Ṛgveda · Maṇḍala 1 · Sūkta 135
Ṛk 1.135.2
Saṃhitā
तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा॑नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा॑नो अर्षति ।
तवा॒यं भा॒ग आ॒युषु॒ सोमो॑ दे॒वेषु॑ हूयते ।
वह॑ वायो नि॒युतो॑ याह्यस्म॒युर्जु॑षा॒णो या॑ह्यस्म॒युः ॥
तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशम् अर्षति शुक्रा वसानो अर्षति |
तवायम् भाग आयुषु सोमो देवेषु हूयते |
वह वायो नियुतो याह्य् अस्मयुर् जुषाणो याह्य् अस्मयुः ||
túbhyāyám sómaḥ páripūto ádribhiḥ spārhā́ vásānaḥ pári kóśamarṣati śukrā́ vásāno arṣati ǀ
távāyám bhāgá āyúṣu sómo devéṣu hūyate ǀ
váha vāyo niyúto yāhyasmayúrjuṣāṇó yāhyasmayúḥ ǁ
tubhyāyaṃ somaḥ paripūto adribhi spārhā vasānaḥ pari kośam arṣati śukrā vasāno arṣati |
tavāyam bhāga āyuṣu somo deveṣu hūyate |
vaha vāyo niyuto yāhy asmayur juṣāṇo yāhy asmayuḥ ||
Padapāṭha
तुभ्य॑ । अ॒यम् । सोमः॑ । परि॑ऽपूतः । अद्रि॑ऽभिः । स्पा॒र्हा । वसा॑नः । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा॑नः । अ॒र्ष॒ति॒ ।
तव॑ । अ॒यम् । भा॒गः । आ॒युषु॑ । सोमः॑ । दे॒वेषु॑ । हू॒य॒ते॒ ।
वह॑ । वा॒यो॒ इति॑ । नि॒ऽयुतः॑ । या॒हि॒ । अ॒स्म॒ऽयुः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒ऽयुः ॥
तुभ्य । अयम् । सोमः । परिऽपूतः । अद्रिऽभिः । स्पार्हा । वसानः । परि । कोशम् । अर्षति । शुक्रा । वसानः । अर्षति ।
तव । अयम् । भागः । आयुषु । सोमः । देवेषु । हूयते ।
वह । वायो इति । निऽयुतः । याहि । अस्मऽयुः । जुषाणः । याहि । अस्मऽयुः ॥
túbhya ǀ ayám ǀ sómaḥ ǀ pári-pūtaḥ ǀ ádri-bhiḥ ǀ spārhā́ ǀ vásānaḥ ǀ pári ǀ kóśam ǀ arṣati ǀ śukrā́ ǀ vásānaḥ ǀ arṣati ǀ
táva ǀ ayám ǀ bhāgáḥ ǀ āyúṣu ǀ sómaḥ ǀ devéṣu ǀ hūyate ǀ
váha ǀ vāyo íti ǀ ni-yútaḥ ǀ yāhi ǀ asma-yúḥ ǀ juṣāṇáḥ ǀ yāhi ǀ asma-yúḥ ǁ
tubhya ǀ ayam ǀ somaḥ ǀ pari-pūtaḥ ǀ adri-bhiḥ ǀ spārhā ǀ vasānaḥ ǀ pari ǀ kośam ǀ arṣati ǀ śukrā ǀ vasānaḥ ǀ arṣati ǀ
tava ǀ ayam ǀ bhāgaḥ ǀ āyuṣu ǀ somaḥ ǀ deveṣu ǀ hūyate ǀ
vaha ǀ vāyo iti ǀ ni-yutaḥ ǀ yāhi ǀ asma-yuḥ ǀ juṣāṇaḥ ǀ yāhi ǀ asma-yuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.135.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.24.02
- Maṇḍala · Anuvāka · Ṛk
- 1.20.008
- Devatā देवता
- 1-3, 9: Vāyu; 4-8: Indra, Vāyu
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Aṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.