Ṛk 1.25.15
Saṃhitā
उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या ।
अ॒स्माक॑मु॒दरे॒ष्वा ॥
उत यो मानुषेष्व् आ यशश् चक्रे असाम्य् आ |
अस्माकम् उदरेष्व् आ ||
utá yó mā́nuṣeṣvā́ yáśaścakré ásāmyā́ ǀ
asmā́kamudáreṣvā́ ǁ
uta yo mānuṣeṣv ā yaśaś cakre asāmy ā |
asmākam udareṣv ā ||
Padapāṭha
उ॒त । यः । मानु॑षेषु । आ । यशः॑ । च॒क्रे । असा॑मि । आ ।
अ॒स्माक॑म् । उ॒दरे॑षु । आ ॥
उत । यः । मानुषेषु । आ । यशः । चक्रे । असामि । आ ।
अस्माकम् । उदरेषु । आ ॥
utá ǀ yáḥ ǀ mā́nuṣeṣu ǀ ā́ ǀ yáśaḥ ǀ cakré ǀ ásāmi ǀ ā́ ǀ
asmā́kam ǀ udáreṣu ǀ ā́ ǁ
uta ǀ yaḥ ǀ mānuṣeṣu ǀ ā ǀ yaśaḥ ǀ cakre ǀ asāmi ǀ ā ǀ
asmākam ǀ udareṣu ǀ ā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.025.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.18.05
- Maṇḍala · Anuvāka · Ṛk
- 01.06.030
- Devatā देवता
- Varuṇa
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.