Sūkta 43
- Devatā देवता
- 1, 2, 4-6: Rudra; 3: Mitra, Rudra, Varuṇa; 7-9: Soma
- Ṛṣi ऋषि
- Kaṇva Ghaura
- Chandas छन्दस्
- Gāyatrī, Anuṣṭubh
Metres by ṛk
1st set of styles gāyatrī (1-4, 7, 8); virāḍgāyatrī (5); gāyatrī (pādanicṛdgāyatrī) (6); anuṣṭup (9)
2nd set of styles gāyatrī (1-8); anuṣṭubh (9)
-
Ṛk 1
कद्रु॒द्राय॒ प्रचे॑तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से ।
वो॒चेम॒ शंत॑मं हृ॒दे ॥कद् रुद्राय प्रचेतसे मीऌहुष्टमाय तव्यसे |
वोचेम शन्तमं हृदे ||kádrudrā́ya prácetase mīḷhúṣṭamāya távyase ǀ
vocéma śáṃtamam hṛdé ǁkad rudrāya pracetase mīḷhuṣṭamāya tavyase |
vocema śantamaṃ hṛde ||कत् । रु॒द्राय॑ । प्रऽचे॑तसे । मी॒ळ्हुःऽत॑माय । तव्य॑से ।
वो॒चेम॑ । शम्ऽत॑मम् । हृ॒दे ॥कत् । रुद्राय । प्रऽचेतसे । मीळ्हुःऽतमाय । तव्यसे ।
वोचेम । शम्ऽतमम् । हृदे ॥kát ǀ rudrā́ya ǀ prá-cetase ǀ mīḷhúḥ-tamāya ǀ távyase ǀ
vocéma ǀ śám-tamam ǀ hṛdé ǁkat ǀ rudrāya ǀ pra-cetase ǀ mīḷhuḥ-tamāya ǀ tavyase ǀ
vocema ǀ śam-tamam ǀ hṛde ǁ1.43.1 Aṣṭaka 1.3.26.1Anuvāka 1.8.88
-
Ṛk 2
यथा॑ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे॑ ।
यथा॑ तो॒काय॑ रु॒द्रियं॑ ॥यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे |
यथा तोकाय रुद्रियम् ||yáthā no áditiḥ káratpáśve nṛ́bhyo yáthā gáve ǀ
yáthā tokā́ya rudríyam ǁyathā no aditiḥ karat paśve nṛbhyo yathā gave |
yathā tokāya rudriyam ||यथा॑ । नः॒ । अदि॑तिः । कर॑त् । पश्वे॑ । नृऽभ्यः॑ । यथा॑ । गवे॑ ।
यथा॑ । तो॒काय॑ । रु॒द्रिय॑म् ॥यथा । नः । अदितिः । करत् । पश्वे । नृऽभ्यः । यथा । गवे ।
यथा । तोकाय । रुद्रियम् ॥yáthā ǀ naḥ ǀ áditiḥ ǀ kárat ǀ páśve ǀ nṛ́-bhyaḥ ǀ yáthā ǀ gáve ǀ
yáthā ǀ tokā́ya ǀ rudríyam ǁyathā ǀ naḥ ǀ aditiḥ ǀ karat ǀ paśve ǀ nṛ-bhyaḥ ǀ yathā ǀ gave ǀ
yathā ǀ tokāya ǀ rudriyam ǁ1.43.2 Aṣṭaka 1.3.26.2Anuvāka 1.8.89
-
Ṛk 3
यथा॑ नो मि॒त्रो वरु॑णो॒ यथा॑ रु॒द्रश्चिके॑तति ।
यथा॒ विश्वे॑ स॒जोष॑सः ॥यथा नो मित्रो वरुणो यथा रुद्रश् चिकेतति |
यथा विश्वे सजोषसः ||yáthā no mitró váruṇo yáthā rudráścíketati ǀ
yáthā víśve sajóṣasaḥ ǁyathā no mitro varuṇo yathā rudraś ciketati |
yathā viśve sajoṣasaḥ ||यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । यथा॑ । रु॒द्रः । चिके॑तति ।
यथा॑ । विश्वे॑ । स॒ऽजोष॑सः ॥यथा । नः । मित्रः । वरुणः । यथा । रुद्रः । चिकेतति ।
यथा । विश्वे । सऽजोषसः ॥yáthā ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ yáthā ǀ rudráḥ ǀ cíketati ǀ
yáthā ǀ víśve ǀ sa-jóṣasaḥ ǁyathā ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ yathā ǀ rudraḥ ǀ ciketati ǀ
yathā ǀ viśve ǀ sa-joṣasaḥ ǁ1.43.3 Aṣṭaka 1.3.26.3Anuvāka 1.8.90
-
Ṛk 4
गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला॑षभेषजं ।
तच्छं॒योः सु॒म्नमी॑महे ॥गाथपतिम् मेधपतिं रुद्रं जलाषभेषजम् |
तच् छंयोः सुम्नम् ईमहे ||gāthápatim medhápatim rudrám jálāṣabheṣajam ǀ
tácchaṃyóḥ sumnámīmahe ǁgāthapatim medhapatiṃ rudraṃ jalāṣabheṣajam |
tac chaṃyoḥ sumnam īmahe ||गा॒थऽप॑तिम् । मे॒धऽप॑तिम् । रु॒द्रम् । जला॑षऽभेषजम् ।
तत् । श॒म्ऽयोः । सु॒म्नम् । ई॒म॒हे॒ ॥गाथऽपतिम् । मेधऽपतिम् । रुद्रम् । जलाषऽभेषजम् ।
तत् । शम्ऽयोः । सुम्नम् । ईमहे ॥gāthá-patim ǀ medhá-patim ǀ rudrám ǀ jálāṣa-bheṣajam ǀ
tát ǀ śam-yóḥ ǀ sumnám ǀ īmahe ǁgātha-patim ǀ medha-patim ǀ rudram ǀ jalāṣa-bheṣajam ǀ
tat ǀ śam-yoḥ ǀ sumnam ǀ īmahe ǁ1.43.4 Aṣṭaka 1.3.26.4Anuvāka 1.8.91
-
Ṛk 5
यः शु॒क्र इ॑व॒ सूर्यो॒ हिर॑ण्यमिव॒ रोच॑ते ।
श्रेष्ठो॑ दे॒वानां॒ वसुः॑ ॥यः शुक्र इव सूर्यो हिरण्यम् इव रोचते |
श्रेष्ठो देवानां वसुः ||yáḥ śukrá iva sū́ryo híraṇyamiva rócate ǀ
śréṣṭho devā́nām vásuḥ ǁyaḥ śukra iva sūryo hiraṇyam iva rocate |
śreṣṭho devānāṃ vasuḥ ||यः । शु॒क्रःऽइ॑व । सूर्यः॑ । हिर॑ण्यम्ऽइव । रोच॑ते ।
श्रेष्ठः॑ । दे॒वाना॑म् । वसुः॑ ॥यः । शुक्रःऽइव । सूर्यः । हिरण्यम्ऽइव । रोचते ।
श्रेष्ठः । देवानाम् । वसुः ॥yáḥ ǀ śukráḥ-iva ǀ sū́ryaḥ ǀ híraṇyam-iva ǀ rócate ǀ
śréṣṭhaḥ ǀ devā́nām ǀ vásuḥ ǁyaḥ ǀ śukraḥ-iva ǀ sūryaḥ ǀ hiraṇyam-iva ǀ rocate ǀ
śreṣṭhaḥ ǀ devānām ǀ vasuḥ ǁ1.43.5 Aṣṭaka 1.3.26.5Anuvāka 1.8.92
-
Ṛk 6
शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये॑ ।
नृभ्यो॒ नारि॑भ्यो॒ गवे॑ ॥शं नः करत्य् अर्वते सुगम् मेषाय मेष्ये |
नृभ्यो नारिभ्यो गवे ||śám naḥ karatyárvate sugám meṣā́ya meṣyé ǀ
nṛ́bhyo nā́ribhyo gáve ǁśaṃ naḥ karaty arvate sugam meṣāya meṣye |
nṛbhyo nāribhyo gave ||शम् । नः॒ । क॒र॒ति॒ । अर्व॑ते । सु॒ऽगम् । मे॒षाय॑ । मे॒ष्ये॑ ।
नृऽभ्यः॑ । नारि॑ऽभ्यः । गवे॑ ॥शम् । नः । करति । अर्वते । सुऽगम् । मेषाय । मेष्ये ।
नृऽभ्यः । नारिऽभ्यः । गवे ॥śám ǀ naḥ ǀ karati ǀ árvate ǀ su-gám ǀ meṣā́ya ǀ meṣyé ǀ
nṛ́-bhyaḥ ǀ nā́ri-bhyaḥ ǀ gáve ǁśam ǀ naḥ ǀ karati ǀ arvate ǀ su-gam ǀ meṣāya ǀ meṣye ǀ
nṛ-bhyaḥ ǀ nāri-bhyaḥ ǀ gave ǁ1.43.6 Aṣṭaka 1.3.27.1Anuvāka 1.8.93
-
Ṛk 7
अ॒स्मे सो॑म॒ श्रिय॒मधि॒ नि धे॑हि श॒तस्य॑ नृ॒णां ।
महि॒ श्रव॑स्तुविनृ॒म्णं ॥अस्मे सोम श्रियम् अधि नि धेहि शतस्य नृणाम् |
महि श्रवस् तुविनृम्णम् ||asmé soma śríyamádhi ní dhehi śatásya nṛṇā́m ǀ
máhi śrávastuvinṛmṇám ǁasme soma śriyam adhi ni dhehi śatasya nṛṇām |
mahi śravas tuvinṛmṇam ||अ॒स्मे इति॑ । सो॒म॒ । श्रिय॑म् । अधि॑ । नि । धे॒हि॒ । श॒तस्य॑ । नृ॒णाम् ।
महि॑ । श्रवः॑ । तु॒वि॒ऽनृ॒म्णम् ॥अस्मे इति । सोम । श्रियम् । अधि । नि । धेहि । शतस्य । नृणाम् ।
महि । श्रवः । तुविऽनृम्णम् ॥asmé íti ǀ soma ǀ śríyam ǀ ádhi ǀ ní ǀ dhehi ǀ śatásya ǀ nṛṇā́m ǀ
máhi ǀ śrávaḥ ǀ tuvi-nṛmṇám ǁasme iti ǀ soma ǀ śriyam ǀ adhi ǀ ni ǀ dhehi ǀ śatasya ǀ nṛṇām ǀ
mahi ǀ śravaḥ ǀ tuvi-nṛmṇam ǁ1.43.7 Aṣṭaka 1.3.27.2Anuvāka 1.8.94
-
Ṛk 8
मा नः॑ सोमपरि॒बाधो॒ मारा॑तयो जुहुरंत ।
आ न॑ इंदो॒ वाजे॑ भज ॥मा नः सोमपरिबाधो मारातयो जुहुरन्त |
आ न इन्दो वाजे भज ||mā́ naḥ somaparibā́dho mā́rātayo juhuranta ǀ
ā́ na indo vā́je bhaja ǁmā naḥ somaparibādho mārātayo juhuranta |
ā na indo vāje bhaja ||मा । नः॒ । सो॒म॒ऽप॒रि॒बाधः॑ । मा । अरा॑तयः । जु॒हु॒र॒न्त॒ ।
आ । नः॒ । इ॒न्दो॒ इति॑ । वाजे॑ । भ॒ज॒ ॥मा । नः । सोमऽपरिबाधः । मा । अरातयः । जुहुरन्त ।
आ । नः । इन्दो इति । वाजे । भज ॥mā́ ǀ naḥ ǀ soma-paribā́dhaḥ ǀ mā́ ǀ árātayaḥ ǀ juhuranta ǀ
ā́ ǀ naḥ ǀ indo íti ǀ vā́je ǀ bhaja ǁmā ǀ naḥ ǀ soma-paribādhaḥ ǀ mā ǀ arātayaḥ ǀ juhuranta ǀ
ā ǀ naḥ ǀ indo iti ǀ vāje ǀ bhaja ǁ1.43.8 Aṣṭaka 1.3.27.3Anuvāka 1.8.95
-
Ṛk 9
यास्ते॑ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मिं॒धाम॑न्नृ॒तस्य॑ ।
मू॒र्धा नाभा॑ सोम वेन आ॒भूषं॑तीः सोम वेदः ॥यास् ते प्रजा अमृतस्य परस्मिन् धामन्न् ऋतस्य |
मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ||yā́ste prajā́ amṛ́tasya párasmindhā́mannṛtásya ǀ
mūrdhā́ nā́bhā soma vena ābhū́ṣantīḥ soma vedaḥ ǁyās te prajā amṛtasya parasmin dhāmann ṛtasya |
mūrdhā nābhā soma vena ābhūṣantīḥ soma vedaḥ ||याः । ते॒ । प्र॒ऽजाः । अ॒मृत॑स्य । पर॑स्मिन् । धाम॑न् । ऋ॒तस्य॑ ।
मू॒र्धा । नाभा॑ । सो॒म॒ । वे॒नः॒ । आ॒ऽभूष॑न्तीः । सो॒म॒ । वे॒दः॒ ॥याः । ते । प्रऽजाः । अमृतस्य । परस्मिन् । धामन् । ऋतस्य ।
मूर्धा । नाभा । सोम । वेनः । आऽभूषन्तीः । सोम । वेदः ॥yā́ḥ ǀ te ǀ pra-jā́ḥ ǀ amṛ́tasya ǀ párasmin ǀ dhā́man ǀ ṛtásya ǀ
mūrdhā́ ǀ nā́bhā ǀ soma ǀ venaḥ ǀ ā-bhū́ṣantīḥ ǀ soma ǀ vedaḥ ǁyāḥ ǀ te ǀ pra-jāḥ ǀ amṛtasya ǀ parasmin ǀ dhāman ǀ ṛtasya ǀ
mūrdhā ǀ nābhā ǀ soma ǀ venaḥ ǀ ā-bhūṣantīḥ ǀ soma ǀ vedaḥ ǁ1.43.9 Aṣṭaka 1.3.27.4Anuvāka 1.8.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.