Sūkta 148
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles paṅktiḥ (1, 2); nicṛttriṣṭup (3, 4); svarāṭpaṅkti (5)
2nd set of styles triṣṭubh
-
Ṛk 1
मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यं ।
नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भावं॑ ॥मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् |
नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ||máthīdyádīm viṣṭó mātaríśvā hótāram viśvā́psum viśvádevyam ǀ
ní yám dadhúrmanuṣyā́su vikṣú svárṇá citrám vápuṣe vibhā́vam ǁmathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam |
ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam ||मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् ।
नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्वऽअप्सुम् । विश्वऽदेव्यम् ।
नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभाऽवम् ॥máthīt ǀ yát ǀ īm ǀ viṣṭáḥ ǀ mātaríśvā ǀ hótāram ǀ viśvá-apsum ǀ viśvá-devyam ǀ
ní ǀ yám ǀ dadhúḥ ǀ manuṣyā́su ǀ vikṣú ǀ sváḥ ǀ ná ǀ citrám ǀ vápuṣe ǀ vibhā́-vam ǁmathīt ǀ yat ǀ īm ǀ viṣṭaḥ ǀ mātariśvā ǀ hotāram ǀ viśva-apsum ǀ viśva-devyam ǀ
ni ǀ yam ǀ dadhuḥ ǀ manuṣyāsu ǀ vikṣu ǀ svaḥ ǀ na ǀ citram ǀ vapuṣe ǀ vibhā-vam ǁ1.148.1 Aṣṭaka 2.2.17.1Anuvāka 1.21.70
-
Ṛk 2
द॒दा॒नमिन्न द॑दभंत॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।
जु॒षंत॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् |
जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ||dadānámínná dadabhanta mánmāgnírvárūtham máma tásya cākan ǀ
juṣánta víśvānyasya kármópastutim bháramāṇasya kāróḥ ǁdadānam in na dadabhanta manmāgnir varūtham mama tasya cākan |
juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ ||द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ । चा॒क॒न् ।
जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्य । चाकन् ।
जुषन्त । विश्वानि । अस्य । कर्म । उपऽस्तुतिम् । भरमाणस्य । कारोः ॥dadānám ǀ ít ǀ ná ǀ dadabhanta ǀ mánma ǀ agníḥ ǀ várūtham ǀ máma ǀ tásya ǀ cākan ǀ
juṣánta ǀ víśvāni ǀ asya ǀ kárma ǀ úpa-stutim ǀ bháramāṇasya ǀ kāróḥ ǁdadānam ǀ it ǀ na ǀ dadabhanta ǀ manma ǀ agniḥ ǀ varūtham ǀ mama ǀ tasya ǀ cākan ǀ
juṣanta ǀ viśvāni ǀ asya ǀ karma ǀ upa-stutim ǀ bharamāṇasya ǀ kāroḥ ǁ1.148.2 Aṣṭaka 2.2.17.2Anuvāka 1.21.71
-
Ṛk 3
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।
प्र सू न॑यंत गृ॒भयं॑त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः |
प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ||nítye cinnú yám sádane jagṛbhré práśastibhirdadhiré yajñíyāsaḥ ǀ
prá sū́ nayanta gṛbháyanta iṣṭā́váśvāso ná rathyó rārahāṇā́ḥ ǁnitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ |
pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ ||नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्तिऽभिः । दधिरे । यज्ञियासः ।
प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः ॥nítye ǀ cit ǀ nú ǀ yám ǀ sádane ǀ jagṛbhré ǀ práśasti-bhiḥ ǀ dadhiré ǀ yajñíyāsaḥ ǀ
prá ǀ sú ǀ nayanta ǀ gṛbháyantaḥ ǀ iṣṭáu ǀ áśvāsaḥ ǀ ná ǀ rathyáḥ ǀ rarahāṇā́ḥ ǁnitye ǀ cit ǀ nu ǀ yam ǀ sadane ǀ jagṛbhre ǀ praśasti-bhiḥ ǀ dadhire ǀ yajñiyāsaḥ ǀ
pra ǀ su ǀ nayanta ǀ gṛbhayantaḥ ǀ iṣṭau ǀ aśvāsaḥ ǀ na ǀ rathyaḥ ǀ rarahāṇāḥ ǁ1.148.3 Aṣṭaka 2.2.17.3Anuvāka 1.21.72
-
Ṛk 4
पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जंभै॒राद्रो॑चते॒ वन॒ आ वि॒भावा॑ ।
आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या॑मस॒नामनु॒ द्यून् ॥पुरूणि दस्मो नि रिणाति जम्भैर् आद् रोचते वन आ विभावा |
आद् अस्य वातो अनु वाति शोचिर् अस्तुर् न शर्याम् असनाम् अनु द्यून् ||purū́ṇi dasmó ní riṇāti jámbhairā́drocate vána ā́ vibhā́vā ǀ
ā́dasya vā́to ánu vāti śocírásturná śáryāmasanā́mánu dyū́n ǁpurūṇi dasmo ni riṇāti jambhair ād rocate vana ā vibhāvā |
ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn ||पु॒रूणि॑ । द॒स्मः । नि । रि॒णा॒ति॒ । जम्भैः॑ । आत् । रो॒च॒ते॒ । वने॑ । आ । वि॒भाऽवा॑ ।
आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अस्तुः॑ । न । शर्या॑म् । अ॒स॒नाम् । अनु॑ । द्यून् ॥पुरूणि । दस्मः । नि । रिणाति । जम्भैः । आत् । रोचते । वने । आ । विभाऽवा ।
आत् । अस्य । वातः । अनु । वाति । शोचिः । अस्तुः । न । शर्याम् । असनाम् । अनु । द्यून् ॥purū́ṇi ǀ dasmáḥ ǀ ní ǀ riṇāti ǀ jámbhaiḥ ǀ ā́t ǀ rocate ǀ váne ǀ ā́ ǀ vibhā́-vā ǀ
ā́t ǀ asya ǀ vā́taḥ ǀ ánu ǀ vāti ǀ śocíḥ ǀ ástuḥ ǀ ná ǀ śáryām ǀ asanā́m ǀ ánu ǀ dyū́n ǁpurūṇi ǀ dasmaḥ ǀ ni ǀ riṇāti ǀ jambhaiḥ ǀ āt ǀ rocate ǀ vane ǀ ā ǀ vibhā-vā ǀ
āt ǀ asya ǀ vātaḥ ǀ anu ǀ vāti ǀ śociḥ ǀ astuḥ ǀ na ǀ śaryām ǀ asanām ǀ anu ǀ dyūn ǁ1.148.4 Aṣṭaka 2.2.17.4Anuvāka 1.21.73
-
Ṛk 5
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ संतं॑ रेष॒णा रे॒षयं॑ति ।
अं॒धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति |
अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ||ná yám ripávo ná riṣaṇyávo gárbhe sántam reṣaṇā́ reṣáyanti ǀ
andhā́ apaśyā́ ná dabhannabhikhyā́ nítyāsa īm pretā́ro arakṣan ǁna yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti |
andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan ||न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति ।
अन्धाः । अपश्याः । न । दभन् । अभिऽख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन् ॥ná ǀ yám ǀ ripávaḥ ǀ ná ǀ riṣaṇyávaḥ ǀ gárbhe ǀ sántam ǀ reṣaṇā́ḥ ǀ reṣáyanti ǀ
andhā́ḥ ǀ apaśyā́ḥ ǀ ná ǀ dabhan ǀ abhi-khyā́ ǀ nítyāsaḥ ǀ īm ǀ pretā́raḥ ǀ arakṣan ǁna ǀ yam ǀ ripavaḥ ǀ na ǀ riṣaṇyavaḥ ǀ garbhe ǀ santam ǀ reṣaṇāḥ ǀ reṣayanti ǀ
andhāḥ ǀ apaśyāḥ ǀ na ǀ dabhan ǀ abhi-khyā ǀ nityāsaḥ ǀ īm ǀ pretāraḥ ǀ arakṣan ǁ1.148.5 Aṣṭaka 2.2.17.5Anuvāka 1.21.74
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.