Ṛgveda · Maṇḍala 1 · Sūkta 169
Ṛk 1.169.6
Saṃhitā
प्रति॒ प्र या॑हींद्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व ।
अध॒ यदे॑षां पृथुबु॒ध्नास॒ एता॑स्ती॒र्थे नार्यः पौंस्या॑नि त॒स्थुः ॥
प्रति प्र याहीन्द्र मीऌहुषो नॄन् महः पार्थिवे सदने यतस्व |
अध यद् एषाम् पृथुबुध्नास एतास् तीर्थे नार्यः पौंस्यानि तस्थुः ||
práti prá yāhīndra mīḷhúṣo nṝ́nmaháḥ pā́rthive sádane yatasva ǀ
ádha yádeṣām pṛthubudhnā́sa étāstīrthé nā́ryáḥ páuṃsyāni tasthúḥ ǁ
prati pra yāhīndra mīḷhuṣo nṝn mahaḥ pārthive sadane yatasva |
adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ ||
Padapāṭha
प्रति॑ । प्र । या॒हि॒ । इ॒न्द्र॒ । मी॒ळ्हुषः॑ । नॄन् । म॒हः । पार्थि॑वे । सद॑ने । य॒त॒स्व॒ ।
अध॑ । यत् । ए॒षा॒म् । पृ॒थु॒ऽबु॒ध्नासः॑ । एताः॑ । ती॒र्थे । न । अ॒र्यः । पौंस्या॑नि । त॒स्थुः ॥
प्रति । प्र । याहि । इन्द्र । मीळ्हुषः । नॄन् । महः । पार्थिवे । सदने । यतस्व ।
अध । यत् । एषाम् । पृथुऽबुध्नासः । एताः । तीर्थे । न । अर्यः । पौंस्यानि । तस्थुः ॥
práti ǀ prá ǀ yāhi ǀ indra ǀ mīḷhúṣaḥ ǀ nṝ́n ǀ maháḥ ǀ pā́rthive ǀ sádane ǀ yatasva ǀ
ádha ǀ yát ǀ eṣām ǀ pṛthu-budhnā́saḥ ǀ étāḥ ǀ tīrthé ǀ ná ǀ aryáḥ ǀ páuṃsyāni ǀ tasthúḥ ǁ
prati ǀ pra ǀ yāhi ǀ indra ǀ mīḷhuṣaḥ ǀ nṝn ǀ mahaḥ ǀ pārthive ǀ sadane ǀ yatasva ǀ
adha ǀ yat ǀ eṣām ǀ pṛthu-budhnāsaḥ ǀ etāḥ ǀ tīrthe ǀ na ǀ aryaḥ ǀ pauṃsyāni ǀ tasthuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.169.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.4.09.00
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Agastya Maitrāvaruṇi
- Chandas छन्दस्
- Triṣṭubh, Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.