Ṛgveda · Maṇḍala 1 · Sūkta 148
Ṛk 1.148.1
Saṃhitā
मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यं ।
नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भावं॑ ॥
मथीद् यद् ईं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् |
नि यं दधुर् मनुष्यासु विक्षु स्वर् ण चित्रं वपुषे विभावम् ||
máthīdyádīm viṣṭó mātaríśvā hótāram viśvā́psum viśvádevyam ǀ
ní yám dadhúrmanuṣyā́su vikṣú svárṇá citrám vápuṣe vibhā́vam ǁ
mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam |
ni yaṃ dadhur manuṣyāsu vikṣu svar ṇa citraṃ vapuṣe vibhāvam ||
Padapāṭha
मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् ।
नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥
मथीत् । यत् । ईम् । विष्टः । मातरिश्वा । होतारम् । विश्वऽअप्सुम् । विश्वऽदेव्यम् ।
नि । यम् । दधुः । मनुष्यासु । विक्षु । स्वः । न । चित्रम् । वपुषे । विभाऽवम् ॥
máthīt ǀ yát ǀ īm ǀ viṣṭáḥ ǀ mātaríśvā ǀ hótāram ǀ viśvá-apsum ǀ viśvá-devyam ǀ
ní ǀ yám ǀ dadhúḥ ǀ manuṣyā́su ǀ vikṣú ǀ sváḥ ǀ ná ǀ citrám ǀ vápuṣe ǀ vibhā́-vam ǁ
mathīt ǀ yat ǀ īm ǀ viṣṭaḥ ǀ mātariśvā ǀ hotāram ǀ viśva-apsum ǀ viśva-devyam ǀ
ni ǀ yam ǀ dadhuḥ ǀ manuṣyāsu ǀ vikṣu ǀ svaḥ ǀ na ǀ citram ǀ vapuṣe ǀ vibhā-vam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.148.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.17.01
- Maṇḍala · Anuvāka · Ṛk
- 1.21.070
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.