Ṛgveda · Maṇḍala 1 · Sūkta 169
Ṛk 1.169.3
Saṃhitā
अम्य॒क्सा त॑ इंद्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं॑ म॒रुतो॑ जुनंति ।
अ॒ग्निश्चि॒द्धि ष्मा॑त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां॑सि ॥
अम्यक् सा त इन्द्र ऋष्टिर् अस्मे सनेम्य् अभ्वम् मरुतो जुनन्ति |
अग्निश् चिद् धि ष्मातसे शुशुक्वान् आपो न द्वीपं दधति प्रयांसि ||
ámyaksā́ ta indra ṛṣṭírasmé sánemyábhvam marúto junanti ǀ
agníściddhí ṣmātasé śuśukvā́nā́po ná dvīpám dádhati práyāṃsi ǁ
amyak sā ta indra ṛṣṭir asme sanemy abhvam maruto junanti |
agniś cid dhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi ||
Padapāṭha
अम्य॑क् । सा । ते॒ । इ॒न्द्र॒ । ऋ॒ष्टिः । अ॒स्मे इति॑ । सने॑मि । अभ्व॑म् । म॒रुतः॑ । जु॒न॒न्ति॒ ।
अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः॑ । न । द्वी॒पम् । दध॑ति । प्रयां॑सि ॥
अम्यक् । सा । ते । इन्द्र । ऋष्टिः । अस्मे इति । सनेमि । अभ्वम् । मरुतः । जुनन्ति ।
अग्निः । चित् । हि । स्म । अतसे । शुशुक्वान् । आपः । न । द्वीपम् । दधति । प्रयांसि ॥
ámyak ǀ sā́ ǀ te ǀ indra ǀ ṛṣṭíḥ ǀ asmé íti ǀ sánemi ǀ ábhvam ǀ marútaḥ ǀ junanti ǀ
agníḥ ǀ cit ǀ hí ǀ sma ǀ atasé ǀ śuśukvā́n ǀ ā́paḥ ǀ ná ǀ dvīpám ǀ dádhati ǀ práyāṃsi ǁ
amyak ǀ sā ǀ te ǀ indra ǀ ṛṣṭiḥ ǀ asme iti ǀ sanemi ǀ abhvam ǀ marutaḥ ǀ junanti ǀ
agniḥ ǀ cit ǀ hi ǀ sma ǀ atase ǀ śuśukvān ǀ āpaḥ ǀ na ǀ dvīpam ǀ dadhati ǀ prayāṃsi ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.169.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.08.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.