Ṛgveda · Maṇḍala 1 · Sūkta 148
Ṛk 1.148.5
Saṃhitā
न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ संतं॑ रेष॒णा रे॒षयं॑ति ।
अं॒धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या॑स ईं प्रे॒तारो॑ अरक्षन् ॥
न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति |
अन्धा अपश्या न दभन्न् अभिख्या नित्यास ईम् प्रेतारो अरक्षन् ||
ná yám ripávo ná riṣaṇyávo gárbhe sántam reṣaṇā́ reṣáyanti ǀ
andhā́ apaśyā́ ná dabhannabhikhyā́ nítyāsa īm pretā́ro arakṣan ǁ
na yaṃ ripavo na riṣaṇyavo garbhe santaṃ reṣaṇā reṣayanti |
andhā apaśyā na dabhann abhikhyā nityāsa īm pretāro arakṣan ||
Padapāṭha
न । यम् । रि॒पवः॑ । न । रि॒ष॒ण्यवः॑ । गर्भे॑ । सन्त॑म् । रे॒ष॒णाः । रे॒षय॑न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒ऽख्या । नित्या॑सः । ई॒म् । प्रे॒तारः॑ । अ॒र॒क्ष॒न् ॥
न । यम् । रिपवः । न । रिषण्यवः । गर्भे । सन्तम् । रेषणाः । रेषयन्ति ।
अन्धाः । अपश्याः । न । दभन् । अभिऽख्या । नित्यासः । ईम् । प्रेतारः । अरक्षन् ॥
ná ǀ yám ǀ ripávaḥ ǀ ná ǀ riṣaṇyávaḥ ǀ gárbhe ǀ sántam ǀ reṣaṇā́ḥ ǀ reṣáyanti ǀ
andhā́ḥ ǀ apaśyā́ḥ ǀ ná ǀ dabhan ǀ abhi-khyā́ ǀ nítyāsaḥ ǀ īm ǀ pretā́raḥ ǀ arakṣan ǁ
na ǀ yam ǀ ripavaḥ ǀ na ǀ riṣaṇyavaḥ ǀ garbhe ǀ santam ǀ reṣaṇāḥ ǀ reṣayanti ǀ
andhāḥ ǀ apaśyāḥ ǀ na ǀ dabhan ǀ abhi-khyā ǀ nityāsaḥ ǀ īm ǀ pretāraḥ ǀ arakṣan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.148.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.17.05
- Maṇḍala · Anuvāka · Ṛk
- 1.21.074
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.