Ṛgveda · Maṇḍala 1 · Sūkta 135
Ṛk 1.135.4
Saṃhitā
आ वां॒ रथो॑ नि॒युत्वा॑न्वक्ष॒दव॑से॒ऽभि प्रयां॑सि॒ सुधि॑तानि वी॒तये॒ वायो॑ ह॒व्यानि॑ वी॒तये॑ ।
पिब॑तं॒ मध्वो॒ अंध॑सः पूर्व॒पेयं॒ हि वां॑ हि॒तं ।
वाय॒वा चं॒द्रेण॒ राध॒सा ग॑त॒मिंद्र॑श्च॒ राध॒सा ग॑तं ॥
आ वां रथो नियुत्वान् वक्षद् अवसे ऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये |
पिबतम् मध्वो अन्धसः पूर्वपेयं हि वां हितम् |
वायव् आ चन्द्रेण राधसा गतम् इन्द्रश् च राधसा गतम् ||
ā́ vām rátho niyútvānvakṣadávase’bhí práyāṃsi súdhitāni vītáye vā́yo havyā́ni vītáye ǀ
píbatam mádhvo ándhasaḥ pūrvapéyam hí vām hitám ǀ
vā́yavā́ candréṇa rā́dhasā́ gatamíndraśca rā́dhasā́ gatam ǁ
ā vāṃ ratho niyutvān vakṣad avase 'bhi prayāṃsi sudhitāni vītaye vāyo havyāni vītaye |
pibatam madhvo andhasaḥ pūrvapeyaṃ hi vāṃ hitam |
vāyav ā candreṇa rādhasā gatam indraś ca rādhasā gatam ||
Padapāṭha
आ । वा॒म् । रथः॑ । नि॒युत्वा॑न् । व॒क्ष॒त् । अव॑से । अ॒भि । प्रयां॑सि । सुऽधि॑तानि । वी॒तये॑ । वायो॒ इति॑ । ह॒व्यानि॑ । वी॒तये॑ ।
पिब॑तम् । मध्वः॑ । अन्ध॑सः । पू॒र्व॒ऽपेय॑म् । हि । वा॒म् । हि॒तम् ।
वायो॒ इति॑ । आ । च॒न्द्रेण॑ । राध॑सा । आ । ग॒त॒म् । इन्द्रः॑ । च॒ । राध॑सा । आ । ग॒त॒म् ॥
आ । वाम् । रथः । नियुत्वान् । वक्षत् । अवसे । अभि । प्रयांसि । सुऽधितानि । वीतये । वायो इति । हव्यानि । वीतये ।
पिबतम् । मध्वः । अन्धसः । पूर्वऽपेयम् । हि । वाम् । हितम् ।
वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम् ॥
ā́ ǀ vām ǀ ráthaḥ ǀ niyútvān ǀ vakṣat ǀ ávase ǀ abhí ǀ práyāṃsi ǀ sú-dhitāni ǀ vītáye ǀ vā́yo íti ǀ havyā́ni ǀ vītáye ǀ
píbatam ǀ mádhvaḥ ǀ ándhasaḥ ǀ pūrva-péyam ǀ hí ǀ vām ǀ hitám ǀ
vā́yo íti ǀ ā́ ǀ candréṇa ǀ rā́dhasā ǀ ā́ ǀ gatam ǀ índraḥ ǀ ca ǀ rā́dhasā ǀ ā́ ǀ gatam ǁ
ā ǀ vām ǀ rathaḥ ǀ niyutvān ǀ vakṣat ǀ avase ǀ abhi ǀ prayāṃsi ǀ su-dhitāni ǀ vītaye ǀ vāyo iti ǀ havyāni ǀ vītaye ǀ
pibatam ǀ madhvaḥ ǀ andhasaḥ ǀ pūrva-peyam ǀ hi ǀ vām ǀ hitam ǀ
vāyo iti ǀ ā ǀ candreṇa ǀ rādhasā ǀ ā ǀ gatam ǀ indraḥ ǀ ca ǀ rādhasā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.135.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.24.04
- Maṇḍala · Anuvāka · Ṛk
- 1.20.010
- Devatā देवता
- 1-3, 9: Vāyu; 4-8: Indra, Vāyu
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Aṣṭi
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.