Sūkta 65
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (6-10); nicṛtpaṅkti (2, 3, 5); paṅktiḥ (1); virāṭpaṅkti (4)
2nd set of styles dvipadā virāj
-
Ṛk 1
प॒श्वा न ता॒युं गुहा॒ चतं॑तं॒ नमो॑ युजा॒नं नमो॒ वहं॑तं ॥
पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ||
paśvā́ ná tāyúm gúhā cátantam námo yujānám námo váhantam ǁ
paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam ||
प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥
पश्वा । न । तायुम् । गुहा । चतन्तम् । नमः । युजानम् । नमः । वहन्तम् ॥
paśvā́ ǀ ná ǀ tāyúm ǀ gúhā ǀ cátantam ǀ námaḥ ǀ yujānám ǀ námaḥ ǀ váhantam ǁ
paśvā ǀ na ǀ tāyum ǀ guhā ǀ catantam ǀ namaḥ ǀ yujānam ǀ namaḥ ǀ vahantam ǁ
1.65.1 Aṣṭaka 1.5.9.0
-
Ṛk 2
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
सजोषा धीराः पदैर् अनु ग्मन्न् उप त्वा सीदन् विश्वे यजत्राः ||
sajóṣā dhī́rāḥ padáiránu gmannúpa tvā sīdanvíśve yájatrāḥ ǁ
sajoṣā dhīrāḥ padair anu gmann upa tvā sīdan viśve yajatrāḥ ||
स॒ऽजोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥
सऽजोषाः । धीराः । पदैः । अनु । ग्मन् । उप । त्वा । सीदन् । विश्वे । यजत्राः ॥
sa-jóṣāḥ ǀ dhī́rāḥ ǀ padáiḥ ǀ ánu ǀ gman ǀ úpa ǀ tvā ǀ sīdan ǀ víśve ǀ yájatrāḥ ǁ
sa-joṣāḥ ǀ dhīrāḥ ǀ padaiḥ ǀ anu ǀ gman ǀ upa ǀ tvā ǀ sīdan ǀ viśve ǀ yajatrāḥ ǁ
1.65.2 Aṣṭaka 1.5.9.0
-
Ṛk 3
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
ऋतस्य देवा अनु व्रता गुर् भुवत् परिष्टिर् द्यौर् न भूम ||
ṛtásya devā́ ánu vratā́ gurbhúvatpáriṣṭirdyáurná bhū́ma ǁ
ṛtasya devā anu vratā gur bhuvat pariṣṭir dyaur na bhūma ||
ऋ॒तस्य॑ । दे॒वाः । अनु॑ । व्र॒ता । गुः॒ । भुव॑त् । परि॑ष्टिः । द्यौः । न । भूम॑ ॥
ऋतस्य । देवाः । अनु । व्रता । गुः । भुवत् । परिष्टिः । द्यौः । न । भूम ॥
ṛtásya ǀ devā́ḥ ǀ ánu ǀ vratā́ ǀ guḥ ǀ bhúvat ǀ páriṣṭiḥ ǀ dyáuḥ ǀ ná ǀ bhū́ma ǁ
ṛtasya ǀ devāḥ ǀ anu ǀ vratā ǀ guḥ ǀ bhuvat ǀ pariṣṭiḥ ǀ dyauḥ ǀ na ǀ bhūma ǁ
1.65.3 Aṣṭaka 1.5.9.0
-
Ṛk 4
वर्धं॑ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तं ॥
वर्धन्तीम् आपः पन्वा सुशिश्विम् ऋतस्य योना गर्भे सुजातम् ||
várdhantīmā́paḥ panvā́ súśiśvimṛtásya yónā gárbhe sújātam ǁ
vardhantīm āpaḥ panvā suśiśvim ṛtasya yonā garbhe sujātam ||
वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥
वर्धन्ति । ईम् । आपः । पन्वा । सुऽशिश्विम् । ऋतस्य । योना । गर्भे । सुऽजातम् ॥
várdhanti ǀ īm ǀ ā́paḥ ǀ panvā́ ǀ sú-śiśvim ǀ ṛtásya ǀ yónā ǀ gárbhe ǀ sú-jātam ǁ
vardhanti ǀ īm ǀ āpaḥ ǀ panvā ǀ su-śiśvim ǀ ṛtasya ǀ yonā ǀ garbhe ǀ su-jātam ǁ
1.65.4 Aṣṭaka 1.5.9.0
-
Ṛk 5
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न शं॒भु ॥
पुष्टिर् न रण्वा क्षितिर् न पृथ्वी गिरिर् न भुज्म क्षोदो न शम्भु ||
puṣṭírná raṇvā́ kṣitírná pṛthvī́ girírná bhújma kṣódo ná śambhú ǁ
puṣṭir na raṇvā kṣitir na pṛthvī girir na bhujma kṣodo na śambhu ||
पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म॑ । क्षोदः॑ । न । श॒म्ऽभु ॥
पुष्टिः । न । रण्वा । क्षितिः । न । पृथ्वी । गिरिः । न । भुज्म । क्षोदः । न । शम्ऽभु ॥
puṣṭíḥ ǀ ná ǀ raṇvā́ ǀ kṣitíḥ ǀ ná ǀ pṛthvī́ ǀ giríḥ ǀ ná ǀ bhújma ǀ kṣódaḥ ǀ ná ǀ śam-bhú ǁ
puṣṭiḥ ǀ na ǀ raṇvā ǀ kṣitiḥ ǀ na ǀ pṛthvī ǀ giriḥ ǀ na ǀ bhujma ǀ kṣodaḥ ǀ na ǀ śam-bhu ǁ
1.65.5 Aṣṭaka 1.5.9.0
-
Ṛk 6
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिंधु॒र्न क्षोदः॒ क ईं॑ वराते ॥
अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ||
átyo nā́jmantsárgaprataktaḥ síndhurná kṣódaḥ ká īm varāte ǁ
atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte ||
अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥
अत्यः । न । अज्मन् । सर्गऽप्रतक्तः । सिन्धुः । न । क्षोदः । कः । ईम् । वराते ॥
átyaḥ ǀ ná ǀ ájman ǀ sárga-prataktaḥ ǀ síndhuḥ ǀ ná ǀ kṣódaḥ ǀ káḥ ǀ īm ǀ varāte ǁ
atyaḥ ǀ na ǀ ajman ǀ sarga-prataktaḥ ǀ sindhuḥ ǀ na ǀ kṣodaḥ ǀ kaḥ ǀ īm ǀ varāte ǁ
1.65.6 Aṣṭaka 1.5.9.0
-
Ṛk 7
जा॒मिः सिंधू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
जामिः सिन्धूनाम् भ्रातेव स्वस्राम् इभ्यान् न राजा वनान्य् अत्ति ||
jāmíḥ síndhūnām bhrā́teva svásrāmíbhyānná rā́jā vánānyatti ǁ
jāmiḥ sindhūnām bhrāteva svasrām ibhyān na rājā vanāny atti ||
जा॒मिः । सिन्धू॑नाम् । भ्राता॑ऽइव । स्वस्रा॑म् । इभ्या॑न् । न । राजा॑ । वना॑नि । अ॒त्ति॒ ॥
जामिः । सिन्धूनाम् । भ्राताऽइव । स्वस्राम् । इभ्यान् । न । राजा । वनानि । अत्ति ॥
jāmíḥ ǀ síndhūnām ǀ bhrā́tā-iva ǀ svásrām ǀ íbhyān ǀ ná ǀ rā́jā ǀ vánāni ǀ atti ǁ
jāmiḥ ǀ sindhūnām ǀ bhrātā-iva ǀ svasrām ǀ ibhyān ǀ na ǀ rājā ǀ vanāni ǀ atti ǁ
1.65.7 Aṣṭaka 1.5.9.0
-
Ṛk 8
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
यद् वातजूतो वना व्य् अस्थाद् अग्निर् ह दाति रोमा पृथिव्याः ||
yádvā́tajūto vánā vyásthādagnírha dāti rómā pṛthivyā́ḥ ǁ
yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ ||
यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥
यत् । वातऽजूतः । वना । वि । अस्थात् । अग्निः । ह । दाति । रोम । पृथिव्याः ॥
yát ǀ vā́ta-jūtaḥ ǀ vánā ǀ ví ǀ ásthāt ǀ agníḥ ǀ ha ǀ dāti ǀ róma ǀ pṛthivyā́ḥ ǁ
yat ǀ vāta-jūtaḥ ǀ vanā ǀ vi ǀ asthāt ǀ agniḥ ǀ ha ǀ dāti ǀ roma ǀ pṛthivyāḥ ǁ
1.65.8 Aṣṭaka 1.5.9.0
-
Ṛk 9
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न् क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
श्वसित्य् अप्सु हंसो न सीदन् क्रत्वा चेतिष्ठो विशाम् उषर्भुत् ||
śvásityapsú haṃsó ná sī́dan krátvā cétiṣṭho viśā́muṣarbhút ǁ
śvasity apsu haṃso na sīdan kratvā cetiṣṭho viśām uṣarbhut ||
श्वसि॑ति । अ॒प्ऽसु । हं॒सः । न । सीद॑न् । क्रत्वा॑ । चेति॑ष्ठः । वि॒शाम् । उ॒षः॒ऽभुत् ॥
श्वसिति । अप्ऽसु । हंसः । न । सीदन् । क्रत्वा । चेतिष्ठः । विशाम् । उषःऽभुत् ॥
śvásiti ǀ ap-sú ǀ haṃsáḥ ǀ ná ǀ sī́dan ǀ krátvā ǀ cétiṣṭhaḥ ǀ viśā́m ǀ uṣaḥ-bhút ǁ
śvasiti ǀ ap-su ǀ haṃsaḥ ǀ na ǀ sīdan ǀ kratvā ǀ cetiṣṭhaḥ ǀ viśām ǀ uṣaḥ-bhut ǁ
1.65.9 Aṣṭaka 1.5.9.0
-
Ṛk 10
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ||
sómo ná vedhā́ ṛtáprajātaḥ paśúrná śíśvā vibhúrdūrébhāḥ ǁ
somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ ||
सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥
सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा । विऽभुः । दूरेऽभाः ॥
sómaḥ ǀ ná ǀ vedhā́ḥ ǀ ṛtá-prajātaḥ ǀ paśúḥ ǀ ná ǀ śíśvā ǀ vi-bhúḥ ǀ dūré-bhāḥ ǁ
somaḥ ǀ na ǀ vedhāḥ ǀ ṛta-prajātaḥ ǀ paśuḥ ǀ na ǀ śiśvā ǀ vi-bhuḥ ǀ dūre-bhāḥ ǁ
1.65.10 Aṣṭaka 1.5.9.1
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.