Sūkta 56
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Savya Āṅgirasa
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 3); jagatī (2); virāḍjagatī (4); triṣṭup (5); bhuriktriṣṭup (6)
2nd set of styles jagatī
-
Ṛk 1
ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ ।
दक्षं॑ म॒हे पा॑ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सं ॥एष प्र पूर्वीर् अव तस्य चम्रिषो ऽत्यो न योषाम् उद् अयंस्त भुर्वणिः |
दक्षम् महे पाययते हिरण्ययं रथम् आवृत्या हरियोगम् ऋभ्वसम् ||eṣá prá pūrvī́ráva tásya camríṣó’tyo ná yóṣāmúdayaṃsta bhurváṇiḥ ǀ
dákṣam mahé pāyayate hiraṇyáyam ráthamāvṛ́tyā háriyogamṛ́bhvasam ǁeṣa pra pūrvīr ava tasya camriṣo 'tyo na yoṣām ud ayaṃsta bhurvaṇiḥ |
dakṣam mahe pāyayate hiraṇyayaṃ ratham āvṛtyā hariyogam ṛbhvasam ||ए॒षः । प्र । पू॒र्वीः । अव॑ । तस्य॑ । च॒म्रिषः॑ । अत्यः॑ । न । योषा॑म् । उत् । अ॒यं॒स्त॒ । भु॒र्वणिः॑ ।
दक्ष॑म् । म॒हे । पा॒य॒य॒ते॒ । हि॒र॒ण्यय॑म् । रथ॑म् । आ॒ऽवृत्य॑ । हरि॑ऽयोगम् । ऋभ्व॑सम् ॥एषः । प्र । पूर्वीः । अव । तस्य । चम्रिषः । अत्यः । न । योषाम् । उत् । अयंस्त । भुर्वणिः ।
दक्षम् । महे । पाययते । हिरण्ययम् । रथम् । आऽवृत्य । हरिऽयोगम् । ऋभ्वसम् ॥eṣáḥ ǀ prá ǀ pūrvī́ḥ ǀ áva ǀ tásya ǀ camríṣaḥ ǀ átyaḥ ǀ ná ǀ yóṣām ǀ út ǀ ayaṃsta ǀ bhurváṇiḥ ǀ
dákṣam ǀ mahé ǀ pāyayate ǀ hiraṇyáyam ǀ rátham ǀ ā-vṛ́tya ǀ hári-yogam ǀ ṛ́bhvasam ǁeṣaḥ ǀ pra ǀ pūrvīḥ ǀ ava ǀ tasya ǀ camriṣaḥ ǀ atyaḥ ǀ na ǀ yoṣām ǀ ut ǀ ayaṃsta ǀ bhurvaṇiḥ ǀ
dakṣam ǀ mahe ǀ pāyayate ǀ hiraṇyayam ǀ ratham ǀ ā-vṛtya ǀ hari-yogam ǀ ṛbhvasam ǁ1.56.1 Aṣṭaka 1.4.21.1Anuvāka 1.10.61
-
Ṛk 2
तं गू॒र्तयो॑ नेम॒न्निषः॒ परी॑णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ ।
पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो॑ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ॥तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः |
पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ||tám gūrtáyo nemanníṣaḥ párīṇasaḥ samudrám ná saṃcáraṇe saniṣyávaḥ ǀ
pátim dákṣasya vidáthasya nū́ sáho girím ná venā́ ádhi roha téjasā ǁtaṃ gūrtayo nemanniṣaḥ parīṇasaḥ samudraṃ na saṃcaraṇe saniṣyavaḥ |
patiṃ dakṣasya vidathasya nū saho giriṃ na venā adhi roha tejasā ||तम् । गू॒र्तयः॑ । ने॒म॒न्ऽइषः॑ । परी॑णसः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ ।
पति॑म् । दक्ष॑स्य । वि॒दथ॑स्य । नु । सहः॑ । गि॒रिम् । न । वे॒नाः । अधि॑ । रो॒ह॒ । तेज॑सा ॥तम् । गूर्तयः । नेमन्ऽइषः । परीणसः । समुद्रम् । न । सम्ऽचरणे । सनिष्यवः ।
पतिम् । दक्षस्य । विदथस्य । नु । सहः । गिरिम् । न । वेनाः । अधि । रोह । तेजसा ॥tám ǀ gūrtáyaḥ ǀ neman-íṣaḥ ǀ párīṇasaḥ ǀ samudrám ǀ ná ǀ sam-cáraṇe ǀ saniṣyávaḥ ǀ
pátim ǀ dákṣasya ǀ vidáthasya ǀ nú ǀ sáhaḥ ǀ girím ǀ ná ǀ venā́ḥ ǀ ádhi ǀ roha ǀ téjasā ǁtam ǀ gūrtayaḥ ǀ neman-iṣaḥ ǀ parīṇasaḥ ǀ samudram ǀ na ǀ sam-caraṇe ǀ saniṣyavaḥ ǀ
patim ǀ dakṣasya ǀ vidathasya ǀ nu ǀ sahaḥ ǀ girim ǀ na ǀ venāḥ ǀ adhi ǀ roha ǀ tejasā ǁ1.56.2 Aṣṭaka 1.4.21.2Anuvāka 1.10.62
-
Ṛk 3
स तु॒र्वणि॑र्म॒हाँ अ॑रे॒णु पौंस्ये॑ गि॒रेर्भृ॒ष्टिर्न भ्रा॑जते तु॒जा शवः॑ ।
येन॒ शुष्णं॑ मा॒यिन॑माय॒सो मदे॑ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ॥स तुर्वणिर् महां अरेणु पौंस्ये गिरेर् भृष्टिर् न भ्राजते तुजा शवः |
येन शुष्णम् मायिनम् आयसो मदे दुध्र आभूषु रामयन् नि दामनि ||sá turváṇirmahā́m̐ areṇú páuṃsye girérbhṛṣṭírná bhrājate tujā́ śávaḥ ǀ
yéna śúṣṇam māyínamāyasó máde dudhrá ābhū́ṣu rāmáyanní dā́mani ǁsa turvaṇir mahāṃ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ |
yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani ||सः । तु॒र्वणिः॑ । म॒हान् । अ॒रे॒णु । पौंस्ये॑ । गि॒रेः । भृ॒ष्टिः । न । भ्रा॒ज॒ते॒ । तु॒जा । शवः॑ ।
येन॑ । शुष्ण॑म् । मा॒यिन॑म् । आ॒य॒सः । मदे॑ । दु॒ध्रः । आ॒भूषु॑ । र॒मय॑त् । नि । दाम॑नि ॥सः । तुर्वणिः । महान् । अरेणु । पौंस्ये । गिरेः । भृष्टिः । न । भ्राजते । तुजा । शवः ।
येन । शुष्णम् । मायिनम् । आयसः । मदे । दुध्रः । आभूषु । रमयत् । नि । दामनि ॥sáḥ ǀ turváṇiḥ ǀ mahā́n ǀ areṇú ǀ páuṃsye ǀ giréḥ ǀ bhṛṣṭíḥ ǀ ná ǀ bhrājate ǀ tujā́ ǀ śávaḥ ǀ
yéna ǀ śúṣṇam ǀ māyínam ǀ āyasáḥ ǀ máde ǀ dudhráḥ ǀ ābhū́ṣu ǀ ramáyat ǀ ní ǀ dā́mani ǁsaḥ ǀ turvaṇiḥ ǀ mahān ǀ areṇu ǀ pauṃsye ǀ gireḥ ǀ bhṛṣṭiḥ ǀ na ǀ bhrājate ǀ tujā ǀ śavaḥ ǀ
yena ǀ śuṣṇam ǀ māyinam ǀ āyasaḥ ǀ made ǀ dudhraḥ ǀ ābhūṣu ǀ ramayat ǀ ni ǀ dāmani ǁ1.56.3 Aṣṭaka 1.4.21.3Anuvāka 1.10.63
-
Ṛk 4
दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इंद्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ ।
यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणिः॑ ॥देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्य् उषसं न सूर्यः |
यो धृष्णुना शवसा बाधते तम इयर्ति रेणुम् बृहद् अर्हरिष्वणिः ||devī́ yádi táviṣī tvā́vṛdhotáya índram síṣaktyuṣásam ná sū́ryaḥ ǀ
yó dhṛṣṇúnā śávasā bā́dhate táma íyarti reṇúm bṛhádarhariṣváṇiḥ ǁdevī yadi taviṣī tvāvṛdhotaya indraṃ siṣakty uṣasaṃ na sūryaḥ |
yo dhṛṣṇunā śavasā bādhate tama iyarti reṇum bṛhad arhariṣvaṇiḥ ||दे॒वी । यदि॑ । तवि॑षी । त्वाऽवृ॑धा । ऊ॒तये॑ । इन्द्र॑म् । सिस॑क्ति । उ॒षस॑म् । न । सूर्यः॑ ।
यः । धृ॒ष्णुना॑ । शव॑सा । बाध॑ते । तमः॑ । इय॑र्ति । रे॒णुम् । बृ॒हत् । अ॒र्ह॒रि॒ऽस्वनिः॑ ॥देवी । यदि । तविषी । त्वाऽवृधा । ऊतये । इन्द्रम् । सिसक्ति । उषसम् । न । सूर्यः ।
यः । धृष्णुना । शवसा । बाधते । तमः । इयर्ति । रेणुम् । बृहत् । अर्हरिऽस्वनिः ॥devī́ ǀ yádi ǀ táviṣī ǀ tvā́-vṛdhā ǀ ūtáye ǀ índram ǀ sísakti ǀ uṣásam ǀ ná ǀ sū́ryaḥ ǀ
yáḥ ǀ dhṛṣṇúnā ǀ śávasā ǀ bā́dhate ǀ támaḥ ǀ íyarti ǀ reṇúm ǀ bṛhát ǀ arhari-svániḥ ǁdevī ǀ yadi ǀ taviṣī ǀ tvā-vṛdhā ǀ ūtaye ǀ indram ǀ sisakti ǀ uṣasam ǀ na ǀ sūryaḥ ǀ
yaḥ ǀ dhṛṣṇunā ǀ śavasā ǀ bādhate ǀ tamaḥ ǀ iyarti ǀ reṇum ǀ bṛhat ǀ arhari-svaniḥ ǁ1.56.4 Aṣṭaka 1.4.21.4Anuvāka 1.10.64
-
Ṛk 5
वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑ ।
स्व॑र्मीळ्हे॒ यन्मद॑ इंद्र॒ हर्ष्याह॑न्वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वं ॥वि यत् तिरो धरुणम् अच्युतं रजो ऽतिष्ठिपो दिव आतासु बर्हणा |
स्वर्मीऌहे यन् मद इन्द्र हर्ष्याहन् वृत्रं निर् अपाम् औब्जो अर्णवम् ||ví yáttiró dharúṇamácyutam rájó’tiṣṭhipo divá ā́tāsu barháṇā ǀ
svármīḷhe yánmáda indra hárṣyā́hanvṛtrám nírapā́maubjo arṇavám ǁvi yat tiro dharuṇam acyutaṃ rajo 'tiṣṭhipo diva ātāsu barhaṇā |
svarmīḷhe yan mada indra harṣyāhan vṛtraṃ nir apām aubjo arṇavam ||वि । यत् । ति॒रः । ध॒रुण॑म् । अच्यु॑तम् । रजः॑ । अति॑स्थिपः । दि॒वः । आता॑सु । ब॒र्हणा॑ ।
स्वः॑ऽमीळ्हे । यत् । मदे॑ । इ॒न्द्र॒ । हर्ष्या॑ । अह॑न् । वृ॒त्रम् । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥वि । यत् । तिरः । धरुणम् । अच्युतम् । रजः । अतिस्थिपः । दिवः । आतासु । बर्हणा ।
स्वःऽमीळ्हे । यत् । मदे । इन्द्र । हर्ष्या । अहन् । वृत्रम् । निः । अपाम् । औब्जः । अर्णवम् ॥ví ǀ yát ǀ tiráḥ ǀ dharúṇam ǀ ácyutam ǀ rájaḥ ǀ átisthipaḥ ǀ diváḥ ǀ ā́tāsu ǀ barháṇā ǀ
sváḥ-mīḷhe ǀ yát ǀ máde ǀ indra ǀ hárṣyā ǀ áhan ǀ vṛtrám ǀ níḥ ǀ apā́m ǀ aubjaḥ ǀ arṇavám ǁvi ǀ yat ǀ tiraḥ ǀ dharuṇam ǀ acyutam ǀ rajaḥ ǀ atisthipaḥ ǀ divaḥ ǀ ātāsu ǀ barhaṇā ǀ
svaḥ-mīḷhe ǀ yat ǀ made ǀ indra ǀ harṣyā ǀ ahan ǀ vṛtram ǀ niḥ ǀ apām ǀ aubjaḥ ǀ arṇavam ǁ1.56.5 Aṣṭaka 1.4.21.5Anuvāka 1.10.65
-
Ṛk 6
त्वं दि॒वो ध॒रुणं॑ धिष॒ ओज॑सा पृथि॒व्या इं॑द्र॒ सद॑नेषु॒ माहि॑नः ।
त्वं सु॒तस्य॒ मदे॑ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया॑ पा॒ष्या॑रुजः ॥त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः |
त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ||tvám divó dharúṇam dhiṣa ójasā pṛthivyā́ indra sádaneṣu mā́hinaḥ ǀ
tvám sutásya máde ariṇā apó ví vṛtrásya samáyā pāṣyā́rujaḥ ǁtvaṃ divo dharuṇaṃ dhiṣa ojasā pṛthivyā indra sadaneṣu māhinaḥ |
tvaṃ sutasya made ariṇā apo vi vṛtrasya samayā pāṣyārujaḥ ||त्वम् । दि॒वः । ध॒रुण॑म् । धि॒षे॒ । ओज॑सा । पृ॒थि॒व्याः । इ॒न्द्र॒ । सद॑नेषु । माहि॑नः ।
त्वम् । सु॒तस्य॑ । मदे॑ । अ॒रि॒णाः॒ । अ॒पः । वि । वृ॒त्रस्य॑ । स॒मया॑ । पा॒ष्या॑ । अ॒रु॒जः॒ ॥त्वम् । दिवः । धरुणम् । धिषे । ओजसा । पृथिव्याः । इन्द्र । सदनेषु । माहिनः ।
त्वम् । सुतस्य । मदे । अरिणाः । अपः । वि । वृत्रस्य । समया । पाष्या । अरुजः ॥tvám ǀ diváḥ ǀ dharúṇam ǀ dhiṣe ǀ ójasā ǀ pṛthivyā́ḥ ǀ indra ǀ sádaneṣu ǀ mā́hinaḥ ǀ
tvám ǀ sutásya ǀ máde ǀ ariṇāḥ ǀ apáḥ ǀ ví ǀ vṛtrásya ǀ samáyā ǀ pāṣyā́ ǀ arujaḥ ǁtvam ǀ divaḥ ǀ dharuṇam ǀ dhiṣe ǀ ojasā ǀ pṛthivyāḥ ǀ indra ǀ sadaneṣu ǀ māhinaḥ ǀ
tvam ǀ sutasya ǀ made ǀ ariṇāḥ ǀ apaḥ ǀ vi ǀ vṛtrasya ǀ samayā ǀ pāṣyā ǀ arujaḥ ǁ1.56.6 Aṣṭaka 1.4.21.6Anuvāka 1.10.66
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.