Ṛk 1.25.11
Saṃhitā
अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति ।
कृ॒तानि॒ या च॒ कर्त्वा॑ ॥
अतो विश्वान्य् अद्भुता चिकित्वां अभि पश्यति |
कृतानि या च कर्त्वा ||
áto víśvānyádbhutā cikitvā́m̐ abhí paśyati ǀ
kṛtā́ni yā́ ca kártvā ǁ
ato viśvāny adbhutā cikitvāṃ abhi paśyati |
kṛtāni yā ca kartvā ||
Padapāṭha
अतः॑ । विश्वा॑नि । अद्भु॑ता । चि॒कि॒त्वान् । अ॒भि । प॒श्य॒ति॒ ।
कृ॒तानि॑ । या । च॒ । कर्त्वा॑ ॥
अतः । विश्वानि । अद्भुता । चिकित्वान् । अभि । पश्यति ।
कृतानि । या । च । कर्त्वा ॥
átaḥ ǀ víśvāni ǀ ádbhutā ǀ cikitvā́n ǀ abhí ǀ paśyati ǀ
kṛtā́ni ǀ yā́ ǀ ca ǀ kártvā ǁ
ataḥ ǀ viśvāni ǀ adbhutā ǀ cikitvān ǀ abhi ǀ paśyati ǀ
kṛtāni ǀ yā ǀ ca ǀ kartvā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.025.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.18.01
- Maṇḍala · Anuvāka · Ṛk
- 01.06.026
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.