Ṛgveda · Maṇḍala 1

Sūkta 25

Varuṇa · Śunaḥśepa Ājīgarti · 21 ṛks

Link
Devatā देवता
Varuṇa
Ṛṣi ऋषि
Śunaḥśepa Ājīgarti
Chandas छन्दस्
Gāyatrī
Metres by ṛk

1st set of styles gāyatrī (1-6, 12, 13, 16, 18, 21); nicṛdgāyatrī (7-9, 14, 17, 19, 20); pratiṣṭhāgāyatrī (10); virāḍgāyatrī (11); gāyatrī (pādanicṛdgāyatrī) (15)

2nd set of styles gāyatrī

  1. Ṛk 1

    यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्र दे॑व वरुण व्र॒तं ।
    मि॒नी॒मसि॒ द्यवि॑द्यवि ॥

    यच् चिद् धि ते विशो यथा प्र देव वरुण व्रतम् |
    मिनीमसि द्यवि-द्यवि ||

    yácciddhí te víśo yathā prá deva varuṇa vratám ǀ
    minīmási dyávidyavi ǁ

    yac cid dhi te viśo yathā pra deva varuṇa vratam |
    minīmasi dyavi-dyavi ||

    यत् । चि॒त् । हि । ते॒ । विशः॑ । य॒था॒ । प्र । दे॒व॒ । व॒रु॒ण॒ । व्र॒तम् ।
    मि॒नी॒मसि॑ । द्यवि॑ऽद्यवि ॥

    यत् । चित् । हि । ते । विशः । यथा । प्र । देव । वरुण । व्रतम् ।
    मिनीमसि । द्यविऽद्यवि ॥

    yát ǀ cit ǀ hí ǀ te ǀ víśaḥ ǀ yathā ǀ prá ǀ deva ǀ varuṇa ǀ vratám ǀ
    minīmási ǀ dyávi-dyavi ǁ

    yat ǀ cit ǀ hi ǀ te ǀ viśaḥ ǀ yathā ǀ pra ǀ deva ǀ varuṇa ǀ vratam ǀ
    minīmasi ǀ dyavi-dyavi ǁ

    1.25.1 Aṣṭaka 1.2.16.1Anuvāka 1.6.16

  2. Ṛk 2

    मा नो॑ व॒धाय॑ ह॒त्नवे॑ जिहीळा॒नस्य॑ रीरधः ।
    मा हृ॑णा॒नस्य॑ म॒न्यवे॑ ॥

    मा नो वधाय हत्नवे जिहीऌआनस्य रीरधः |
    मा हृणानस्य मन्यवे ||

    mā́ no vadhā́ya hatnáve jihīḷānásya rīradhaḥ ǀ
    mā́ hṛṇānásya manyáve ǁ

    mā no vadhāya hatnave jihīḷānasya rīradhaḥ |
    mā hṛṇānasya manyave ||

    मा । नः॒ । व॒धाय॑ । ह॒त्नवे॑ । जि॒ही॒ळा॒नस्य॑ । री॒र॒धः॒ ।
    मा । हृ॒णा॒नस्य॑ । म॒न्यवे॑ ॥

    मा । नः । वधाय । हत्नवे । जिहीळानस्य । रीरधः ।
    मा । हृणानस्य । मन्यवे ॥

    mā́ ǀ naḥ ǀ vadhā́ya ǀ hatnáve ǀ jihīḷānásya ǀ rīradhaḥ ǀ
    mā́ ǀ hṛṇānásya ǀ manyáve ǁ

    mā ǀ naḥ ǀ vadhāya ǀ hatnave ǀ jihīḷānasya ǀ rīradhaḥ ǀ
    mā ǀ hṛṇānasya ǀ manyave ǁ

    1.25.2 Aṣṭaka 1.2.16.2Anuvāka 1.6.17

  3. Ṛk 3

    वि मृ॑ळी॒काय॑ ते॒ मनो॑ र॒थीरश्वं॒ न संदि॑तं ।
    गी॒र्भिर्व॑रुण सीमहि ॥

    वि मृऌईकाय ते मनो रथीर् अश्वं न संदितम् |
    गीर्भिर् वरुण सीमहि ||

    ví mṛḷīkā́ya te máno rathī́ráśvam ná sáṃditam ǀ
    gīrbhírvaruṇa sīmahi ǁ

    vi mṛḷīkāya te mano rathīr aśvaṃ na saṃditam |
    gīrbhir varuṇa sīmahi ||

    वि । मृ॒ळी॒काय॑ । ते॒ । मनः॑ । र॒थीः । अश्व॑म् । न । सम्ऽदि॑तम् ।
    गीः॒ऽभिः । व॒रु॒ण॒ । सी॒म॒हि॒ ॥

    वि । मृळीकाय । ते । मनः । रथीः । अश्वम् । न । सम्ऽदितम् ।
    गीःऽभिः । वरुण । सीमहि ॥

    ví ǀ mṛḷīkā́ya ǀ te ǀ mánaḥ ǀ rathī́ḥ ǀ áśvam ǀ ná ǀ sám-ditam ǀ
    gīḥ-bhíḥ ǀ varuṇa ǀ sīmahi ǁ

    vi ǀ mṛḷīkāya ǀ te ǀ manaḥ ǀ rathīḥ ǀ aśvam ǀ na ǀ sam-ditam ǀ
    gīḥ-bhiḥ ǀ varuṇa ǀ sīmahi ǁ

    1.25.3 Aṣṭaka 1.2.16.3Anuvāka 1.6.18

  4. Ṛk 4

    परा॒ हि मे॒ विम॑न्यवः॒ पतं॑ति॒ वस्य॑इष्टये ।
    वयो॒ न व॑स॒तीरुप॑ ॥

    परा हि मे विमन्यवः पतन्ति वस्यैष्टये |
    वयो न वसतीर् उप ||

    párā hí me vímanyavaḥ pátanti vásya-iṣṭaye ǀ
    váyo ná vasatī́rúpa ǁ

    parā hi me vimanyavaḥ patanti vasyaiṣṭaye |
    vayo na vasatīr upa ||

    परा॑ । हि । मे॒ । विऽम॑न्यवः । पत॑न्ति । वस्यः॑ऽइष्टये ।
    वयः॑ । न । व॒स॒तीः । उप॑ ॥

    परा । हि । मे । विऽमन्यवः । पतन्ति । वस्यःऽइष्टये ।
    वयः । न । वसतीः । उप ॥

    párā ǀ hí ǀ me ǀ ví-manyavaḥ ǀ pátanti ǀ vásyaḥ-iṣṭaye ǀ
    váyaḥ ǀ ná ǀ vasatī́ḥ ǀ úpa ǁ

    parā ǀ hi ǀ me ǀ vi-manyavaḥ ǀ patanti ǀ vasyaḥ-iṣṭaye ǀ
    vayaḥ ǀ na ǀ vasatīḥ ǀ upa ǁ

    1.25.4 Aṣṭaka 1.2.16.4Anuvāka 1.6.19

  5. Ṛk 5

    क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे ।
    मृ॒ळी॒कायो॑रु॒चक्ष॑सं ॥

    कदा क्षत्रश्रियं नरम् आ वरुणं करामहे |
    मृऌईकायोरुचक्षसम् ||

    kadā́ kṣatraśríyam náramā́ váruṇam karāmahe ǀ
    mṛḷīkā́yorucákṣasam ǁ

    kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe |
    mṛḷīkāyorucakṣasam ||

    क॒दा । क्ष॒त्र॒ऽश्रिय॑म् । नर॑म् । आ । वरु॑णम् । क॒रा॒म॒हे॒ ।
    मृ॒ळी॒काय॑ । उ॒रु॒ऽचक्ष॑सम् ॥

    कदा । क्षत्रऽश्रियम् । नरम् । आ । वरुणम् । करामहे ।
    मृळीकाय । उरुऽचक्षसम् ॥

    kadā́ ǀ kṣatra-śríyam ǀ náram ǀ ā́ ǀ váruṇam ǀ karāmahe ǀ
    mṛḷīkā́ya ǀ uru-cákṣasam ǁ

    kadā ǀ kṣatra-śriyam ǀ naram ǀ ā ǀ varuṇam ǀ karāmahe ǀ
    mṛḷīkāya ǀ uru-cakṣasam ǁ

    1.25.5 Aṣṭaka 1.2.16.5Anuvāka 1.6.20

  6. Ṛk 6

    तदित्स॑मा॒नमा॑शाते॒ वेनं॑ता॒ न प्र यु॑च्छतः ।
    धृ॒तव्र॑ताय दा॒शुषे॑ ॥

    तद् इत् समानम् आशाते वेनन्ता न प्र युच्छतः |
    धृतव्रताय दाशुषे ||

    tádítsamānámāśāte vénantā ná prá yucchataḥ ǀ
    dhṛtávratāya dāśúṣe ǁ

    tad it samānam āśāte venantā na pra yucchataḥ |
    dhṛtavratāya dāśuṣe ||

    तत् । इत् । स॒मा॒नम् । आ॒शा॒ते॒ इति॑ । वेन॑न्ता । न । प्र । यु॒च्छ॒तः॒ ।
    धृ॒तऽव्र॑ताय । दा॒शुषे॑ ॥

    तत् । इत् । समानम् । आशाते इति । वेनन्ता । न । प्र । युच्छतः ।
    धृतऽव्रताय । दाशुषे ॥

    tát ǀ ít ǀ samānám ǀ āśāte íti ǀ vénantā ǀ ná ǀ prá ǀ yucchataḥ ǀ
    dhṛtá-vratāya ǀ dāśúṣe ǁ

    tat ǀ it ǀ samānam ǀ āśāte iti ǀ venantā ǀ na ǀ pra ǀ yucchataḥ ǀ
    dhṛta-vratāya ǀ dāśuṣe ǁ

    1.25.6 Aṣṭaka 1.2.17.1Anuvāka 1.6.21

  7. Ṛk 7

    वेदा॒ यो वी॒नां प॒दमं॒तरि॑क्षेण॒ पत॑तां ।
    वेद॑ ना॒वः स॑मु॒द्रियः॑ ॥

    वेदा यो वीनाम् पदम् अन्तरिक्षेण पतताम् |
    वेद नावः समुद्रियः ||

    védā yó vīnā́m padámantárikṣeṇa pátatām ǀ
    véda nāváḥ samudríyaḥ ǁ

    vedā yo vīnām padam antarikṣeṇa patatām |
    veda nāvaḥ samudriyaḥ ||

    वेद॑ । यः । वी॒नाम् । प॒दम् । अ॒न्तरि॑क्षेण । पत॑ताम् ।
    वेद॑ । ना॒वः । स॒मु॒द्रियः॑ ॥

    वेद । यः । वीनाम् । पदम् । अन्तरिक्षेण । पतताम् ।
    वेद । नावः । समुद्रियः ॥

    véda ǀ yáḥ ǀ vīnā́m ǀ padám ǀ antárikṣeṇa ǀ pátatām ǀ
    véda ǀ nāváḥ ǀ samudríyaḥ ǁ

    veda ǀ yaḥ ǀ vīnām ǀ padam ǀ antarikṣeṇa ǀ patatām ǀ
    veda ǀ nāvaḥ ǀ samudriyaḥ ǁ

    1.25.7 Aṣṭaka 1.2.17.2Anuvāka 1.6.22

  8. Ṛk 8

    वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः ।
    वेदा॒ य उ॑प॒जाय॑ते ॥

    वेद मासो धृतव्रतो द्वादश प्रजावतः |
    वेदा य उपजायते ||

    véda māsó dhṛtávrato dvā́daśa prajā́vataḥ ǀ
    védā yá upajā́yate ǁ

    veda māso dhṛtavrato dvādaśa prajāvataḥ |
    vedā ya upajāyate ||

    वेद॑ । मा॒सः । धृ॒तऽव्र॑तः । द्वाद॑श । प्र॒जाऽव॑तः ।
    वेद॑ । यः । उ॒प॒ऽजाय॑ते ॥

    वेद । मासः । धृतऽव्रतः । द्वादश । प्रजाऽवतः ।
    वेद । यः । उपऽजायते ॥

    véda ǀ māsáḥ ǀ dhṛtá-vrataḥ ǀ dvā́daśa ǀ prajā́-vataḥ ǀ
    véda ǀ yáḥ ǀ upa-jā́yate ǁ

    veda ǀ māsaḥ ǀ dhṛta-vrataḥ ǀ dvādaśa ǀ prajā-vataḥ ǀ
    veda ǀ yaḥ ǀ upa-jāyate ǁ

    1.25.8 Aṣṭaka 1.2.17.3Anuvāka 1.6.23

  9. Ṛk 9

    वेद॒ वात॑स्य वर्त॒निमु॒रोर्ऋ॒ष्वस्य॑ बृह॒तः ।
    वेदा॒ ये अ॒ध्यास॑ते ॥

    वेद वातस्य वर्तनिम् उरोर् ऋष्वस्य बृहतः |
    वेदा ये अध्यासते ||

    véda vā́tasya vartanímurórṛṣvásya bṛhatáḥ ǀ
    védā yé adhyā́sate ǁ

    veda vātasya vartanim uror ṛṣvasya bṛhataḥ |
    vedā ye adhyāsate ||

    वेद॑ । वात॑स्य । व॒र्त॒निम् । उ॒रोः । ऋ॒ष्वस्य॑ । बृ॒ह॒तः ।
    वेद॑ । ये । अ॒धि॒ऽआस॑ते ॥

    वेद । वातस्य । वर्तनिम् । उरोः । ऋष्वस्य । बृहतः ।
    वेद । ये । अधिऽआसते ॥

    véda ǀ vā́tasya ǀ vartaním ǀ uróḥ ǀ ṛṣvásya ǀ bṛhatáḥ ǀ
    véda ǀ yé ǀ adhi-ā́sate ǁ

    veda ǀ vātasya ǀ vartanim ǀ uroḥ ǀ ṛṣvasya ǀ bṛhataḥ ǀ
    veda ǀ ye ǀ adhi-āsate ǁ

    1.25.9 Aṣṭaka 1.2.17.4Anuvāka 1.6.24

  10. Ṛk 10

    नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॒॑स्वा ।
    साम्रा॑ज्याय सु॒क्रतुः॑ ॥

    नि षसाद धृतव्रतो वरुणः पस्त्यास्व् आ |
    साम्राज्याय सुक्रतुः ||

    ní ṣasāda dhṛtávrato váruṇaḥ pastyā́svā́ ǀ
    sā́mrājyāya sukrátuḥ ǁ

    ni ṣasāda dhṛtavrato varuṇaḥ pastyāsv ā |
    sāmrājyāya sukratuḥ ||

    नि । स॒सा॒द॒ । धृ॒तऽव्र॑तः । वरु॑णः । प॒स्त्या॑सु । आ ।
    साम्ऽरा॑ज्याय । सु॒ऽक्रतुः॑ ॥

    नि । ससाद । धृतऽव्रतः । वरुणः । पस्त्यासु । आ ।
    साम्ऽराज्याय । सुऽक्रतुः ॥

    ní ǀ sasāda ǀ dhṛtá-vrataḥ ǀ váruṇaḥ ǀ pastyā́su ǀ ā́ ǀ
    sā́m-rājyāya ǀ su-krátuḥ ǁ

    ni ǀ sasāda ǀ dhṛta-vrataḥ ǀ varuṇaḥ ǀ pastyāsu ǀ ā ǀ
    sām-rājyāya ǀ su-kratuḥ ǁ

    1.25.10 Aṣṭaka 1.2.17.5Anuvāka 1.6.25

  11. Ṛk 11

    अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
    कृ॒तानि॒ या च॒ कर्त्वा॑ ॥

    अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति |
    कृतानि या च कर्त्वा ||

    áto víśvānyádbhutā cikitvā́m̐ abhí paśyati ǀ
    kṛtā́ni yā́ ca kártvā ǁ

    ato viśvāny adbhutā cikitvāṃ abhi paśyati |
    kṛtāni yā ca kartvā ||

    अतः॑ । विश्वा॑नि । अद्भु॑ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ ।
    कृ॒तानि॑ । या । च॒ । कर्त्वा॑ ॥

    अतः । विश्वानि । अद्भुता । चिकित्वान् । अभि । पश्यति ।
    कृतानि । या । च । कर्त्वा ॥

    átaḥ ǀ víśvāni ǀ ádbhutā ǀ cikitvā́n ǀ abhí ǀ paśyati ǀ
    kṛtā́ni ǀ yā́ ǀ ca ǀ kártvā ǁ

    ataḥ ǀ viśvāni ǀ adbhutā ǀ cikitvān ǀ abhi ǀ paśyati ǀ
    kṛtāni ǀ yā ǀ ca ǀ kartvā ǁ

    1.25.11 Aṣṭaka 1.2.18.1Anuvāka 1.6.26

  12. Ṛk 12

    स नो॑ वि॒श्वाहा॑ सु॒क्रतु॑रादि॒त्यः सु॒पथा॑ करत् ।
    प्र ण॒ आयूं॑षि तारिषत् ॥

    स नो विश्वाहा सुक्रतुर् आदित्यः सुपथा करत् |
    प्र ण आयूंषि तारिषत् ||

    sá no viśvā́hā sukráturādityáḥ supáthā karat ǀ
    prá ṇa ā́yūṃṣi tāriṣat ǁ

    sa no viśvāhā sukratur ādityaḥ supathā karat |
    pra ṇa āyūṃṣi tāriṣat ||

    सः । नः॒ । वि॒श्वाहा॑ । सु॒ऽक्रतुः॑ । आ॒दि॒त्यः । सु॒ऽपथा॑ । क॒र॒त् ।
    प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥

    सः । नः । विश्वाहा । सुऽक्रतुः । आदित्यः । सुऽपथा । करत् ।
    प्र । नः । आयूंषि । तारिषत् ॥

    sáḥ ǀ naḥ ǀ viśvā́hā ǀ su-krátuḥ ǀ ādityáḥ ǀ su-páthā ǀ karat ǀ
    prá ǀ naḥ ǀ ā́yūṃṣi ǀ tāriṣat ǁ

    saḥ ǀ naḥ ǀ viśvāhā ǀ su-kratuḥ ǀ ādityaḥ ǀ su-pathā ǀ karat ǀ
    pra ǀ naḥ ǀ āyūṃṣi ǀ tāriṣat ǁ

    1.25.12 Aṣṭaka 1.2.18.2Anuvāka 1.6.27

  13. Ṛk 13

    बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिजं॑ ।
    परि॒ स्पशो॒ नि षे॑दिरे ॥

    बिभ्रद् द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् |
    परि स्पशो नि षेदिरे ||

    bíbhraddrāpím hiraṇyáyam váruṇo vasta nirṇíjam ǀ
    pári spáśo ní ṣedire ǁ

    bibhrad drāpiṃ hiraṇyayaṃ varuṇo vasta nirṇijam |
    pari spaśo ni ṣedire ||

    बिभ्र॑त् । द्रा॒पिम् । हि॒र॒ण्यय॑म् । वरु॑णः । व॒स्त॒ । निः॒ऽनिज॑म् ।
    परि॑ । स्पशः॑ । नि । से॒दि॒रे॒ ॥

    बिभ्रत् । द्रापिम् । हिरण्ययम् । वरुणः । वस्त । निःऽनिजम् ।
    परि । स्पशः । नि । सेदिरे ॥

    bíbhrat ǀ drāpím ǀ hiraṇyáyam ǀ váruṇaḥ ǀ vasta ǀ niḥ-níjam ǀ
    pári ǀ spáśaḥ ǀ ní ǀ sedire ǁ

    bibhrat ǀ drāpim ǀ hiraṇyayam ǀ varuṇaḥ ǀ vasta ǀ niḥ-nijam ǀ
    pari ǀ spaśaḥ ǀ ni ǀ sedire ǁ

    1.25.13 Aṣṭaka 1.2.18.3Anuvāka 1.6.28

  14. Ṛk 14

    न यं दिप्सं॑ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नां ।
    न दे॒वम॒भिमा॑तयः ॥

    न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् |
    न देवम् अभिमातयः ||

    ná yám dípsanti dipsávo ná drúhvāṇo jánānām ǀ
    ná devámabhímātayaḥ ǁ

    na yaṃ dipsanti dipsavo na druhvāṇo janānām |
    na devam abhimātayaḥ ||

    न । यम् । दिप्स॑न्ति । दि॒प्सवः॑ । न । द्रुह्वा॑णः । जना॑नाम् ।
    न । दे॒वम् । अ॒भिऽमा॑तयः ॥

    न । यम् । दिप्सन्ति । दिप्सवः । न । द्रुह्वाणः । जनानाम् ।
    न । देवम् । अभिऽमातयः ॥

    ná ǀ yám ǀ dípsanti ǀ dipsávaḥ ǀ ná ǀ drúhvāṇaḥ ǀ jánānām ǀ
    ná ǀ devám ǀ abhí-mātayaḥ ǁ

    na ǀ yam ǀ dipsanti ǀ dipsavaḥ ǀ na ǀ druhvāṇaḥ ǀ janānām ǀ
    na ǀ devam ǀ abhi-mātayaḥ ǁ

    1.25.14 Aṣṭaka 1.2.18.4Anuvāka 1.6.29

  15. Ṛk 15

    उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
    अ॒स्माक॑मु॒दरे॒ष्वा ॥

    उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ |
    अस्माकम् उदरेष्व् आ ||

    utá yó mā́nuṣeṣvā́ yáśaścakré ásāmyā́ ǀ
    asmā́kamudáreṣvā́ ǁ

    uta yo mānuṣeṣv ā yaśaś cakre asāmy ā |
    asmākam udareṣv ā ||

    उ॒त । यः । मानु॑षेषु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ।
    अ॒स्माक॑म् । उ॒दरे॑षु । आ ॥

    उत । यः । मानुषेषु । आ । यशः । चक्रे । असामि । आ ।
    अस्माकम् । उदरेषु । आ ॥

    utá ǀ yáḥ ǀ mā́nuṣeṣu ǀ ā́ ǀ yáśaḥ ǀ cakré ǀ ásāmi ǀ ā́ ǀ
    asmā́kam ǀ udáreṣu ǀ ā́ ǁ

    uta ǀ yaḥ ǀ mānuṣeṣu ǀ ā ǀ yaśaḥ ǀ cakre ǀ asāmi ǀ ā ǀ
    asmākam ǀ udareṣu ǀ ā ǁ

    1.25.15 Aṣṭaka 1.2.18.5Anuvāka 1.6.30

  16. Ṛk 16

    परा॑ मे यंति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ ।
    इ॒च्छंती॑रुरु॒चक्ष॑सं ॥

    परा मे यन्ति धीतयो गावो न गव्यूतीर् अनु |
    इच्छन्तीर् उरुचक्षसम् ||

    párā me yanti dhītáyo gā́vo ná gávyūtīránu ǀ
    icchántīrurucákṣasam ǁ

    parā me yanti dhītayo gāvo na gavyūtīr anu |
    icchantīr urucakṣasam ||

    परा॑ । मे॒ । य॒न्ति॒ । धी॒तयः॑ । गावः॑ । न । गव्यू॑तीः । अनु॑ ।
    इ॒च्छन्तीः॑ । उ॒रु॒ऽचक्ष॑सम् ॥

    परा । मे । यन्ति । धीतयः । गावः । न । गव्यूतीः । अनु ।
    इच्छन्तीः । उरुऽचक्षसम् ॥

    párā ǀ me ǀ yanti ǀ dhītáyaḥ ǀ gā́vaḥ ǀ ná ǀ gávyūtīḥ ǀ ánu ǀ
    icchántīḥ ǀ uru-cákṣasam ǁ

    parā ǀ me ǀ yanti ǀ dhītayaḥ ǀ gāvaḥ ǀ na ǀ gavyūtīḥ ǀ anu ǀ
    icchantīḥ ǀ uru-cakṣasam ǁ

    1.25.16 Aṣṭaka 1.2.19.1Anuvāka 1.6.31

  17. Ṛk 17

    सं नु वो॑चावहै॒ पुन॒र्यतो॑ मे॒ मध्वाभृ॑तं ।
    होते॑व॒ क्षद॑से प्रि॒यं ॥

    सं नु वोचावहै पुनर् यतो मे मध्व् आभृतम् |
    होतेव क्षदसे प्रियम् ||

    sám nú vocāvahai púnaryáto me mádhvā́bhṛtam ǀ
    hóteva kṣádase priyám ǁ

    saṃ nu vocāvahai punar yato me madhv ābhṛtam |
    hoteva kṣadase priyam ||

    सम् । नु । वो॒चा॒व॒है॒ । पुनः॑ । यतः॑ । मे॒ । मधु॑ । आऽभृ॑तम् ।
    होता॑ऽइव । क्षद॑से । प्रि॒यम् ॥

    सम् । नु । वोचावहै । पुनः । यतः । मे । मधु । आऽभृतम् ।
    होताऽइव । क्षदसे । प्रियम् ॥

    sám ǀ nú ǀ vocāvahai ǀ púnaḥ ǀ yátaḥ ǀ me ǀ mádhu ǀ ā́-bhṛtam ǀ
    hótā-iva ǀ kṣádase ǀ priyám ǁ

    sam ǀ nu ǀ vocāvahai ǀ punaḥ ǀ yataḥ ǀ me ǀ madhu ǀ ā-bhṛtam ǀ
    hotā-iva ǀ kṣadase ǀ priyam ǁ

    1.25.17 Aṣṭaka 1.2.19.2Anuvāka 1.6.32

  18. Ṛk 18

    दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ ।
    ए॒ता जु॑षत मे॒ गिरः॑ ॥

    दर्शं नु विश्वदर्शतं दर्शं रथम् अधि क्षमि |
    एता जुषत मे गिरः ||

    dárśam nú viśvádarśatam dárśam ráthamádhi kṣámi ǀ
    etā́ juṣata me gíraḥ ǁ

    darśaṃ nu viśvadarśataṃ darśaṃ ratham adhi kṣami |
    etā juṣata me giraḥ ||

    दर्श॑म् । नु । वि॒श्वऽद॑र्शतम् । दर्श॑म् । रथ॑म् । अधि॑ । क्षमि॑ ।
    ए॒ताः । जु॒ष॒त॒ । मे॒ । गिरः॑ ॥

    दर्शम् । नु । विश्वऽदर्शतम् । दर्शम् । रथम् । अधि । क्षमि ।
    एताः । जुषत । मे । गिरः ॥

    dárśam ǀ nú ǀ viśvá-darśatam ǀ dárśam ǀ rátham ǀ ádhi ǀ kṣámi ǀ
    etā́ḥ ǀ juṣata ǀ me ǀ gíraḥ ǁ

    darśam ǀ nu ǀ viśva-darśatam ǀ darśam ǀ ratham ǀ adhi ǀ kṣami ǀ
    etāḥ ǀ juṣata ǀ me ǀ giraḥ ǁ

    1.25.18 Aṣṭaka 1.2.19.3Anuvāka 1.6.33

  19. Ṛk 19

    इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय ।
    त्वाम॑व॒स्युरा च॑के ॥

    इमम् मे वरुण श्रुधी हवम् अद्या च मृऌअय |
    त्वाम् अवस्युर् आ चके ||

    imám me varuṇa śrudhī hávamadyā́ ca mṛḷaya ǀ
    tvā́mavasyúrā́ cake ǁ

    imam me varuṇa śrudhī havam adyā ca mṛḷaya |
    tvām avasyur ā cake ||

    इ॒मम् । मे॒ । व॒रु॒ण॒ । श्रु॒धि॒ । हव॑म् । अ॒द्य । च॒ । मृ॒ळ॒य॒ ।
    त्वाम् । अ॒व॒स्युः । आ । च॒क्रे॒ ॥

    इमम् । मे । वरुण । श्रुधि । हवम् । अद्य । च । मृळय ।
    त्वाम् । अवस्युः । आ । चक्रे ॥

    imám ǀ me ǀ varuṇa ǀ śrudhi ǀ hávam ǀ adyá ǀ ca ǀ mṛḷaya ǀ
    tvā́m ǀ avasyúḥ ǀ ā́ ǀ cakre ǁ

    imam ǀ me ǀ varuṇa ǀ śrudhi ǀ havam ǀ adya ǀ ca ǀ mṛḷaya ǀ
    tvām ǀ avasyuḥ ǀ ā ǀ cakre ǁ

    1.25.19 Aṣṭaka 1.2.19.4Anuvāka 1.6.34

  20. Ṛk 20

    त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि ।
    स याम॑नि॒ प्रति॑ श्रुधि ॥

    त्वं विश्वस्य मेधिर दिवश् च ग्मश् च राजसि |
    स यामनि प्रति श्रुधि ||

    tvám víśvasya medhira diváśca gmáśca rājasi ǀ
    sá yā́mani práti śrudhi ǁ

    tvaṃ viśvasya medhira divaś ca gmaś ca rājasi |
    sa yāmani prati śrudhi ||

    त्वम् । विश्व॑स्य । मे॒धि॒र॒ । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒सि॒ ।
    सः । याम॑नि । प्रति॑ । श्रु॒धि॒ ॥

    त्वम् । विश्वस्य । मेधिर । दिवः । च । ग्मः । च । राजसि ।
    सः । यामनि । प्रति । श्रुधि ॥

    tvám ǀ víśvasya ǀ medhira ǀ diváḥ ǀ ca ǀ gmáḥ ǀ ca ǀ rājasi ǀ
    sáḥ ǀ yā́mani ǀ práti ǀ śrudhi ǁ

    tvam ǀ viśvasya ǀ medhira ǀ divaḥ ǀ ca ǀ gmaḥ ǀ ca ǀ rājasi ǀ
    saḥ ǀ yāmani ǀ prati ǀ śrudhi ǁ

    1.25.20 Aṣṭaka 1.2.19.5Anuvāka 1.6.35

  21. Ṛk 21

    उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं॑ मध्य॒मं चृ॑त ।
    अवा॑ध॒मानि॑ जी॒वसे॑ ॥

    उद् उत्तमम् मुमुग्धि नो वि पाशम् मध्यमं चृत |
    अवाधमानि जीवसे ||

    úduttamám mumugdhi no ví pā́śam madhyamám cṛta ǀ
    ávādhamā́ni jīváse ǁ

    ud uttamam mumugdhi no vi pāśam madhyamaṃ cṛta |
    avādhamāni jīvase ||

    उत् । उ॒त्ऽत॒मम् । मु॒मु॒ग्धि॒ । नः॒ । वि । पाश॑म् । म॒ध्य॒मम् । चृ॒त॒ ।
    अव॑ । अ॒ध॒मानि॑ । जी॒वसे॑ ॥

    उत् । उत्ऽतमम् । मुमुग्धि । नः । वि । पाशम् । मध्यमम् । चृत ।
    अव । अधमानि । जीवसे ॥

    út ǀ ut-tamám ǀ mumugdhi ǀ naḥ ǀ ví ǀ pā́śam ǀ madhyamám ǀ cṛta ǀ
    áva ǀ adhamā́ni ǀ jīváse ǁ

    ut ǀ ut-tamam ǀ mumugdhi ǀ naḥ ǀ vi ǀ pāśam ǀ madhyamam ǀ cṛta ǀ
    ava ǀ adhamāni ǀ jīvase ǁ

    1.25.21 Aṣṭaka 1.2.19.6Anuvāka 1.6.36

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.25 · Varuṇa

Interpretations

Sri Aurobindo

Ṛk 1

Whatsoever thy peoples, whatever their nature, thou, O God Varuna, measurest out to them accordingly in sky and sky the law of their nature.

Ṛk 2

Let not thy delight in us be for the mortal piercing of him who is heedless nor for wrath against him who is exultant.

Ṛk 3

We with the words of the mantra, O Varuna, limit the mind in thee for gentleness, as the charioteer checks his horse in its gallop.

Ṛk 4

For they who house with me are hastening up for the sacrifice, free from passions, like birds that fly to their nests.

Ṛk 5

When shall we mould for gentleness—since wide is the vision in him—this strong Varuna in whom warlike strength is the force of his nature?

Ṛk 6

Therefore do ye two enjoy his equal mood and like harpers tune yourselves in yoga to the Giver whose law of being is constancy,—

Ṛk 7

he who knows the path of the birds as they wing through the air and he knows the ships that go down to the sea;

Ṛk 8

he knows the twelve months with their offspring, because his nature is constancy to law, he knows him who is born into the world,

Ṛk 9

knows the action of the vast rushing and mighty wind and knows those who are seated above.

Ṛk 10

Varuna, because his nature is steadfastness, has taken his seat in all lordships and is very mighty for Empire.

Ṛk 11

Therefore he sees with understanding all wonderful things; he looks with knowledge on the things that have been done and on those that are yet to be accomplished.

Ṛk 12

The son of Aditi, the strong One who has all mightinesses set us on the good path, he carried our lives across safe to their goal.

Ṛk 13

Varuna weareth his golden robe and hath taken upon him a form and many clearnesses have taken their seats around

Ṛk 14

Him the hurters cannot hurt, nor they who do injury to the peoples,—they are not able to measure with themselves the God.

Ṛk 16

Like cows that troop to their pastures, thoughts crowd to me desiring the wide-visioned Varuna.

Ṛk 17

Ye two must now declare again where ye have stored for me the sweet wine, for as the offerer of Sacrifice thou, O Varuna, eatest of all pleasantness.

Ṛk 18

O ye my words, do ye cling to the all-seeing and beautiful in his beautiful and spacious car.

Ṛk 19

Even today, O Varuna, hear this my call and take me into thy grace, for to thee for protection I gaze.

Ṛk 20

O thou who art able to contain the universe, thou art ruler over earth and heaven; therefore in thy mastery lend us thy ear.

Ṛk 21

Loose upward the upper cord that binds us, cleave to either side the middle, downward cleave the lower cords that we may live.