Sūkta 19
- Devatā देवता
- Agni, Maruts
- Ṛṣi ऋषि
- Medhātithi Kāṇva
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 3-8); nicṛdgāyatrī (2); pipīlikāmadhyānicṛdgāyatrī (9)
2nd set of styles gāyatrī
-
Ṛk 1
प्रति॒ त्यं चारु॑मध्व॒रं गो॑पी॒थाय॒ प्र हू॑यसे ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥प्रति त्यं चारुम् अध्वरं गोपीथाय प्र हूयसे |
मरुद्भिर् अग्न आ गहि ||práti tyám cā́rumadhvarám gopīthā́ya prá hūyase ǀ
marúdbhiragna ā́ gahi ǁprati tyaṃ cārum adhvaraṃ gopīthāya pra hūyase |
marudbhir agna ā gahi ||प्रति॑ । त्यम् । चारु॑म् । अ॒ध्व॒रम् । गो॒ऽपी॒थाय॑ । प्र । हू॒य॒से॒ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥प्रति । त्यम् । चारुम् । अध्वरम् । गोऽपीथाय । प्र । हूयसे ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥práti ǀ tyám ǀ cā́rum ǀ adhvarám ǀ go-pīthā́ya ǀ prá ǀ hūyase ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁprati ǀ tyam ǀ cārum ǀ adhvaram ǀ go-pīthāya ǀ pra ǀ hūyase ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.1 Aṣṭaka 1.1.36.1Anuvāka 1.5.10
-
Ṛk 2
न॒हि दे॒वो न मर्त्यो॑ म॒हस्तव॒ क्रतुं॑ प॒रः ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥नहि देवो न मर्त्यो महस् तव क्रतुम् परः |
मरुद्भिर् अग्न आ गहि ||nahí devó ná mártyo mahástáva krátum paráḥ ǀ
marúdbhiragna ā́ gahi ǁnahi devo na martyo mahas tava kratum paraḥ |
marudbhir agna ā gahi ||न॒हि । दे॒वः । न । मर्त्यः॑ । म॒हः । तव॑ । क्रतु॑म् । प॒रः ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥नहि । देवः । न । मर्त्यः । महः । तव । क्रतुम् । परः ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥nahí ǀ deváḥ ǀ ná ǀ mártyaḥ ǀ maháḥ ǀ táva ǀ krátum ǀ paráḥ ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁnahi ǀ devaḥ ǀ na ǀ martyaḥ ǀ mahaḥ ǀ tava ǀ kratum ǀ paraḥ ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.2 Aṣṭaka 1.1.36.2Anuvāka 1.5.11
-
Ṛk 3
ये म॒हो रज॑सो वि॒दुर्विश्वे॑ दे॒वासो॑ अ॒द्रुहः॑ ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥ये महो रजसो विदुर् विश्वे देवासो अद्रुहः |
मरुद्भिर् अग्न आ गहि ||yé mahó rájaso vidúrvíśve devā́so adrúhaḥ ǀ
marúdbhiragna ā́ gahi ǁye maho rajaso vidur viśve devāso adruhaḥ |
marudbhir agna ā gahi ||ये । म॒हः । रज॑सः । वि॒दुः । विश्वे॑ । दे॒वासः॑ । अ॒द्रुहः॑ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । महः । रजसः । विदुः । विश्वे । देवासः । अद्रुहः ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥yé ǀ maháḥ ǀ rájasaḥ ǀ vidúḥ ǀ víśve ǀ devā́saḥ ǀ adrúhaḥ ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁye ǀ mahaḥ ǀ rajasaḥ ǀ viduḥ ǀ viśve ǀ devāsaḥ ǀ adruhaḥ ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.3 Aṣṭaka 1.1.36.3Anuvāka 1.5.12
-
Ṛk 4
य उ॒ग्रा अ॒र्कमा॑नृ॒चुरना॑धृष्टास॒ ओज॑सा ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥य उग्रा अर्कम् आनृचुर् अनाधृष्टास ओजसा |
मरुद्भिर् अग्न आ गहि ||yá ugrā́ arkámānṛcúránādhṛṣṭāsa ójasā ǀ
marúdbhiragna ā́ gahi ǁya ugrā arkam ānṛcur anādhṛṣṭāsa ojasā |
marudbhir agna ā gahi ||ये । उ॒ग्राः । अ॒र्कम् । आ॒नृ॒चुः । अना॑धृष्टासः । ओज॑सा ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । उग्राः । अर्कम् । आनृचुः । अनाधृष्टासः । ओजसा ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥yé ǀ ugrā́ḥ ǀ arkám ǀ ānṛcúḥ ǀ ánādhṛṣṭāsaḥ ǀ ójasā ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁye ǀ ugrāḥ ǀ arkam ǀ ānṛcuḥ ǀ anādhṛṣṭāsaḥ ǀ ojasā ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.4 Aṣṭaka 1.1.36.4Anuvāka 1.5.13
-
Ṛk 5
ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो॑ रि॒शाद॑सः ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः |
मरुद्भिर् अग्न आ गहि ||yé śubhrā́ ghorávarpasaḥ sukṣatrā́so riśā́dasaḥ ǀ
marúdbhiragna ā́ gahi ǁye śubhrā ghoravarpasaḥ sukṣatrāso riśādasaḥ |
marudbhir agna ā gahi ||ये । शु॒भ्राः । घो॒रऽव॑र्पसः । सु॒ऽक्ष॒त्रासः॑ । रि॒शाद॑सः ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । शुभ्राः । घोरऽवर्पसः । सुऽक्षत्रासः । रिशादसः ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥yé ǀ śubhrā́ḥ ǀ ghorá-varpasaḥ ǀ su-kṣatrā́saḥ ǀ riśā́dasaḥ ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁye ǀ śubhrāḥ ǀ ghora-varpasaḥ ǀ su-kṣatrāsaḥ ǀ riśādasaḥ ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.5 Aṣṭaka 1.1.36.5Anuvāka 1.5.14
-
Ṛk 6
ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥ये नाकस्याधि रोचने दिवि देवास आसते |
मरुद्भिर् अग्न आ गहि ||yé nā́kasyā́dhi rocané diví devā́sa ā́sate ǀ
marúdbhiragna ā́ gahi ǁye nākasyādhi rocane divi devāsa āsate |
marudbhir agna ā gahi ||ये । नाक॑स्य । अधि॑ । रो॒च॒ने । दि॒वि । दे॒वासः॑ । आस॑ते ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । नाकस्य । अधि । रोचने । दिवि । देवासः । आसते ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥yé ǀ nā́kasya ǀ ádhi ǀ rocané ǀ diví ǀ devā́saḥ ǀ ā́sate ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁye ǀ nākasya ǀ adhi ǀ rocane ǀ divi ǀ devāsaḥ ǀ āsate ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.6 Aṣṭaka 1.1.37.1Anuvāka 1.5.15
-
Ṛk 7
य ईं॒खयं॑ति॒ पर्व॑तांति॒रः स॑मु॒द्रम॑र्ण॒वं ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥य ईङ्खयन्ति पर्वतान् तिरः समुद्रम् अर्णवम् |
मरुद्भिर् अग्न आ गहि ||yá īṅkháyanti párvatāntiráḥ samudrámarṇavám ǀ
marúdbhiragna ā́ gahi ǁya īṅkhayanti parvatān tiraḥ samudram arṇavam |
marudbhir agna ā gahi ||ये । ई॒ङ्खय॑न्ति । पर्व॑तान् । ति॒रः । स॒मु॒द्रम् । अ॒र्ण॒वम् ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥ये । ईङ्खयन्ति । पर्वतान् । तिरः । समुद्रम् । अर्णवम् ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥yé ǀ īṅkháyanti ǀ párvatān ǀ tiráḥ ǀ samudrám ǀ arṇavám ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁye ǀ īṅkhayanti ǀ parvatān ǀ tiraḥ ǀ samudram ǀ arṇavam ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.7 Aṣṭaka 1.1.37.2Anuvāka 1.5.16
-
Ṛk 8
आ ये त॒न्वंति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥आ ये तन्वन्ति रश्मिभिस् तिरः समुद्रम् ओजसा |
मरुद्भिर् अग्न आ गहि ||ā́ yé tanvánti raśmíbhistiráḥ samudrámójasā ǀ
marúdbhiragna ā́ gahi ǁā ye tanvanti raśmibhis tiraḥ samudram ojasā |
marudbhir agna ā gahi ||आ । ये । त॒न्वन्ति॑ । र॒श्मिऽभिः॑ । ति॒रः । स॒मु॒द्रम् । ओज॑सा ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥आ । ये । तन्वन्ति । रश्मिऽभिः । तिरः । समुद्रम् । ओजसा ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥ā́ ǀ yé ǀ tanvánti ǀ raśmí-bhiḥ ǀ tiráḥ ǀ samudrám ǀ ójasā ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁā ǀ ye ǀ tanvanti ǀ raśmi-bhiḥ ǀ tiraḥ ǀ samudram ǀ ojasā ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.8 Aṣṭaka 1.1.37.3Anuvāka 1.5.17
-
Ṛk 9
अ॒भि त्वा॑ पू॒र्वपी॑तये सृ॒जामि॑ सो॒म्यं मधु॑ ।
म॒रुद्भि॑रग्न॒ आ ग॑हि ॥अभि त्वा पूर्वपीतये सृजामि सोम्यम् मधु |
मरुद्भिर् अग्न आ गहि ||abhí tvā pūrvápītaye sṛjā́mi somyám mádhu ǀ
marúdbhiragna ā́ gahi ǁabhi tvā pūrvapītaye sṛjāmi somyam madhu |
marudbhir agna ā gahi ||अ॒भि । त्वा॒ । पू॒र्वऽपी॑तये । सृ॒जामि॑ । सो॒म्यम् । मधु॑ ।
म॒रुत्ऽभिः॑ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥अभि । त्वा । पूर्वऽपीतये । सृजामि । सोम्यम् । मधु ।
मरुत्ऽभिः । अग्ने । आ । गहि ॥abhí ǀ tvā ǀ pūrvá-pītaye ǀ sṛjā́mi ǀ somyám ǀ mádhu ǀ
marút-bhiḥ ǀ agne ǀ ā́ ǀ gahi ǁabhi ǀ tvā ǀ pūrva-pītaye ǀ sṛjāmi ǀ somyam ǀ madhu ǀ
marut-bhiḥ ǀ agne ǀ ā ǀ gahi ǁ1.19.9 Aṣṭaka 1.1.37.4Anuvāka 1.5.18
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.