Sūkta 70
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parāśara Śāktya
- Chandas छन्दस्
- Dvipadā Virāj
Metres by ṛk
1st set of styles dvipadā virāt (7-11); virāṭpaṅkti (1, 4); paṅktiḥ (2, 5); nicṛtpaṅkti (3); sāmnīpaṅkti (6)
2nd set of styles dvipadā virāj
-
Ṛk 1
व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥
वनेम पूर्वीर् अर्यो मनीषा अग्निः सुशोको विश्वान्य् अश्याः ||
vanéma pūrvī́raryó manīṣā́ agníḥ suśóko víśvānyaśyāḥ ǁ
vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ ||
व॒नेम॑ । पू॒र्वीः । अ॒र्यः । म॒नी॒षा । अ॒ग्निः । सु॒ऽशोकः॑ । विश्वा॑नि । अ॒श्याः॒ ॥
वनेम । पूर्वीः । अर्यः । मनीषा । अग्निः । सुऽशोकः । विश्वानि । अश्याः ॥
vanéma ǀ pūrvī́ḥ ǀ aryáḥ ǀ manīṣā́ ǀ agníḥ ǀ su-śókaḥ ǀ víśvāni ǀ aśyāḥ ǁ
vanema ǀ pūrvīḥ ǀ aryaḥ ǀ manīṣā ǀ agniḥ ǀ su-śokaḥ ǀ viśvāni ǀ aśyāḥ ǁ
1.70.1 Aṣṭaka 1.5.14.1Anuvāka 1.12.51
-
Ṛk 2
आ दैव्या॑नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ॥
आ दैव्यानि व्रता चिकित्वान् आ मानुषस्य जनस्य जन्म ||
ā́ dáivyāni vratā́ cikitvā́nā́ mā́nuṣasya jánasya jánma ǁ
ā daivyāni vratā cikitvān ā mānuṣasya janasya janma ||
आ । दैव्या॑नि । व्र॒ता । चि॒कि॒त्वान् । आ । मानु॑षस्य । जन॑स्य । जन्म॑ ॥
आ । दैव्यानि । व्रता । चिकित्वान् । आ । मानुषस्य । जनस्य । जन्म ॥
ā́ ǀ dáivyāni ǀ vratā́ ǀ cikitvā́n ǀ ā́ ǀ mā́nuṣasya ǀ jánasya ǀ jánma ǁ
ā ǀ daivyāni ǀ vratā ǀ cikitvān ǀ ā ǀ mānuṣasya ǀ janasya ǀ janma ǁ
1.70.2 Aṣṭaka 1.5.14.2Anuvāka 1.12.52
-
Ṛk 3
गर्भो॒ यो अ॒पां गर्भो॒ वना॑नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथां॑ ॥
गर्भो यो अपां गर्भो वनानां गर्भश् च स्थातां गर्भश् चरथाम् ||
gárbho yó apā́m gárbho vánānām gárbhaśca sthātā́m gárbhaścaráthām ǁ
garbho yo apāṃ garbho vanānāṃ garbhaś ca sthātāṃ garbhaś carathām ||
गर्भः॑ । यः । अ॒पाम् । गर्भः॑ । वना॑नाम् । गर्भः॑ । च॒ । स्था॒ताम् । गर्भः॑ । च॒रथा॑म् ॥
गर्भः । यः । अपाम् । गर्भः । वनानाम् । गर्भः । च । स्थाताम् । गर्भः । चरथाम् ॥
gárbhaḥ ǀ yáḥ ǀ apā́m ǀ gárbhaḥ ǀ vánānām ǀ gárbhaḥ ǀ ca ǀ sthātā́m ǀ gárbhaḥ ǀ caráthām ǁ
garbhaḥ ǀ yaḥ ǀ apām ǀ garbhaḥ ǀ vanānām ǀ garbhaḥ ǀ ca ǀ sthātām ǀ garbhaḥ ǀ carathām ǁ
1.70.3 Aṣṭaka 1.5.14.3Anuvāka 1.12.53
-
Ṛk 4
अद्रौ॑ चिदस्मा अं॒तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृतः॑ स्वा॒धीः ॥
अद्रौ चिद् अस्मा अन्तर् दुरोणे विशां न विश्वो अमृतः स्वाधीः ||
ádrau cidasmā antárduroṇé viśā́m ná víśvo amṛ́taḥ svādhī́ḥ ǁ
adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ ||
अद्रौ॑ । चि॒त् । अ॒स्मै॒ । अ॒न्तः । दु॒रो॒णे । वि॒शाम् । न । विश्वः॑ । अ॒मृतः॑ । सु॒ऽआ॒धीः ॥
अद्रौ । चित् । अस्मै । अन्तः । दुरोणे । विशाम् । न । विश्वः । अमृतः । सुऽआधीः ॥
ádrau ǀ cit ǀ asmai ǀ antáḥ ǀ duroṇé ǀ viśā́m ǀ ná ǀ víśvaḥ ǀ amṛ́taḥ ǀ su-ādhī́ḥ ǁ
adrau ǀ cit ǀ asmai ǀ antaḥ ǀ duroṇe ǀ viśām ǀ na ǀ viśvaḥ ǀ amṛtaḥ ǀ su-ādhīḥ ǁ
1.70.4 Aṣṭaka 1.5.14.4Anuvāka 1.12.54
-
Ṛk 5
स हि क्ष॒पावाँ॑ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं॑ सू॒क्तैः ॥
स हि क्षपावां अग्नी रयीणां दाशद् यो अस्मा अरं सूक्तैः ||
sá hí kṣapā́vām̐ agnī́ rayīṇā́m dā́śadyó asmā áram sūktáiḥ ǁ
sa hi kṣapāvāṃ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ ||
सः । हि । क्ष॒पाऽवा॑न् । अ॒ग्निः । र॒यी॒णाम् । दाश॑त् । यः । अ॒स्मै॒ । अर॑म् । सु॒ऽउ॒क्तैः ॥
सः । हि । क्षपाऽवान् । अग्निः । रयीणाम् । दाशत् । यः । अस्मै । अरम् । सुऽउक्तैः ॥
sáḥ ǀ hí ǀ kṣapā́-vān ǀ agníḥ ǀ rayīṇā́m ǀ dā́śat ǀ yáḥ ǀ asmai ǀ áram ǀ su-uktáiḥ ǁ
saḥ ǀ hi ǀ kṣapā-vān ǀ agniḥ ǀ rayīṇām ǀ dāśat ǀ yaḥ ǀ asmai ǀ aram ǀ su-uktaiḥ ǁ
1.70.5 Aṣṭaka 1.5.14.5Anuvāka 1.12.55
-
Ṛk 6
ए॒ता चि॑कित्वो॒ भूमा॒ नि पा॑हि दे॒वानां॒ जन्म॒ मर्तां॑श्च वि॒द्वान् ॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश् च विद्वान् ||
etā́ cikitvo bhū́mā ní pāhi devā́nām jánma mártāṃśca vidvā́n ǁ
etā cikitvo bhūmā ni pāhi devānāṃ janma martāṃś ca vidvān ||
ए॒ता । चि॒कि॒त्वः॒ । भूम॑ । नि । पा॒हि॒ । दे॒वाना॑म् । जन्म॑ । मर्ता॑न् । च॒ । वि॒द्वान् ॥
एता । चिकित्वः । भूम । नि । पाहि । देवानाम् । जन्म । मर्तान् । च । विद्वान् ॥
etā́ ǀ cikitvaḥ ǀ bhū́ma ǀ ní ǀ pāhi ǀ devā́nām ǀ jánma ǀ mártān ǀ ca ǀ vidvā́n ǁ
etā ǀ cikitvaḥ ǀ bhūma ǀ ni ǀ pāhi ǀ devānām ǀ janma ǀ martān ǀ ca ǀ vidvān ǁ
1.70.6 Aṣṭaka 1.5.14.6Anuvāka 1.12.56
-
Ṛk 7
वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू॑पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतं ॥
वर्धान् यम् पूर्वीः क्षपो विरूपा स्थातुश् च रथम् ऋतप्रवीतम् ||
várdhānyám pūrvī́ḥ kṣapó vírūpāḥ sthātúśca ráthamṛtápravītam ǁ
vardhān yam pūrvīḥ kṣapo virūpā sthātuś ca ratham ṛtapravītam ||
वर्धा॑न् । यम् । पू॒र्वीः । क्ष॒पः । विऽरू॑पाः । स्था॒तुः । च॒ । रथ॑म् । ऋ॒तऽप्र॑वीतम् ॥
वर्धान् । यम् । पूर्वीः । क्षपः । विऽरूपाः । स्थातुः । च । रथम् । ऋतऽप्रवीतम् ॥
várdhān ǀ yám ǀ pūrvī́ḥ ǀ kṣapáḥ ǀ ví-rūpāḥ ǀ sthātúḥ ǀ ca ǀ rátham ǀ ṛtá-pravītam ǁ
vardhān ǀ yam ǀ pūrvīḥ ǀ kṣapaḥ ǀ vi-rūpāḥ ǀ sthātuḥ ǀ ca ǀ ratham ǀ ṛta-pravītam ǁ
1.70.7 Aṣṭaka 1.5.14.7Anuvāka 1.12.57
-
Ṛk 8
अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥
अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ||
árādhi hótā svárníṣattaḥ kṛṇvánvíśvānyápāṃsi satyā́ ǁ
arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā ||
अरा॑धि । होता॑ । स्वः॑ । निऽस॑त्तः । कृ॒ण्वन् । विश्वा॑नि । अपां॑सि । स॒त्या ॥
अराधि । होता । स्वः । निऽसत्तः । कृण्वन् । विश्वानि । अपांसि । सत्या ॥
árādhi ǀ hótā ǀ sváḥ ǀ ní-sattaḥ ǀ kṛṇván ǀ víśvāni ǀ ápāṃsi ǀ satyā́ ǁ
arādhi ǀ hotā ǀ svaḥ ǀ ni-sattaḥ ǀ kṛṇvan ǀ viśvāni ǀ apāṃsi ǀ satyā ǁ
1.70.8 Aṣṭaka 1.5.14.8Anuvāka 1.12.58
-
Ṛk 9
गोषु॒ प्रश॑स्तिं॒ वने॑षु धिषे॒ भरं॑त॒ विश्वे॑ ब॒लिं स्व॑र्णः ॥
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर् णः ||
góṣu práśastim váneṣu dhiṣe bháranta víśve balím svárṇaḥ ǁ
goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ ||
गोषु॑ । प्रऽश॑स्तिम् । वने॑षु । धि॒षे॒ । भर॑न्त । विश्वे॑ । ब॒लिम् । स्वः॑ । नः॒ ॥
गोषु । प्रऽशस्तिम् । वनेषु । धिषे । भरन्त । विश्वे । बलिम् । स्वः । नः ॥
góṣu ǀ prá-śastim ǀ váneṣu ǀ dhiṣe ǀ bháranta ǀ víśve ǀ balím ǀ sváḥ ǀ naḥ ǁ
goṣu ǀ pra-śastim ǀ vaneṣu ǀ dhiṣe ǀ bharanta ǀ viśve ǀ balim ǀ svaḥ ǀ naḥ ǁ
1.70.9 Aṣṭaka 1.5.14.9Anuvāka 1.12.59
-
Ṛk 10
वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरंत ॥
वि त्वा नरः पुरुत्रा सपर्यन् पितुर् न जिव्रेर् वि वेदो भरन्त ||
ví tvā náraḥ purutrā́ saparyanpitúrná jívrerví védo bharanta ǁ
vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta ||
वि । त्वा॒ । नरः॑ । पु॒रु॒ऽत्रा । स॒प॒र्य॒न् । पि॒तुः । न । जिव्रेः॑ । वि । वेदी॑ । भ॒र॒न्त॒ ॥
वि । त्वा । नरः । पुरुऽत्रा । सपर्यन् । पितुः । न । जिव्रेः । वि । वेदी । भरन्त ॥
ví ǀ tvā ǀ náraḥ ǀ puru-trā́ ǀ saparyan ǀ pitúḥ ǀ ná ǀ jívreḥ ǀ ví ǀ védī ǀ bharanta ǁ
vi ǀ tvā ǀ naraḥ ǀ puru-trā ǀ saparyan ǀ pituḥ ǀ na ǀ jivreḥ ǀ vi ǀ vedī ǀ bharanta ǁ
1.70.10 Aṣṭaka 1.5.14.10Anuvāka 1.12.60
-
Ṛk 11
सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥
साधुर् न गृध्नुर् अस्तेव शूरो यातेव भीमस् त्वेषः समत्सु ||
sādhúrná gṛdhnúrásteva śū́ro yā́teva bhīmástveṣáḥ samátsu ǁ
sādhur na gṛdhnur asteva śūro yāteva bhīmas tveṣaḥ samatsu ||
सा॒धुः । न । गृ॒ध्नुः । अस्ता॑ऽइव । शूरः॑ । याता॑ऽइव । भी॒मः । त्वे॒षः । स॒मत्ऽसु॑ ॥
साधुः । न । गृध्नुः । अस्ताऽइव । शूरः । याताऽइव । भीमः । त्वेषः । समत्ऽसु ॥
sādhúḥ ǀ ná ǀ gṛdhnúḥ ǀ ástā-iva ǀ śū́raḥ ǀ yā́tā-iva ǀ bhīmáḥ ǀ tveṣáḥ ǀ samát-su ǁ
sādhuḥ ǀ na ǀ gṛdhnuḥ ǀ astā-iva ǀ śūraḥ ǀ yātā-iva ǀ bhīmaḥ ǀ tveṣaḥ ǀ samat-su ǁ
1.70.11 Aṣṭaka 1.5.14.11Anuvāka 1.12.61
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.