Ṛgveda · Maṇḍala 1 · Sūkta 135

Ṛk 1.135.9

Vāyu · Indra, Vāyu · Parucchepa Daivodāsi

The whole sūkta Link

Saṃhitā

इ॒मे ये ते॒ सु वा॑यो बा॒ह्वो॑जसो॒ऽंतर्न॒दी ते॑ प॒तयं॑त्यु॒क्षणो॒ महि॒ व्राधं॑त उ॒क्षणः॑ ।
धन्व॑ञ्चि॒द्ये अ॑ना॒शवो॑ जी॒राश्चि॒दगि॑रौकसः ।
सूर्य॑स्येव र॒श्मयो॑ दुर्नि॒यंत॑वो॒ हस्त॑योर्दुर्नि॒यंत॑वः ॥

इमे ये ते सु वायो बाह्वोजसो ऽन्तर् नदी ते पतयन्त्य् उक्षणो महि व्राधन्त उक्षणः |
धन्वञ् चिद् ये अनाशवो जीराश् चिद् अगिरौकसः |
सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर् दुर्नियन्तवः ||

imé yé te sú vāyo bāhvójaso’ntárnadī́ te patáyantyukṣáṇo máhi vrā́dhanta ukṣáṇaḥ ǀ
dhánvañcidyé anāśávo jīrā́ścidágiraukasaḥ ǀ
sū́ryasyeva raśmáyo durniyántavo hástayordurniyántavaḥ ǁ

ime ye te su vāyo bāhvojaso 'ntar nadī te patayanty ukṣaṇo mahi vrādhanta ukṣaṇaḥ |
dhanvañ cid ye anāśavo jīrāś cid agiraukasaḥ |
sūryasyeva raśmayo durniyantavo hastayor durniyantavaḥ ||

Padapāṭha

इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति॑ । बा॒हुऽओ॑जसः । अ॒न्तः । न॒दी इति॑ । ते॒ । प॒तय॑न्ति । उ॒क्षणः॑ । महि॑ । व्राध॑न्तः । उ॒क्षणः॑ ।
धन्व॑न् । चि॒त् । ये । अ॒ना॒शवः॑ । जी॒राः । चि॒त् । अगि॑राऽओकसः ।
सूर्य॑स्यऽइव । र॒श्मयः॑ । दुः॒ऽनि॒यन्त॑वः । हस्त॑योः । दुः॒ऽनि॒यन्त॑वः ॥

इमे । ये । ते । सु । वायो इति । बाहुऽओजसः । अन्तः । नदी इति । ते । पतयन्ति । उक्षणः । महि । व्राधन्तः । उक्षणः ।
धन्वन् । चित् । ये । अनाशवः । जीराः । चित् । अगिराऽओकसः ।
सूर्यस्यऽइव । रश्मयः । दुःऽनियन्तवः । हस्तयोः । दुःऽनियन्तवः ॥

imé ǀ yé ǀ te ǀ sú ǀ vāyo íti ǀ bāhú-ojasaḥ ǀ antáḥ ǀ nadī́ íti ǀ te ǀ patáyanti ǀ ukṣáṇaḥ ǀ máhi ǀ vrā́dhantaḥ ǀ ukṣáṇaḥ ǀ
dhánvan ǀ cit ǀ yé ǀ anāśávaḥ ǀ jīrā́ḥ ǀ cit ǀ ágirā-okasaḥ ǀ
sū́ryasya-iva ǀ raśmáyaḥ ǀ duḥ-niyántavaḥ ǀ hástayoḥ ǀ duḥ-niyántavaḥ ǁ

ime ǀ ye ǀ te ǀ su ǀ vāyo iti ǀ bāhu-ojasaḥ ǀ antaḥ ǀ nadī iti ǀ te ǀ patayanti ǀ ukṣaṇaḥ ǀ mahi ǀ vrādhantaḥ ǀ ukṣaṇaḥ ǀ
dhanvan ǀ cit ǀ ye ǀ anāśavaḥ ǀ jīrāḥ ǀ cit ǀ agirā-okasaḥ ǀ
sūryasya-iva ǀ raśmayaḥ ǀ duḥ-niyantavaḥ ǀ hastayoḥ ǀ duḥ-niyantavaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.135.09
Aṣṭaka · Adhyāya · Varga · Ṛk
2.1.25.04
Maṇḍala · Anuvāka · Ṛk
1.20.015
Devatā देवता
1-3, 9: Vāyu; 4-8: Indra, Vāyu
Ṛṣi ऋषि
Parucchepa Daivodāsi
Chandas छन्दस्
Atyaṣṭi, Aṣṭi
Svara स्वरः
मध्यमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.135.9

Interpretations

Sāyaṇa

प्रसुज्येष्ठमितिसप्तर्चंतृतीयंसूक्तं ऋषिश्चान्यस्मादितिपरिभाषया परुच्छेपऋषिः अत्यष्टिश्छन्दः ऊतीदेवानामित्यन्त्यात्रिष्टुप् अत्रत्रिष्टुबन्तपरिभाषानाश्रीयते सर्वमात्यष्टमितिविशेषपरिभाषयाबा- धितत्वात् मित्रावरुणौदेवता अन्त्ययोस्तुतन्मन्त्रलिंगोक्तदेवता तथाचानुक्रान्तं—प्रसुसप्तमैत्रावरुणं- त्वंत्येलिंगोक्तदेवतेअन्त्यात्रिष्टुप् तुशब्दप्रयोगांदिदमांदिकेद्वेसूक्तेमैत्रावरुणदेवताकेविनियोगोलैंगिकः ।