Sūkta 169
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Virāj
Metres by ṛk
1st set of styles bhurikpaṅkti (1, 3); svarāṭpaṅkti (5, 6); nicṛttriṣṭup (7, 8); paṅktiḥ (2); brāhmyuṣnik (4)
2nd set of styles triṣṭubh (1, 3-8); virāj (2)
-
Ṛk 1
म॒हश्चि॒त्त्वमिं॑द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता ।
स नो॑ वेधो म॒रुतां॑ चिकि॒त्वान्त्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा॑ ॥महश् चित् त्वम् इन्द्र यत एतान् महश् चिद् असि त्यजसो वरूता |
स नो वेधो मरुतां चिकित्वान् सुम्ना वनुष्व तव हि प्रेष्ठा ||maháścittvámindra yatá etā́nmaháścidasi tyájaso varūtā́ ǀ
sá no vedho marútām cikitvā́ntsumnā́ vanuṣva táva hí préṣṭhā ǁmahaś cit tvam indra yata etān mahaś cid asi tyajaso varūtā |
sa no vedho marutāṃ cikitvān sumnā vanuṣva tava hi preṣṭhā ||म॒हः । चि॒त् । त्वम् । इ॒न्द्र॒ । य॒तः । ए॒तान् । म॒हः । चि॒त् । अ॒सि॒ । त्यज॑सः । व॒रू॒ता ।
सः । नः॒ । वे॒धः॒ । म॒रुता॑म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव॑ । हि । प्रेष्ठा॑ ॥महः । चित् । त्वम् । इन्द्र । यतः । एतान् । महः । चित् । असि । त्यजसः । वरूता ।
सः । नः । वेधः । मरुताम् । चिकित्वान् । सुम्ना । वनुष्व । तव । हि । प्रेष्ठा ॥maháḥ ǀ cit ǀ tvám ǀ indra ǀ yatáḥ ǀ etā́n ǀ maháḥ ǀ cit ǀ asi ǀ tyájasaḥ ǀ varūtā́ ǀ
sáḥ ǀ naḥ ǀ vedhaḥ ǀ marútām ǀ cikitvā́n ǀ sumnā́ ǀ vanuṣva ǀ táva ǀ hí ǀ préṣṭhā ǁmahaḥ ǀ cit ǀ tvam ǀ indra ǀ yataḥ ǀ etān ǀ mahaḥ ǀ cit ǀ asi ǀ tyajasaḥ ǀ varūtā ǀ
saḥ ǀ naḥ ǀ vedhaḥ ǀ marutām ǀ cikitvān ǀ sumnā ǀ vanuṣva ǀ tava ǀ hi ǀ preṣṭhā ǁ1.169.1 Aṣṭaka 2.4.8.0
-
Ṛk 2
अयु॑ज्रंत इंद्र वि॒श्वकृ॑ष्टीर्विदा॒नासो॑ नि॒ष्षिधो॑ मर्त्य॒त्रा ।
म॒रुतां॑ पृत्सु॒तिर्हास॑माना॒ स्व॑र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ॥अयुज्रन् त इन्द्र विश्वकृष्टीर् विदानासो निष्षिधो मर्त्यत्रा |
मरुताम् पृत्सुतिर् हासमाना स्वर्मीऌहस्य प्रधनस्य सातौ ||áyujranta indra viśvákṛṣṭīrvidānā́so niṣṣídho martyatrā́ ǀ
marútām pṛtsutírhā́samānā svármīḷhasya pradhánasya sātáu ǁayujran ta indra viśvakṛṣṭīr vidānāso niṣṣidho martyatrā |
marutām pṛtsutir hāsamānā svarmīḷhasya pradhanasya sātau ||अयु॑ज्रन् । ते । इ॒न्द्र॒ । वि॒श्वऽकृ॑ष्टीः । वि॒दा॒नासः॑ । निः॒ऽसिधः॑ । म॒र्त्य॒ऽत्रा ।
म॒रुता॑म् । पृ॒त्सु॒तिः । हास॑माना । स्वः॑ऽमीळ्हस्य । प्र॒ऽधन॑स्य । सा॒तौ ॥अयुज्रन् । ते । इन्द्र । विश्वऽकृष्टीः । विदानासः । निःऽसिधः । मर्त्यऽत्रा ।
मरुताम् । पृत्सुतिः । हासमाना । स्वःऽमीळ्हस्य । प्रऽधनस्य । सातौ ॥áyujran ǀ té ǀ indra ǀ viśvá-kṛṣṭīḥ ǀ vidānā́saḥ ǀ niḥ-sídhaḥ ǀ martya-trā́ ǀ
marútām ǀ pṛtsutíḥ ǀ hā́samānā ǀ sváḥ-mīḷhasya ǀ pra-dhánasya ǀ sātáu ǁayujran ǀ te ǀ indra ǀ viśva-kṛṣṭīḥ ǀ vidānāsaḥ ǀ niḥ-sidhaḥ ǀ martya-trā ǀ
marutām ǀ pṛtsutiḥ ǀ hāsamānā ǀ svaḥ-mīḷhasya ǀ pra-dhanasya ǀ sātau ǁ1.169.2 Aṣṭaka 2.4.8.0
-
Ṛk 3
अम्य॒क्सा त॑ इंद्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनंति ।
अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति |
अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ||ámyaksā́ ta indra ṛṣṭírasmé sánemyábhvam marúto junanti ǀ
agníściddhí ṣmātasé śuśukvā́nā́po ná dvīpám dádhati práyāṃsi ǁamyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti |
agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi ||अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ ।
अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति ।
अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् । आपः । न । द्वीपम् । दधति । प्रयांसि ॥ámyak ǀ sā́ ǀ te ǀ indra ǀ ṛṣṭíḥ ǀ asmé íti ǀ sánemi ǀ ábhvam ǀ marútaḥ ǀ junanti ǀ
agníḥ ǀ cit ǀ hí ǀ sma ǀ atasé ǀ śuśukvā́n ǀ ā́paḥ ǀ ná ǀ dvīpám ǀ dádhati ǀ práyāṃsi ǁamyak ǀ sā ǀ te ǀ indra ǀ ṛṣṭiḥ ǀ asme iti ǀ sanemi ǀ abhvam ǀ marutaḥ ǀ junanti ǀ
agniḥ ǀ cit ǀ hi ǀ sma ǀ atase ǀ śuśukvān ǀ āpaḥ ǀ na ǀ dvīpam ǀ dadhati ǀ prayāṃsi ǁ1.169.3 Aṣṭaka 2.4.8.0
-
Ṛk 4
त्वं तू न॑ इंद्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिं ।
स्तुत॑श्च॒ यास्ते॑ च॒कनं॑त वा॒योः स्तनं॒ न मध्वः॑ पीपयंत॒ वाजैः॑ ॥त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् |
स्तुतश् च यास् ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ||tvám tū́ na indra tám rayím dā ójiṣṭhayā dákṣiṇayeva rātím ǀ
stútaśca yā́ste cakánanta vāyóḥ stánam ná mádhvaḥ pīpayanta vā́jaiḥ ǁtvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim |
stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ ||त्वम् । तु । नः॒ । इ॒न्द्र॒ । तम् । र॒यिम् । दाः॒ । ओजि॑ष्ठया । दक्षि॑णयाऽइव । रा॒तिम् ।
स्तुतः॑ । च॒ । याः । ते॒ । च॒कन॑न्त । वा॒योः । स्तन॑म् । न । मध्वः॑ । पी॒प॒य॒न्त॒ । वाजैः॑ ॥त्वम् । तु । नः । इन्द्र । तम् । रयिम् । दाः । ओजिष्ठया । दक्षिणयाऽइव । रातिम् ।
स्तुतः । च । याः । ते । चकनन्त । वायोः । स्तनम् । न । मध्वः । पीपयन्त । वाजैः ॥tvám ǀ tú ǀ naḥ ǀ indra ǀ tám ǀ rayím ǀ dāḥ ǀ ójiṣṭhayā ǀ dákṣiṇayā-iva ǀ rātím ǀ
stútaḥ ǀ ca ǀ yā́ḥ ǀ te ǀ cakánanta ǀ vāyóḥ ǀ stánam ǀ ná ǀ mádhvaḥ ǀ pīpayanta ǀ vā́jaiḥ ǁtvam ǀ tu ǀ naḥ ǀ indra ǀ tam ǀ rayim ǀ dāḥ ǀ ojiṣṭhayā ǀ dakṣiṇayā-iva ǀ rātim ǀ
stutaḥ ǀ ca ǀ yāḥ ǀ te ǀ cakananta ǀ vāyoḥ ǀ stanam ǀ na ǀ madhvaḥ ǀ pīpayanta ǀ vājaiḥ ǁ1.169.4 Aṣṭaka 2.4.8.0
-
Ṛk 5
त्वे राय॑ इंद्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः ।
ते षु णो॑ म॒रुतो॑ मृळयंतु॒ ये स्मा॑ पु॒रा गा॑तू॒यंती॑व दे॒वाः ॥त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिद् ऋतायोः |
ते षु णो मरुतो मृऌअयन्तु ये स्मा पुरा गातूयन्तीव देवाः ||tvé rā́ya indra tośátamāḥ praṇetā́raḥ kásya cidṛtāyóḥ ǀ
té ṣú ṇo marúto mṛḷayantu yé smā purā́ gātūyántīva devā́ḥ ǁtve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ |
te ṣu ṇo maruto mṛḷayantu ye smā purā gātūyantīva devāḥ ||त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः ।
ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥त्वे इति । रायः । इन्द्र । तोशऽतमाः । प्रऽनेतारः । कस्य । चित् । ऋतऽयोः ।
ते । सु । नः । मरुतः । मृळयन्तु । ये । स्म । पुरा । गातुयन्तिऽइव । देवाः ॥tvé íti ǀ rā́yaḥ ǀ indra ǀ tośá-tamāḥ ǀ pra-netā́raḥ ǀ kásya ǀ cit ǀ ṛta-yóḥ ǀ
té ǀ sú ǀ naḥ ǀ marútaḥ ǀ mṛḷayantu ǀ yé ǀ sma ǀ purā́ ǀ gātuyánti-iva ǀ devā́ḥ ǁtve iti ǀ rāyaḥ ǀ indra ǀ tośa-tamāḥ ǀ pra-netāraḥ ǀ kasya ǀ cit ǀ ṛta-yoḥ ǀ
te ǀ su ǀ naḥ ǀ marutaḥ ǀ mṛḷayantu ǀ ye ǀ sma ǀ purā ǀ gātuyanti-iva ǀ devāḥ ǁ1.169.5 Aṣṭaka 2.4.8.0
-
Ṛk 6
प्रति॒ प्र या॑हींद्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।
अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥प्रति प्र याहीन्द्र मीऌहुषो नॄन् महः पार्थिवे सदने यतस्व |
अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ||práti prá yāhīndra mīḷhúṣo nṝ́nmaháḥ pā́rthive sádane yatasva ǀ
ádha yádeṣām pṛthubudhnā́sa étāstīrthé nā́ryáḥ páuṃsyāni tasthúḥ ǁprati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ ||प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ ।
अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व ।
अध । यत् । एषाम् । पृथुऽबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥práti ǀ prá ǀ yāhi ǀ indra ǀ mīḷhúṣaḥ ǀ nṝ́n ǀ maháḥ ǀ pā́rthive ǀ sádane ǀ yatasva ǀ
ádha ǀ yát ǀ eṣām ǀ pṛthu-budhnā́saḥ ǀ étāḥ ǀ tīrthé ǀ ná ǀ aryáḥ ǀ páuṃsyāni ǀ tasthúḥ ǁprati ǀ pra ǀ yāhi ǀ indra ǀ mīḷhuṣaḥ ǀ nṝn ǀ mahaḥ ǀ pārthive ǀ sadane ǀ yatasva ǀ
adha ǀ yat ǀ eṣām ǀ pṛthu-budhnāsaḥ ǀ etāḥ ǀ tīrthe ǀ na ǀ aryaḥ ǀ pauṃsyāni ǀ tasthuḥ ǁ1.169.6 Aṣṭaka 2.4.9.0
-
Ṛk 7
प्रति॑ घो॒राणा॒मेता॑नाम॒यासां॑ म॒रुतां॑ शृण्व आय॒तामु॑प॒ब्दिः ।
ये मर्त्यं॑ पृतना॒यंत॒मूमै॑र्ऋणा॒वानं॒ न प॒तयं॑त॒ सर्गैः॑ ॥प्रति घोराणाम् एतानाम् अयासाम् मरुतां शृण्व आयताम् उपब्दिः |
ये मर्त्यम् पृतनायन्तम् ऊमैर् ऋणावानं न पतयन्त सर्गैः ||práti ghorā́ṇāmétānāmayā́sām marútām śṛṇva āyatā́mupabdíḥ ǀ
yé mártyam pṛtanāyántamū́mairṛṇāvā́nam ná patáyanta sárgaiḥ ǁprati ghorāṇām etānām ayāsām marutāṃ śṛṇva āyatām upabdiḥ |
ye martyam pṛtanāyantam ūmair ṛṇāvānaṃ na patayanta sargaiḥ ||प्रति॑ । घो॒राणा॑म् । एता॑नाम् । अ॒यासा॑म् । म॒रुता॑म् । शृ॒ण्वे॒ । आ॒ऽय॒ताम् । उ॒प॒ब्दिः ।
ये । मर्त्य॑म् । पृ॒त॒ना॒ऽयन्त॑म् । ऊमैः॑ । ऋ॒ण॒ऽवान॑म् । न । प॒तय॑न्त । सर्गैः॑ ॥प्रति । घोराणाम् । एतानाम् । अयासाम् । मरुताम् । शृण्वे । आऽयताम् । उपब्दिः ।
ये । मर्त्यम् । पृतनाऽयन्तम् । ऊमैः । ऋणऽवानम् । न । पतयन्त । सर्गैः ॥práti ǀ ghorā́ṇām ǀ étānām ǀ ayā́sām ǀ marútām ǀ śṛṇve ǀ ā-yatā́m ǀ upabdíḥ ǀ
yé ǀ mártyam ǀ pṛtanā-yántam ǀ ū́maiḥ ǀ ṛṇa-vā́nam ǀ ná ǀ patáyanta ǀ sárgaiḥ ǁprati ǀ ghorāṇām ǀ etānām ǀ ayāsām ǀ marutām ǀ śṛṇve ǀ ā-yatām ǀ upabdiḥ ǀ
ye ǀ martyam ǀ pṛtanā-yantam ǀ ūmaiḥ ǀ ṛṇa-vānam ǀ na ǀ patayanta ǀ sargaiḥ ǁ1.169.7 Aṣṭaka 2.4.9.0
-
Ṛk 8
त्वं माने॑भ्य इंद्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः ।
स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः |
स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ||tvám mā́nebhya indra viśvájanyā rádā marúdbhiḥ śurúdho góagrāḥ ǀ
stávānebhiḥ stavase deva deváirvidyā́meṣám vṛjánam jīrádānum ǁtvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum ||त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।
स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥त्वम् । मानेभ्यः । इन्द्र । विश्वऽजन्या । रद । मरुत्ऽभिः । शुरुधः । गोऽअग्राः ।
स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥tvám ǀ mā́nebhyaḥ ǀ indra ǀ viśvá-janyā ǀ ráda ǀ marút-bhiḥ ǀ śurúdhaḥ ǀ gó-agrāḥ ǀ
stávānebhiḥ ǀ stavase ǀ deva ǀ deváiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁtvam ǀ mānebhyaḥ ǀ indra ǀ viśva-janyā ǀ rada ǀ marut-bhiḥ ǀ śurudhaḥ ǀ go-agrāḥ ǀ
stavānebhiḥ ǀ stavase ǀ deva ǀ devaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ1.169.8 Aṣṭaka 2.4.9.0
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.