ
jano yo mitrāvaruṇāv abhidhrug apo na vāṃ sunoty akṣṇayādhruk |
svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yad īṃ hotrābhir ṛtāvā ||
Padapāṭha
जनः॑ । यः । मि॒त्रा॒व॒रु॒णौ॒ । अ॒भि॒ऽध्रुक् । अ॒पः । न । वा॒म् । सु॒नोति॑ । अ॒क्ष्ण॒या॒ऽध्रुक् ।
स्व॒यम् । सः । यक्ष्म॑म् । हृद॑ये । नि । ध॒त्त॒ । आप॑ । यत् । ई॒म् । होत्रा॑भिः । ऋ॒तऽवा॑ ॥
जनः । यः । मित्रावरुणौ । अभिऽध्रुक् । अपः । न । वाम् । सुनोति । अक्ष्णयाऽध्रुक् ।
स्वयम् । सः । यक्ष्मम् । हृदये । नि । धत्त । आप । यत् । ईम् । होत्राभिः । ऋतऽवा ॥
jánaḥ ǀ yáḥ ǀ mitrāvaruṇau ǀ abhi-dhrúk ǀ apáḥ ǀ ná ǀ vām ǀ sunóti ǀ akṣṇayā-dhrúk ǀ
svayám ǀ sáḥ ǀ yákṣmam ǀ hṛ́daye ǀ ní ǀ dhatta ǀ ā́pa ǀ yát ǀ īm ǀ hótrābhiḥ ǀ ṛtá-vā ǁ
janaḥ ǀ yaḥ ǀ mitrāvaruṇau ǀ abhi-dhruk ǀ apaḥ ǀ na ǀ vām ǀ sunoti ǀ akṣṇayā-dhruk ǀ
svayam ǀ saḥ ǀ yakṣmam ǀ hṛdaye ǀ ni ǀ dhatta ǀ āpa ǀ yat ǀ īm ǀ hotrābhiḥ ǀ ṛta-vā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.122.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.02.00
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh, Virāḍrūpā
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.