Sūkta 135
- Devatā देवता
- 1-3, 9: Vāyu; 4-8: Indra, Vāyu
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Aṣṭi
Metres by ṛk
1st set of styles nicṛdatyaṣṭiḥ (1, 3); virāḍatyaṣṭiḥ (2, 4); bhurigaṣṭiḥ (5, 9); nicṛdaṣṭiḥ (6, 8); aṣṭiḥ (7)
2nd set of styles atyaṣṭi (1-6, 9); aṣṭi (7-8)
-
Ṛk 1
स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये॑ स॒हस्रे॑ण नि॒युता॑ नियुत्वते श॒तिनी॑भिर्नियुत्वते ।
तुभ्यं॒ हि पू॒र्वपी॑तये दे॒वा दे॒वाय॑ येमि॒रे ।
प्र ते॑ सु॒तासो॒ मधु॑मंतो अस्थिर॒न्मदा॑य॒ क्रत्वे॑ अस्थिरन् ॥स्तीर्णम् बर्हिर् उप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर् नियुत्वते |
तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे |
प्र ते सुतासो मधुमन्तो अस्थिरन् मदाय क्रत्वे अस्थिरन् ||stīrṇám barhírúpa no yāhi vītáye sahásreṇa niyútā niyutvate śatínībhirniyutvate ǀ
túbhyam hí pūrvápītaye devā́ devā́ya yemiré ǀ
prá te sutā́so mádhumanto asthiranmádāya krátve asthiran ǁstīrṇam barhir upa no yāhi vītaye sahasreṇa niyutā niyutvate śatinībhir niyutvate |
tubhyaṃ hi pūrvapītaye devā devāya yemire |
pra te sutāso madhumanto asthiran madāya kratve asthiran ||स्ती॒र्णम् । ब॒र्हिः । उप॑ । नः॒ । या॒हि॒ । वी॒तये॑ । स॒हस्रे॑ण । नि॒ऽयुता॑ । नि॒यु॒त्व॒ते॒ । श॒तिनी॑भिः । नि॒यु॒त्व॒ते॒ ।
तुभ्य॑म् । हि । पू॒र्वऽपी॑तये । दे॒वाः । दे॒वाय॑ । ये॒मि॒रे ।
प्र । ते॒ । सु॒तासः॑ । मधु॑ऽमन्तः । अ॒स्थि॒र॒न् । मदा॑य । क्रत्वे॑ । अ॒स्थि॒र॒न् ॥स्तीर्णम् । बर्हिः । उप । नः । याहि । वीतये । सहस्रेण । निऽयुता । नियुत्वते । शतिनीभिः । नियुत्वते ।
तुभ्यम् । हि । पूर्वऽपीतये । देवाः । देवाय । येमिरे ।
प्र । ते । सुतासः । मधुऽमन्तः । अस्थिरन् । मदाय । क्रत्वे । अस्थिरन् ॥stīrṇám ǀ barhíḥ ǀ úpa ǀ naḥ ǀ yāhi ǀ vītáye ǀ sahásreṇa ǀ ni-yútā ǀ niyutvate ǀ śatínībhiḥ ǀ niyutvate ǀ
túbhyam ǀ hí ǀ pūrvá-pītaye ǀ devā́ḥ ǀ devā́ya ǀ yemiré ǀ
prá ǀ te ǀ sutā́saḥ ǀ mádhu-mantaḥ ǀ asthiran ǀ mádāya ǀ krátve ǀ asthiran ǁstīrṇam ǀ barhiḥ ǀ upa ǀ naḥ ǀ yāhi ǀ vītaye ǀ sahasreṇa ǀ ni-yutā ǀ niyutvate ǀ śatinībhiḥ ǀ niyutvate ǀ
tubhyam ǀ hi ǀ pūrva-pītaye ǀ devāḥ ǀ devāya ǀ yemire ǀ
pra ǀ te ǀ sutāsaḥ ǀ madhu-mantaḥ ǀ asthiran ǀ madāya ǀ kratve ǀ asthiran ǁ1.135.1 Aṣṭaka 2.1.24.1Anuvāka 1.20.7
-
Ṛk 2
तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।
तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।
वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति |
तवायम् भाग आयुषु सोमो देवेषु हूयते |
वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ||túbhyāyám sómaḥ páripūto ádribhiḥ spārhā́ vásānaḥ pári kóśamarṣati śukrā́ vásāno arṣati ǀ
távāyám bhāgá āyúṣu sómo devéṣu hūyate ǀ
váha vāyo niyúto yāhyasmayúrjuṣāṇó yāhyasmayúḥ ǁtubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati |
tavāyam bhāga āyuṣu somo deveṣu hūyate |
vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ ||तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ ।
तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ ।
वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥तुभ्य । अयम् । सोमः । परिऽपूतः । अद्रिऽभिः । स्पार्हा । वसानः । परि । कोशम् । अर्षति । शुक्रा । वसानः । अर्षति ।
तव । अयम् । भागः । आयुषु । सोमः । देवेषु । हूयते ।
वह । वायो इति । निऽयुतः । याहि । अस्मऽयुः । जुषाणः । याहि । अस्मऽयुः ॥túbhya ǀ ayám ǀ sómaḥ ǀ pári-pūtaḥ ǀ ádri-bhiḥ ǀ spārhā́ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ śukrā́ ǀ vásānaḥ ǀ arṣati ǀ
táva ǀ ayám ǀ bhāgáḥ ǀ āyúṣu ǀ sómaḥ ǀ devéṣu ǀ hūyate ǀ
váha ǀ vāyo íti ǀ ni-yútaḥ ǀ yāhi ǀ asma-yúḥ ǀ juṣāṇáḥ ǀ yāhi ǀ asma-yúḥ ǁtubhya ǀ ayam ǀ somaḥ ǀ pari-pūtaḥ ǀ adri-bhiḥ ǀ spārhā ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ śukrā ǀ vasānaḥ ǀ arṣati ǀ
tava ǀ ayam ǀ bhāgaḥ ǀ āyuṣu ǀ somaḥ ǀ deveṣu ǀ hūyate ǀ
vaha ǀ vāyo iti ǀ ni-yutaḥ ǀ yāhi ǀ asma-yuḥ ǀ juṣāṇaḥ ǀ yāhi ǀ asma-yuḥ ǁ1.135.2 Aṣṭaka 2.1.24.2Anuvāka 1.20.8
-
Ṛk 3
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा॑ ।
अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ॥आ नो नियुद्भिः शतिनीभिर् अध्वरं सहस्रिणीभिर् उप याहि वीतये वायो हव्यानि वीतये |
तवायम् भाग ऋत्वियः सरश्मिः सूर्ये सचा |
अध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत ||ā́ no niyúdbhiḥ śatínībhiradhvarám sahasríṇībhirúpa yāhi vītáye vā́yo havyā́ni vītáye ǀ
távāyám bhāgá ṛtvíyaḥ sáraśmiḥ sū́rye sácā ǀ
adhvaryúbhirbháramāṇā ayaṃsata vā́yo śukrā́ ayaṃsata ǁā no niyudbhiḥ śatinībhir adhvaraṃ sahasriṇībhir upa yāhi vītaye vāyo havyāni vītaye |
tavāyam bhāga ṛtviyaḥ saraśmiḥ sūrye sacā |
adhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata ||आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
तव॑ । अ॒यम् । भा॒गः । ऋ॒त्वियः॑ । सऽर॑श्मिः । सूर्ये॑ । सचा॑ ।
अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ॥आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । वीतये । वायो इति । हव्यानि । वीतये ।
तव । अयम् । भागः । ऋत्वियः । सऽरश्मिः । सूर्ये । सचा ।
अध्वर्युऽभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत ॥ā́ ǀ naḥ ǀ niyút-bhiḥ ǀ śatínībhiḥ ǀ adhvarám ǀ sahasríṇībhiḥ ǀ úpa ǀ yāhi ǀ vītáye ǀ vā́yo íti ǀ havyā́ni ǀ vītáye ǀ
táva ǀ ayám ǀ bhāgáḥ ǀ ṛtvíyaḥ ǀ sá-raśmiḥ ǀ sū́rye ǀ sácā ǀ
adhvaryú-bhiḥ ǀ bháramāṇāḥ ǀ ayaṃsata ǀ vā́yo íti ǀ śukrā́ḥ ǀ ayaṃsata ǁā ǀ naḥ ǀ niyut-bhiḥ ǀ śatinībhiḥ ǀ adhvaram ǀ sahasriṇībhiḥ ǀ upa ǀ yāhi ǀ vītaye ǀ vāyo iti ǀ havyāni ǀ vītaye ǀ
tava ǀ ayam ǀ bhāgaḥ ǀ ṛtviyaḥ ǀ sa-raśmiḥ ǀ sūrye ǀ sacā ǀ
adhvaryu-bhiḥ ǀ bharamāṇāḥ ǀ ayaṃsata ǀ vāyo iti ǀ śukrāḥ ǀ ayaṃsata ǁ1.135.3 Aṣṭaka 2.1.24.3Anuvāka 1.20.9
-
Ṛk 4
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
पिब॑तं॒ मध्वो॒ अंध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तं ।
वाय॒वा चं॒द्रेण॒ राध॒सा ग॑त॒मिंद्र॑श्च॒ राध॒सा ग॑तं ॥आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये |
पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् |
वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ||ā́ vām rátho niyútvānvakṣadávase’bhí práyāṃsi súdhitāni vītáye vā́yo havyā́ni vītáye ǀ
píbatam mádhvo ándhasaḥ pūrvapéyam hí vām hitám ǀ
vā́yavā́ candréṇa rā́dhasā́ gatamíndraśca rā́dhasā́ gatam ǁā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye |
pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam |
vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam ||आ । वा॒म् । रथः॑ । नि॒युत्वा॑न् । व॒क्ष॒त् । अव॑से । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
पिब॑तम् । मध्वः॑ । अन्ध॑सः । पू॒र्व॒ऽपेय॑म् । हि । वा॒म् । हि॒तम् ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । राध॑सा । आ । ग॒त॒म् । इन्द्रः॑ । च॒ । राध॑सा । आ । ग॒त॒म् ॥आ । वाम् । रथः । नियुत्वान् । वक्षत् । अवसे । अभि । प्रयांसि । सुऽधितानि । वीतये । वायो इति । हव्यानि । वीतये ।
पिबतम् । मध्वः । अन्धसः । पूर्वऽपेयम् । हि । वाम् । हितम् ।
वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम् ॥ā́ ǀ vām ǀ ráthaḥ ǀ niyútvān ǀ vakṣat ǀ ávase ǀ abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ vītáye ǀ vā́yo íti ǀ havyā́ni ǀ vītáye ǀ
píbatam ǀ mádhvaḥ ǀ ándhasaḥ ǀ pūrva-péyam ǀ hí ǀ vām ǀ hitám ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ rā́dhasā ǀ ā́ ǀ gatam ǀ índraḥ ǀ ca ǀ rā́dhasā ǀ ā́ ǀ gatam ǁā ǀ vām ǀ rathaḥ ǀ niyutvān ǀ vakṣat ǀ avase ǀ abhi ǀ prayāṃsi ǀ su-dhitāni ǀ vītaye ǀ vāyo iti ǀ havyāni ǀ vītaye ǀ
pibatam ǀ madhvaḥ ǀ andhasaḥ ǀ pūrva-peyam ǀ hi ǀ vām ǀ hitam ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rādhasā ǀ ā ǀ gatam ǀ indraḥ ǀ ca ǀ rādhasā ǀ ā ǀ gatam ǁ1.135.4 Aṣṭaka 2.1.24.4Anuvāka 1.20.10
-
Ṛk 5
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिंदुं॑ मर्मृजंत वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिनं॑ ।
तेषां॑ पिबतमस्म॒यू आ नो॑ गंतमि॒होत्या ।
इंद्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वं ॥आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् |
तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या |
इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ||ā́ vām dhíyo vavṛtyuradhvarā́m̐ úpemámíndum marmṛjanta vājínamāśúmátyam ná vājínam ǀ
téṣām pibatamasmayū́ ā́ no gantamihótyā́ ǀ
índravāyū sutā́nāmádribhiryuvám mádāya vājadā yuvám ǁā vāṃ dhiyo vavṛtyur adhvarāṃ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam |
teṣām pibatam asmayū ā no gantam ihotyā |
indravāyū sutānām adribhir yuvam madāya vājadā yuvam ||आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् ।
तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।
इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥आ । वाम् । धियः । ववृत्युः । अध्वरान् । उप । इमम् । इन्दुम् । मर्मृजन्त । वाजिनम् । आशुम् । अत्यम् । न । वाजिनम् ।
तेषाम् । पिबतम् । अस्मयू इत्यस्मऽयू । आ । नः । गन्तम् । इह । ऊत्या ।
इन्द्रवायू इति । सुतानाम् । अद्रिऽभिः । युवम् । मदाय । वाजऽदा । युवम् ॥ā́ ǀ vām ǀ dhíyaḥ ǀ vavṛtyuḥ ǀ adhvarā́n ǀ úpa ǀ imám ǀ índum ǀ marmṛjanta ǀ vājínam ǀ āśúm ǀ átyam ǀ ná ǀ vājínam ǀ
téṣām ǀ pibatam ǀ asmayū́ ítyasma-yū́ ǀ ā́ ǀ naḥ ǀ gantam ǀ ihá ǀ ūtyā́ ǀ
índravāyū íti ǀ sutā́nām ǀ ádri-bhiḥ ǀ yuvám ǀ mádāya ǀ vāja-dā ǀ yuvám ǁā ǀ vām ǀ dhiyaḥ ǀ vavṛtyuḥ ǀ adhvarān ǀ upa ǀ imam ǀ indum ǀ marmṛjanta ǀ vājinam ǀ āśum ǀ atyam ǀ na ǀ vājinam ǀ
teṣām ǀ pibatam ǀ asmayū ityasma-yū ǀ ā ǀ naḥ ǀ gantam ǀ iha ǀ ūtyā ǀ
indravāyū iti ǀ sutānām ǀ adri-bhiḥ ǀ yuvam ǀ madāya ǀ vāja-dā ǀ yuvam ǁ1.135.5 Aṣṭaka 2.1.24.5Anuvāka 1.20.11
-
Ṛk 6
इ॒मे वां॒ सोमा॑ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो॑ शु॒क्रा अ॑यंसत ।
ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ ।
यु॒वा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑ ॥इमे वां सोमा अप्स्व् आ सुता इहाध्वर्युभिर् भरमाणा अयंसत वायो शुक्रा अयंसत |
एते वाम् अभ्य् असृक्षत तिरः पवित्रम् आशवः |
युवायवो ऽति रोमाण्य् अव्यया सोमासो अत्य् अव्यया ||imé vām sómā apsvā́ sutā́ ihā́dhvaryúbhirbháramāṇā ayaṃsata vā́yo śukrā́ ayaṃsata ǀ
eté vāmabhyásṛkṣata tiráḥ pavítramāśávaḥ ǀ
yuvāyávó’ti rómāṇyavyáyā sómāso átyavyáyā ǁime vāṃ somā apsv ā sutā ihādhvaryubhir bharamāṇā ayaṃsata vāyo śukrā ayaṃsata |
ete vām abhy asṛkṣata tiraḥ pavitram āśavaḥ |
yuvāyavo 'ti romāṇy avyayā somāso aty avyayā ||इ॒मे । वा॒म् । सोमाः॑ । अ॒प्ऽसु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्युऽभिः॑ । भर॑माणाः । अ॒यं॒स॒त॒ । वायो॒ इति॑ । शु॒क्राः । अ॒यं॒स॒त॒ ।
ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र॑म् । आ॒शवः॑ ।
यु॒वा॒ऽयवः॑ । अति॑ । रोमा॑णि । अ॒व्यया॑ । सोमा॑सः । अति॑ । अ॒व्यया॑ ॥इमे । वाम् । सोमाः । अप्ऽसु । आ । सुताः । इह । अध्वर्युऽभिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत ।
एते । वाम् । अभि । असृक्षत । तिरः । पवित्रम् । आशवः ।
युवाऽयवः । अति । रोमाणि । अव्यया । सोमासः । अति । अव्यया ॥imé ǀ vām ǀ sómāḥ ǀ ap-sú ǀ ā́ ǀ sutā́ḥ ǀ ihá ǀ adhvaryú-bhiḥ ǀ bháramāṇāḥ ǀ ayaṃsata ǀ vā́yo íti ǀ śukrā́ḥ ǀ ayaṃsata ǀ
eté ǀ vām ǀ abhí ǀ asṛkṣata ǀ tiráḥ ǀ pavítram ǀ āśávaḥ ǀ
yuvā-yávaḥ ǀ áti ǀ rómāṇi ǀ avyáyā ǀ sómāsaḥ ǀ áti ǀ avyáyā ǁime ǀ vām ǀ somāḥ ǀ ap-su ǀ ā ǀ sutāḥ ǀ iha ǀ adhvaryu-bhiḥ ǀ bharamāṇāḥ ǀ ayaṃsata ǀ vāyo iti ǀ śukrāḥ ǀ ayaṃsata ǀ
ete ǀ vām ǀ abhi ǀ asṛkṣata ǀ tiraḥ ǀ pavitram ǀ āśavaḥ ǀ
yuvā-yavaḥ ǀ ati ǀ romāṇi ǀ avyayā ǀ somāsaḥ ǀ ati ǀ avyayā ǁ1.135.6 Aṣṭaka 2.1.25.1Anuvāka 1.20.12
-
Ṛk 7
अति॑ वायो सस॒तो या॑हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिंद्र॑श्च गच्छतं ।
वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया॑ नि॒युता॑ याथो अध्व॒रमिंद्र॑श्च याथो अध्व॒रं ॥अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहम् इन्द्रश् च गच्छतम् |
वि सूनृता ददृशे रीयते घृतम् आ पूर्णया नियुता याथो अध्वरम् इन्द्रश् च याथो अध्वरम् ||áti vāyo sasató yāhi śáśvato yátra grā́vā vádati tátra gacchatam gṛhámíndraśca gacchatam ǀ
ví sūnṛ́tā dádṛśe rī́yate ghṛtámā́ pūrṇáyā niyútā yātho adhvarámíndraśca yātho adhvarám ǁati vāyo sasato yāhi śaśvato yatra grāvā vadati tatra gacchataṃ gṛham indraś ca gacchatam |
vi sūnṛtā dadṛśe rīyate ghṛtam ā pūrṇayā niyutā yātho adhvaram indraś ca yātho adhvaram ||अति॑ । वा॒यो॒ इति॑ । स॒स॒तः । या॒हि॒ । शश्व॑तः । यत्र॑ । ग्रावा॑ । वद॑ति । तत्र॑ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः॑ । च॒ । ग॒च्छ॒त॒म् ।
वि । सू॒नृता॑ । ददृ॑शे । रीय॑ते । घृ॒तम् । आ । पू॒र्णया॑ । नि॒ऽयुता॑ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः॑ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥अति । वायो इति । ससतः । याहि । शश्वतः । यत्र । ग्रावा । वदति । तत्र । गच्छतम् । गृहम् । इन्द्रः । च । गच्छतम् ।
वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । निऽयुता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम् ॥áti ǀ vāyo íti ǀ sasatáḥ ǀ yāhi ǀ śáśvataḥ ǀ yátra ǀ grā́vā ǀ vádati ǀ tátra ǀ gacchatam ǀ gṛhám ǀ índraḥ ǀ ca ǀ gacchatam ǀ
ví ǀ sūnṛ́tā ǀ dádṛśe ǀ rī́yate ǀ ghṛtám ǀ ā́ ǀ pūrṇáyā ǀ ni-yútā ǀ yāthaḥ ǀ adhvarám ǀ índraḥ ǀ ca ǀ yāthaḥ ǀ adhvarám ǁati ǀ vāyo iti ǀ sasataḥ ǀ yāhi ǀ śaśvataḥ ǀ yatra ǀ grāvā ǀ vadati ǀ tatra ǀ gacchatam ǀ gṛham ǀ indraḥ ǀ ca ǀ gacchatam ǀ
vi ǀ sūnṛtā ǀ dadṛśe ǀ rīyate ǀ ghṛtam ǀ ā ǀ pūrṇayā ǀ ni-yutā ǀ yāthaḥ ǀ adhvaram ǀ indraḥ ǀ ca ǀ yāthaḥ ǀ adhvaram ǁ1.135.7 Aṣṭaka 2.1.25.2Anuvāka 1.20.13
-
Ṛk 8
अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठं॑त जा॒यवो॒ऽस्मे ते सं॑तु जा॒यवः॑ ।
सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते॑ वाय॒ उप॑ दस्यंति धे॒नवो॒ नाप॑ दस्यंति धे॒नवः॑ ॥अत्राह तद् वहेथे मध्व आहुतिं यम् अश्वत्थम् उपतिष्ठन्त जायवो ऽस्मे ते सन्तु जायवः |
साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ||átrā́ha tádvahethe mádhva ā́hutim yámaśvatthámupatíṣṭhanta jāyávo’smé té santu jāyávaḥ ǀ
sākám gā́vaḥ súvate pácyate yávo ná te vāya úpa dasyanti dhenávo nā́pa dasyanti dhenávaḥ ǁatrāha tad vahethe madhva āhutiṃ yam aśvattham upatiṣṭhanta jāyavo 'sme te santu jāyavaḥ |
sākaṃ gāvaḥ suvate pacyate yavo na te vāya upa dasyanti dhenavo nāpa dasyanti dhenavaḥ ||अत्र॑ । अह॑ । तत् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽहु॑तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒ऽतिष्ठ॑न्त । जा॒यवः॑ । अ॒स्मे इति॑ । ते । स॒न्तु॒ । जा॒यवः॑ ।
सा॒कम् । गावः॑ । सुव॑ते । पच्य॑ते । यवः॑ । न । ते॒ । वा॒यो॒ इति॑ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । न । अप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ ॥अत्र । अह । तत् । वहेथे इति । मध्वः । आऽहुतिम् । यम् । अश्वत्थम् । उपऽतिष्ठन्त । जायवः । अस्मे इति । ते । सन्तु । जायवः ।
साकम् । गावः । सुवते । पच्यते । यवः । न । ते । वायो इति । उप । दस्यन्ति । धेनवः । न । अप । दस्यन्ति । धेनवः ॥átra ǀ áha ǀ tát ǀ vahethe íti ǀ mádhvaḥ ǀ ā́-hutim ǀ yám ǀ aśvatthám ǀ upa-tíṣṭhanta ǀ jāyávaḥ ǀ asmé íti ǀ té ǀ santu ǀ jāyávaḥ ǀ
sākám ǀ gā́vaḥ ǀ súvate ǀ pácyate ǀ yávaḥ ǀ ná ǀ te ǀ vāyo íti ǀ úpa ǀ dasyanti ǀ dhenávaḥ ǀ ná ǀ ápa ǀ dasyanti ǀ dhenávaḥ ǁatra ǀ aha ǀ tat ǀ vahethe iti ǀ madhvaḥ ǀ ā-hutim ǀ yam ǀ aśvattham ǀ upa-tiṣṭhanta ǀ jāyavaḥ ǀ asme iti ǀ te ǀ santu ǀ jāyavaḥ ǀ
sākam ǀ gāvaḥ ǀ suvate ǀ pacyate ǀ yavaḥ ǀ na ǀ te ǀ vāyo iti ǀ upa ǀ dasyanti ǀ dhenavaḥ ǀ na ǀ apa ǀ dasyanti ǀ dhenavaḥ ǁ1.135.8 Aṣṭaka 2.1.25.3Anuvāka 1.20.14
-
Ṛk 9
इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽंतर्न॒दी ते॑ प॒तयं॑त्यु॒क्षणो॒ महि॒ व्राधं॑त उ॒क्षणः॑ ।
धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः ।
सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यंत॑वो॒ हस्त॑योर्दुर्नि॒यंत॑वः ॥इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः |
धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः |
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ||imé yé te sú vāyo bāhvójaso’ntárnadī́ te patáyantyukṣáṇo máhi vrā́dhanta ukṣáṇaḥ ǀ
dhánvañcidyé anāśávo jīrā́ścidágiraukasaḥ ǀ
sū́ryasyeva raśmáyo durniyántavo hástayordurniyántavaḥ ǁime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ |
dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ |
sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ ||इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति॑ । बा॒हुऽओ॑जसः । अ॒न्तः । न॒दी इति॑ । ते॒ । प॒तय॑न्ति । उ॒क्षणः॑ । महि॑ । व्राध॑न्तः । उ॒क्षणः॑ ।
धन्व॑न् । चि॒त् । ये । अ॒ना॒शवः॑ । जी॒राः । चि॒त् । अगि॑राऽओकसः ।
सूर्य॑स्यऽइव । र॒श्मयः॑ । दुः॒ऽनि॒यन्त॑वः । हस्त॑योः । दुः॒ऽनि॒यन्त॑वः ॥इमे । ये । ते । सु । वायो इति । बाहुऽओजसः । अन्तः । नदी इति । ते । पतयन्ति । उक्षणः । महि । व्राधन्तः । उक्षणः ।
धन्वन् । चित् । ये । अनाशवः । जीराः । चित् । अगिराऽओकसः ।
सूर्यस्यऽइव । रश्मयः । दुःऽनियन्तवः । हस्तयोः । दुःऽनियन्तवः ॥imé ǀ yé ǀ te ǀ sú ǀ vāyo íti ǀ bāhú-ojasaḥ ǀ antáḥ ǀ nadī́ íti ǀ te ǀ patáyanti ǀ ukṣáṇaḥ ǀ máhi ǀ vrā́dhantaḥ ǀ ukṣáṇaḥ ǀ
dhánvan ǀ cit ǀ yé ǀ anāśávaḥ ǀ jīrā́ḥ ǀ cit ǀ ágirā-okasaḥ ǀ
sū́ryasya-iva ǀ raśmáyaḥ ǀ duḥ-niyántavaḥ ǀ hástayoḥ ǀ duḥ-niyántavaḥ ǁime ǀ ye ǀ te ǀ su ǀ vāyo iti ǀ bāhu-ojasaḥ ǀ antaḥ ǀ nadī iti ǀ te ǀ patayanti ǀ ukṣaṇaḥ ǀ mahi ǀ vrādhantaḥ ǀ ukṣaṇaḥ ǀ
dhanvan ǀ cit ǀ ye ǀ anāśavaḥ ǀ jīrāḥ ǀ cit ǀ agirā-okasaḥ ǀ
sūryasya-iva ǀ raśmayaḥ ǀ duḥ-niyantavaḥ ǀ hastayoḥ ǀ duḥ-niyantavaḥ ǁ1.135.9 Aṣṭaka 2.1.25.4Anuvāka 1.20.15
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.