Ṛgveda · Maṇḍala 1 · Sūkta 65

Ṛk 1.65.6

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिंधु॒र्न क्षोदः॒ क ईं॑ वराते ॥

अत्यो नाज्मन् सर्गप्रतक्तः सिन्धुर् न क्षोदः क ईं वराते ||

átyo nā́jmantsárgaprataktaḥ síndhurná kṣódaḥ ká īm varāte ǁ

atyo nājman sargaprataktaḥ sindhur na kṣodaḥ ka īṃ varāte ||

Padapāṭha

अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥

अत्यः । न । अज्मन् । सर्गऽप्रतक्तः । सिन्धुः । न । क्षोदः । कः । ईम् । वराते ॥

átyaḥ ǀ ná ǀ ájman ǀ sárga-prataktaḥ ǀ síndhuḥ ǀ ná ǀ kṣódaḥ ǀ káḥ ǀ īm ǀ varāte ǁ

atyaḥ ǀ na ǀ ajman ǀ sarga-prataktaḥ ǀ sindhuḥ ǀ na ǀ kṣodaḥ ǀ kaḥ ǀ īm ǀ varāte ǁ

References

Maṇḍala · Sūkta · Ṛk
01.065.06
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.09.00
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.65.6

Interpretations

Sāyaṇa

रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिवाग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्याग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गंतव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्नियर्ज्ञेहविर्भिः प्राप्यत इति भावः । पृथ्वी विस्तिर्णा क्षितिर्न भूमिरिवाग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः सर्गफलं भुंजते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान्प्राणिनो भुनक्ति स्वकीयमूलफलादिदानेन पालयति । तद्वदयमपि पापादनुष्ठातृन्प्रमुंचति । तथा चाम्नायते । अग्निर्मा तस्मादेनसः प्र मुंचत्विति । शंभु सुखकरं क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । अज्मन् । संग्रामनामैतत् । अज्मनि संगामेऽत्यो न सतत गमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हंतव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून्हंतुं शीघ्रं गच्छतीति भावः । अपि च सिंधुर्नक्षोदः । स्यंदनशीलमुदकमिवायमपि शीघ्रगामी । यथा निम्नप्रेदेशाभिमुखो जलप्रवाहो दुर्निर्वारः । तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मादीमेनमग्निं को वराते । को वारयेत् । कोऽपि वारयितं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः । रण्व्यते प्राप्यत इति रण्वः कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मणि पचाद्यच् । भुज्म । भुज पालनाभ्यवहारयोः । इषियुधींधीति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुगिति सोर्लुक् । अज्मन् । अज गतिक्षेपणयोः मनिनि वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । सर्गप्रतक्तः । सृजविसर्ग इत्यस्माद्घञंतः सर्गशब्द आद्युदात्तः । तन्जु गतौ अस्मादंतर्भावितण्यर्थान्निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं । वराते । वृञ् वरणे । अंतर्भावितण्यर्थाल्लेट लेटोऽडाटावित्याडागमः । व्यत्ययेन शप् । वृतोऽन्यत्र । पा ३-४-९४ । इत्यैत्वस्य एकल्पितत्वादभावः ॥ ५ ॥ ६ ॥