Ṛgveda · Maṇḍala 1 · Sūkta 135
Ṛk 1.135.5
Saṃhitā
आ वां॒ धियो॑ ववृत्युरध्व॒राँ उपे॒ममिंदुं॑ मर्मृजंत वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिनं॑ ।
तेषां॑ पिबतमस्म॒यू आ नो॑ गंतमि॒होत्या ।
इंद्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा॑य वाजदा यु॒वं ॥
आ वां धियो ववृत्युर् अध्वरां उपेमम् इन्दुम् मर्मृजन्त वाजिनम् आशुम् अत्यं न वाजिनम् |
तेषाम् पिबतम् अस्मयू आ नो गन्तम् इहोत्या |
इन्द्रवायू सुतानाम् अद्रिभिर् युवम् मदाय वाजदा युवम् ||
ā́ vām dhíyo vavṛtyuradhvarā́m̐ úpemámíndum marmṛjanta vājínamāśúmátyam ná vājínam ǀ
téṣām pibatamasmayū́ ā́ no gantamihótyā́ ǀ
índravāyū sutā́nāmádribhiryuvám mádāya vājadā yuvám ǁ
ā vāṃ dhiyo vavṛtyur adhvarāṃ upemam indum marmṛjanta vājinam āśum atyaṃ na vājinam |
teṣām pibatam asmayū ā no gantam ihotyā |
indravāyū sutānām adribhir yuvam madāya vājadā yuvam ||
Padapāṭha
आ । वा॒म् । धियः॑ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप॑ । इ॒मम् । इन्दु॑म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन॑म् । आ॒शुम् । अत्य॑म् । न । वा॒जिन॑म् ।
तेषा॑म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।
इन्द्र॑वायू॒ इति॑ । सु॒ताना॑म् । अद्रि॑ऽभिः । यु॒वम् । मदा॑य । वा॒ज॒ऽदा॒ । यु॒वम् ॥
आ । वाम् । धियः । ववृत्युः । अध्वरान् । उप । इमम् । इन्दुम् । मर्मृजन्त । वाजिनम् । आशुम् । अत्यम् । न । वाजिनम् ।
तेषाम् । पिबतम् । अस्मयू इत्यस्मऽयू । आ । नः । गन्तम् । इह । ऊत्या ।
इन्द्रवायू इति । सुतानाम् । अद्रिऽभिः । युवम् । मदाय । वाजऽदा । युवम् ॥
ā́ ǀ vām ǀ dhíyaḥ ǀ vavṛtyuḥ ǀ adhvarā́n ǀ úpa ǀ imám ǀ índum ǀ marmṛjanta ǀ vājínam ǀ āśúm ǀ átyam ǀ ná ǀ vājínam ǀ
téṣām ǀ pibatam ǀ asmayū́ ítyasma-yū́ ǀ ā́ ǀ naḥ ǀ gantam ǀ ihá ǀ ūtyā́ ǀ
índravāyū íti ǀ sutā́nām ǀ ádri-bhiḥ ǀ yuvám ǀ mádāya ǀ vāja-dā ǀ yuvám ǁ
ā ǀ vām ǀ dhiyaḥ ǀ vavṛtyuḥ ǀ adhvarān ǀ upa ǀ imam ǀ indum ǀ marmṛjanta ǀ vājinam ǀ āśum ǀ atyam ǀ na ǀ vājinam ǀ
teṣām ǀ pibatam ǀ asmayū ityasma-yū ǀ ā ǀ naḥ ǀ gantam ǀ iha ǀ ūtyā ǀ
indravāyū iti ǀ sutānām ǀ adri-bhiḥ ǀ yuvam ǀ madāya ǀ vāja-dā ǀ yuvam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.135.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.24.05
- Maṇḍala · Anuvāka · Ṛk
- 1.20.011
- Devatā देवता
- 1-3, 9: Vāyu; 4-8: Indra, Vāyu
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Aṣṭi
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.