Ṛgveda · Maṇḍala 1 · Sūkta 169

Ṛk 1.169.8

Indra · Agastya Maitrāvaruṇi

The whole sūkta Link

Saṃhitā

त्वं माने॑भ्य इंद्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः ।
स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुं ॥

त्वम् मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः |
स्तवानेभि स्तवसे देव देवैर् विद्यामेषं वृजनं जीरदानुम् ||

tvám mā́nebhya indra viśvájanyā rádā marúdbhiḥ śurúdho góagrāḥ ǀ
stávānebhiḥ stavase deva deváirvidyā́meṣám vṛjánam jīrádānum ǁ

tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ |
stavānebhi stavase deva devair vidyāmeṣaṃ vṛjanaṃ jīradānum ||

Padapāṭha

त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।
स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

त्वम् । मानेभ्यः । इन्द्र । विश्वऽजन्या । रद । मरुत्ऽभिः । शुरुधः । गोऽअग्राः ।
स्तवानेभिः । स्तवसे । देव । देवैः । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥

tvám ǀ mā́nebhyaḥ ǀ indra ǀ viśvá-janyā ǀ ráda ǀ marút-bhiḥ ǀ śurúdhaḥ ǀ gó-agrāḥ ǀ
stávānebhiḥ ǀ stavase ǀ deva ǀ deváiḥ ǀ vidyā́ma ǀ iṣám ǀ vṛjánam ǀ jīrá-dānum ǁ

tvam ǀ mānebhyaḥ ǀ indra ǀ viśva-janyā ǀ rada ǀ marut-bhiḥ ǀ śurudhaḥ ǀ go-agrāḥ ǀ
stavānebhiḥ ǀ stavase ǀ deva ǀ devaiḥ ǀ vidyāma ǀ iṣam ǀ vṛjanam ǀ jīra-dānum ǁ

References

Maṇḍala · Sūkta · Ṛk
01.169.08
Aṣṭaka · Adhyāya · Varga · Ṛk
2.4.09.00
Devatā देवता
Indra
Ṛṣi ऋषि
Agastya Maitrāvaruṇi
Chandas छन्दस्
Triṣṭubh, Virāj
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.169.8

Interpretations

Sāyaṇa

ननूनमस्तीतिपञ्चर्चंषष्ठंसूक्तं आगस्त्यमैन्द्रं अत्रानुक्रमणिका—ननूनंपञ्चाग्स्त्येनैन्द्रेहविषिमरुता- मुद्यतइन्द्रागस्त्ययोः संवादऎन्द्रः तत्राद्यातृतीयाचेन्द्रवाक्यं चतुर्थीचादौबृहती तिस्रोनुष्टुभइतिसूक्त- स्येन्द्रागस्त्यसंवादरूपत्वात् आद्यातृतीयाचतुर्थीचेन्द्रवाक्यं अतस्तासांयस्यवाक्यन्यायेनसऋषिः शिष्टेअगस्त्यवाक्ये अतस्तयोःसएवर्षिः आद्याचबृहती ततस्तिस्रोनुष्टुभः अन्त्याअविशेषान्त्रिष्टुप् विशेषविनियोगोलैङ्गिकः अत्रसूक्तेयास्कः—अगस्त्यइन्द्रायहविर्निरुप्यमरुद्भ्यः सप्रदित्सांचकार- सइन्द्रएत्यपरिदेवयाञ्चक्रइति ।