Ṛgveda · Maṇḍala 1 · Sūkta 65

Ṛk 1.65.10

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥

सोमो न वेधा ऋतप्रजातः पशुर् न शिश्वा विभुर् दूरेभाः ||

sómo ná vedhā́ ṛtáprajātaḥ paśúrná śíśvā vibhúrdūrébhāḥ ǁ

somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ ||

Padapāṭha

सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥

सोमः । न । वेधाः । ऋतऽप्रजातः । पशुः । न । शिश्वा । विऽभुः । दूरेऽभाः ॥

sómaḥ ǀ ná ǀ vedhā́ḥ ǀ ṛtá-prajātaḥ ǀ paśúḥ ǀ ná ǀ śíśvā ǀ vi-bhúḥ ǀ dūré-bhāḥ ǁ

somaḥ ǀ na ǀ vedhāḥ ǀ ṛta-prajātaḥ ǀ paśuḥ ǀ na ǀ śiśvā ǀ vi-bhuḥ ǀ dūre-bhāḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
01.065.10
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.09.01
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.65.10

Interpretations

Sāyaṇa

अयमग्निर्देवेभ्यः पलायितः सन्नप्सूदकेषु श्वसिति । प्राणिति । निगूढो वर्तत इत्यर्थः । तत्र दृष्टांतः । हंसो न सीदन् । उदकमध्य उपविशन्हंस इव । कीदृशोऽग्निः । क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठोऽतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अंधकारावृतं सर्वमग्नेः प्रकाशाज्जानंति । उषर्भुत् उषस्युषःकालेऽग्नि होत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । सोमो वा ओषधीनां राजा । तै सं ६-१-९-१ । इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तरीयकं । अग्निरन्नादोऽन्नपतिरिति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातं । एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इति । ऋतप्रजातः । ऋतमित्युदकनाम । ऋतावुदकात्प्रादुर्भूतः पशुर्न शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन्विभुः प्रभूतः संपन्नः । यद्वा । शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभू तावयवो जात इत्यर्थः । दूरेभाः । दूरे विप्रकृष्वदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसितीति पूर्वेण संबंधः ॥ श्वसिति । श्वस प्राणने । अदादित्वाच्छपो लुक् । रुदादिभ्यः सार्वधातुके । पा ७-२-७६ । इतीडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । शिष्यते । क्रत्वा । जसादिषु च्छंदसि वावचनमिति नाभावाभावः । उषसि बुध्यत इत्युषर्भुत् । बुध अवगमने । क्विप्चेति क्विप् । एकाचो बश इति भष्भावः । अहरादीनां पत्यादिषूपसंख्यानं । म ८-२-७० । इति सकारस्य रेफादेशः । शिश्वा । शो तनूकरणे । आदेच इत्यात्वं । शः कित्सन्वच्च । उ १-२१ । इत्युप्रत्ययः । सन्वद्भावाद्द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वं । किद्वद्भावादातो लोप इट चेत्याकारलोपः । प्रथमपक्षे सुपां सुलुगिति सोराकारः । द्वितीये तु पूर्ववन्नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलमिति बहुव्रीहावपि बहुलवचनादलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥