Ṛgveda · Maṇḍala 1 · Sūkta 70

Ṛk 1.70.8

Agni · Parāśara Śāktya

The whole sūkta Link

Saṃhitā

अरा॑धि॒ होता॒ स्व१॒॑र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां॑सि स॒त्या ॥

अराधि होता स्वर् निषत्तः कृण्वन् विश्वान्य् अपांसि सत्या ||

árādhi hótā svárníṣattaḥ kṛṇvánvíśvānyápāṃsi satyā́ ǁ

arādhi hotā svar niṣattaḥ kṛṇvan viśvāny apāṃsi satyā ||

Padapāṭha

अरा॑धि । होता॑ । स्वः॑ । निऽस॑त्तः । कृ॒ण्वन् । विश्वा॑नि । अपां॑सि । स॒त्या ॥

अराधि । होता । स्वः । निऽसत्तः । कृण्वन् । विश्वानि । अपांसि । सत्या ॥

árādhi ǀ hótā ǀ sváḥ ǀ ní-sattaḥ ǀ kṛṇván ǀ víśvāni ǀ ápāṃsi ǀ satyā́ ǁ

arādhi ǀ hotā ǀ svaḥ ǀ ni-sattaḥ ǀ kṛṇvan ǀ viśvāni ǀ apāṃsi ǀ satyā ǁ

References

Maṇḍala · Sūkta · Ṛk
01.070.08
Aṣṭaka · Adhyāya · Varga · Ṛk
1.5.14.08
Maṇḍala · Anuvāka · Ṛk
1.12.058
Devatā देवता
Agni
Ṛṣi ऋषि
Parāśara Śāktya
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
पञ्चमः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.70.8

Interpretations

Sāyaṇa

पूर्वीर्बह्व्य उषसः क्षपो निशाश्च विरूपाः शुक्ल कृष्णतया विविधरूपाः सत्यो यमग्निं वर्धान् वर्धयंति । तथा स्थातुः स्थावरं वृक्षादिकं रथं रममाणं जंगमं मनुष्यादिकं च ऋतप्रवीतमृतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयंति । सोऽग्निः स्वः सुष्ट्वरणीये देवयजने निषत्तो निषण्ण उपविष्टः सन् होता देवानामाह्वाताराधि । संसिद्धोऽभूत् । यद्वा । ऋत्विग्भिरराधि । आराधित इत्यर्थः । किं कुर्वन् । विश्वानि सर्वाणि सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलान्यपांसि कर्माणि कृण्वन् कुर्वन् ॥ वर्धान् । वृधेर्ण्यंताल्लेट्याडागमः । छंदस्युभयथेति शप आर्धधातुकत्वात् णिलोपः । इतश्च लोप इतीकारलोपे संयोगांतलोपः । ऋतप्रवीतं । व्येञ् संवरणे । अस्मात्कर्मणि निष्ठा । वचिस्वपीत्यादिना संप्रसारणं । कृद्ग्रहणे गतिकारपूर्वस्य ग्रहणात्तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं । आराधि । राध साध संसिद्धौ । कर्तरि लुङि व्यत्ययेन च्लेश्चिण् ॥ ७ ॥ ८ ॥