Ṛgveda · Maṇḍala 1 · Sūkta 148
Ṛk 1.148.3
Saṃhitā
नित्ये॑ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया॑सः ।
प्र सू न॑यंत गृ॒भयं॑त इ॒ष्टावश्वा॑सो॒ न र॒थ्यो॑ रारहा॒णाः ॥
नित्ये चिन् नु यं सदने जगृभ्रे प्रशस्तिभिर् दधिरे यज्ञियासः |
प्र सू नयन्त गृभयन्त इष्टाव् अश्वासो न रथ्यो रारहाणाः ||
nítye cinnú yám sádane jagṛbhré práśastibhirdadhiré yajñíyāsaḥ ǀ
prá sū́ nayanta gṛbháyanta iṣṭā́váśvāso ná rathyó rārahāṇā́ḥ ǁ
nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ |
pra sū nayanta gṛbhayanta iṣṭāv aśvāso na rathyo rārahāṇāḥ ||
Padapāṭha
नित्ये॑ । चि॒त् । नु । यम् । सद॑ने । ज॒गृ॒भ्रे । प्रश॑स्तिऽभिः । द॒धि॒रे । य॒ज्ञिया॑सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय॑न्तः । इ॒ष्टौ । अश्वा॑सः । न । र॒थ्यः॑ । र॒र॒हा॒णाः ॥
नित्ये । चित् । नु । यम् । सदने । जगृभ्रे । प्रशस्तिऽभिः । दधिरे । यज्ञियासः ।
प्र । सु । नयन्त । गृभयन्तः । इष्टौ । अश्वासः । न । रथ्यः । ररहाणाः ॥
nítye ǀ cit ǀ nú ǀ yám ǀ sádane ǀ jagṛbhré ǀ práśasti-bhiḥ ǀ dadhiré ǀ yajñíyāsaḥ ǀ
prá ǀ sú ǀ nayanta ǀ gṛbháyantaḥ ǀ iṣṭáu ǀ áśvāsaḥ ǀ ná ǀ rathyáḥ ǀ rarahāṇā́ḥ ǁ
nitye ǀ cit ǀ nu ǀ yam ǀ sadane ǀ jagṛbhre ǀ praśasti-bhiḥ ǀ dadhire ǀ yajñiyāsaḥ ǀ
pra ǀ su ǀ nayanta ǀ gṛbhayantaḥ ǀ iṣṭau ǀ aśvāsaḥ ǀ na ǀ rathyaḥ ǀ rarahāṇāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.148.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.17.03
- Maṇḍala · Anuvāka · Ṛk
- 1.21.072
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.