Ṛgveda · Maṇḍala 1 · Sūkta 148
Ṛk 1.148.2
Saṃhitā
द॒दा॒नमिन्न द॑दभंत॒ मन्मा॒ग्निर्वरू॑थं॒ मम॒ तस्य॑ चाकन् ।
जु॒षंत॒ विश्वा॑न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ॥
ददानम् इन् न ददभन्त मन्माग्निर् वरूथम् मम तस्य चाकन् |
जुषन्त विश्वान्य् अस्य कर्मोपस्तुतिम् भरमाणस्य कारोः ||
dadānámínná dadabhanta mánmāgnírvárūtham máma tásya cākan ǀ
juṣánta víśvānyasya kármópastutim bháramāṇasya kāróḥ ǁ
dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan |
juṣanta viśvāny asya karmopastutim bharamāṇasya kāroḥ ||
Padapāṭha
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म॑ । अ॒ग्निः । वरू॑थम् । मम॑ । तस्य॑ । चा॒क॒न् ।
जु॒षन्त॑ । विश्वा॑नि । अ॒स्य॒ । कर्म॑ । उप॑ऽस्तुतिम् । भर॑माणस्य । का॒रोः ॥
ददानम् । इत् । न । ददभन्त । मन्म । अग्निः । वरूथम् । मम । तस्य । चाकन् ।
जुषन्त । विश्वानि । अस्य । कर्म । उपऽस्तुतिम् । भरमाणस्य । कारोः ॥
dadānám ǀ ít ǀ ná ǀ dadabhanta ǀ mánma ǀ agníḥ ǀ várūtham ǀ máma ǀ tásya ǀ cākan ǀ
juṣánta ǀ víśvāni ǀ asya ǀ kárma ǀ úpa-stutim ǀ bháramāṇasya ǀ kāróḥ ǁ
dadānam ǀ it ǀ na ǀ dadabhanta ǀ manma ǀ agniḥ ǀ varūtham ǀ mama ǀ tasya ǀ cākan ǀ
juṣanta ǀ viśvāni ǀ asya ǀ karma ǀ upa-stutim ǀ bharamāṇasya ǀ kāroḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.148.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.2.17.02
- Maṇḍala · Anuvāka · Ṛk
- 1.21.071
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Dīrghatamas Aucathya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.