Sūkta 9
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Madhucchandas Vaiśvāmitra
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdgāyatrī (1, 3, 7, 10); gāyatrī (2, 4, 8, 9); pipīlikāmadhyānicṛdgāyatrī (5, 6)
2nd set of styles anuṣṭubh
-
Ṛk 1
इंद्रेहि॒ मत्स्यंध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः ।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥इन्द्रेहि मत्स्य् अन्धसो विश्वेभिः सोमपर्वभिः |
महां अभिष्टिर् ओजसा ||índréhi mátsyándhaso víśvebhiḥ somapárvabhiḥ ǀ
mahā́m̐ abhiṣṭírójasā ǁindrehi matsy andhaso viśvebhiḥ somaparvabhiḥ |
mahāṃ abhiṣṭir ojasā ||इन्द्र॑ । आ । इ॒हि॒ । मत्सि॑ । अन्ध॑सः । विश्वे॑भिः । सो॒म॒पर्व॑ऽभिः ।
म॒हान् । अ॒भि॒ष्टिः । ओज॑सा ॥इन्द्र । आ । इहि । मत्सि । अन्धसः । विश्वेभिः । सोमपर्वऽभिः ।
महान् । अभिष्टिः । ओजसा ॥índra ǀ ā́ ǀ ihi ǀ mátsi ǀ ándhasaḥ ǀ víśvebhiḥ ǀ somapárva-bhiḥ ǀ
mahā́n ǀ abhiṣṭíḥ ǀ ójasā ǁindra ǀ ā ǀ ihi ǀ matsi ǀ andhasaḥ ǀ viśvebhiḥ ǀ somaparva-bhiḥ ǀ
mahān ǀ abhiṣṭiḥ ǀ ojasā ǁ1.9.1 Aṣṭaka 1.1.17.1Anuvāka 1.3.11
-
Ṛk 2
एमे॑नं सृजता सु॒ते मं॒दिमिंद्रा॑य मं॒दिने॑ ।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥एम् एनं सृजता सुते मन्दिम् इन्द्राय मन्दिने |
चक्रिं विश्वानि चक्रये ||émenam sṛjatā suté mandímíndrāya mandíne ǀ
cákrim víśvāni cákraye ǁem enaṃ sṛjatā sute mandim indrāya mandine |
cakriṃ viśvāni cakraye ||आ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ।
चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥आ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ।
चक्रिम् । विश्वानि । चक्रये ॥ā́ ǀ īm ǀ enam ǀ sṛjata ǀ suté ǀ mandím ǀ índrāya ǀ mandíne ǀ
cákrim ǀ víśvāni ǀ cákraye ǁā ǀ īm ǀ enam ǀ sṛjata ǀ sute ǀ mandim ǀ indrāya ǀ mandine ǀ
cakrim ǀ viśvāni ǀ cakraye ǁ1.9.2 Aṣṭaka 1.1.17.2Anuvāka 1.3.12
-
Ṛk 3
मत्स्वा॑ सुशिप्र मं॒दिभिः॒ स्तोमे॑भिर्विश्वचर्षणे ।
सचै॒षु सव॑ने॒ष्वा ॥मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर् विश्वचर्षणे |
सचैषु सवनेष्व् आ ||mátsvā suśipra mandíbhiḥ stómebhirviśvacarṣaṇe ǀ
sácaiṣú sávaneṣvā́ ǁmatsvā suśipra mandibhi stomebhir viśvacarṣaṇe |
sacaiṣu savaneṣv ā ||मत्स्व॑ । सु॒ऽशि॒प्र॒ । म॒न्दिऽभिः॑ । स्तोमे॑भिः । वि॒श्व॒ऽच॒र्ष॒णे॒ ।
सचा॑ । ए॒षु । सव॑नेषु । आ ॥मत्स्व । सुऽशिप्र । मन्दिऽभिः । स्तोमेभिः । विश्वऽचर्षणे ।
सचा । एषु । सवनेषु । आ ॥mátsva ǀ su-śipra ǀ mandí-bhiḥ ǀ stómebhiḥ ǀ viśva-carṣaṇe ǀ
sácā ǀ eṣú ǀ sávaneṣu ǀ ā́ ǁmatsva ǀ su-śipra ǀ mandi-bhiḥ ǀ stomebhiḥ ǀ viśva-carṣaṇe ǀ
sacā ǀ eṣu ǀ savaneṣu ǀ ā ǁ1.9.3 Aṣṭaka 1.1.17.3Anuvāka 1.3.13
-
Ṛk 4
असृ॑ग्रमिंद्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत ।
अजो॑षा वृष॒भं पतिं॑ ॥असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उद् अहासत |
अजोषा वृषभम् पतिम् ||ásṛgramindra te gíraḥ práti tvā́múdahāsata ǀ
ájoṣā vṛṣabhám pátim ǁasṛgram indra te giraḥ prati tvām ud ahāsata |
ajoṣā vṛṣabham patim ||असृ॑ग्रम् । इ॒न्द्र॒ । ते॒ । गिरः॑ । प्रति॑ । त्वाम् । उत् । अ॒हा॒स॒त॒ ।
अजो॑षाः । वृ॒ष॒भम् । पति॑म् ॥असृग्रम् । इन्द्र । ते । गिरः । प्रति । त्वाम् । उत् । अहासत ।
अजोषाः । वृषभम् । पतिम् ॥ásṛgram ǀ indra ǀ te ǀ gíraḥ ǀ práti ǀ tvā́m ǀ út ǀ ahāsata ǀ
ájoṣāḥ ǀ vṛṣabhám ǀ pátim ǁasṛgram ǀ indra ǀ te ǀ giraḥ ǀ prati ǀ tvām ǀ ut ǀ ahāsata ǀ
ajoṣāḥ ǀ vṛṣabham ǀ patim ǁ1.9.4 Aṣṭaka 1.1.17.4Anuvāka 1.3.14
-
Ṛk 5
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इंद्र॒ वरे॑ण्यं ।
अस॒दित्ते॑ वि॒भु प्र॒भु ॥सं चोदय चित्रम् अर्वाग् राध इन्द्र वरेण्यम् |
असद् इत् ते विभु प्रभु ||sám codaya citrámarvā́grā́dha indra váreṇyam ǀ
ásadítte vibhú prabhú ǁsaṃ codaya citram arvāg rādha indra vareṇyam |
asad it te vibhu prabhu ||सम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राधः॑ । इ॒न्द्र॒ । वरे॑ण्यम् ।
अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥सम् । चोदय । चित्रम् । अर्वाक् । राधः । इन्द्र । वरेण्यम् ।
असत् । इत् । ते । विऽभु । प्रऽभु ॥sám ǀ codaya ǀ citrám ǀ arvā́k ǀ rā́dhaḥ ǀ indra ǀ váreṇyam ǀ
ásat ǀ ít ǀ te ǀ vi-bhú ǀ pra-bhú ǁsam ǀ codaya ǀ citram ǀ arvāk ǀ rādhaḥ ǀ indra ǀ vareṇyam ǀ
asat ǀ it ǀ te ǀ vi-bhu ǀ pra-bhu ǁ1.9.5 Aṣṭaka 1.1.17.5Anuvāka 1.3.15
-
Ṛk 6
अ॒स्मान्त्सु तत्र॑ चोद॒येंद्र॑ रा॒ये रभ॑स्वतः ।
तुवि॑द्युम्न॒ यश॑स्वतः ॥अस्मान् सु तत्र चोदयेन्द्र राये रभस्वतः |
तुविद्युम्न यशस्वतः ||asmā́ntsú tátra codayéndra rāyé rábhasvataḥ ǀ
túvidyumna yáśasvataḥ ǁasmān su tatra codayendra rāye rabhasvataḥ |
tuvidyumna yaśasvataḥ ||अ॒स्मान् । सु । तत्र॑ । चो॒द॒य॒ । इन्द्र॑ । रा॒ये । रभ॑स्वतः ।
तुवि॑ऽद्युम्न । यश॑स्वतः ॥अस्मान् । सु । तत्र । चोदय । इन्द्र । राये । रभस्वतः ।
तुविऽद्युम्न । यशस्वतः ॥asmā́n ǀ sú ǀ tátra ǀ codaya ǀ índra ǀ rāyé ǀ rábhasvataḥ ǀ
túvi-dyumna ǀ yáśasvataḥ ǁasmān ǀ su ǀ tatra ǀ codaya ǀ indra ǀ rāye ǀ rabhasvataḥ ǀ
tuvi-dyumna ǀ yaśasvataḥ ǁ1.9.6 Aṣṭaka 1.1.18.1Anuvāka 1.3.16
-
Ṛk 7
सं गोम॑दिंद्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत् ।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तं ॥सं गोमद् इन्द्र वाजवद् अस्मे पृथु श्रवो बृहत् |
विश्वायुर् धेह्य् अक्षितम् ||sám gómadindra vā́javadasmé pṛthú śrávo bṛhát ǀ
viśvā́yurdhehyákṣitam ǁsaṃ gomad indra vājavad asme pṛthu śravo bṛhat |
viśvāyur dhehy akṣitam ||सम् । गोऽम॑त् । इ॒न्द्र॒ । वाज॑ऽवत् । अ॒स्मे इति॑ । पृ॒थु । श्रवः॑ । बृ॒हत् ।
वि॒श्वऽआ॑युः । धे॒हि॒ । अक्षि॑तम् ॥सम् । गोऽमत् । इन्द्र । वाजऽवत् । अस्मे इति । पृथु । श्रवः । बृहत् ।
विश्वऽआयुः । धेहि । अक्षितम् ॥sám ǀ gó-mat ǀ indra ǀ vā́ja-vat ǀ asmé íti ǀ pṛthú ǀ śrávaḥ ǀ bṛhát ǀ
viśvá-āyuḥ ǀ dhehi ǀ ákṣitam ǁsam ǀ go-mat ǀ indra ǀ vāja-vat ǀ asme iti ǀ pṛthu ǀ śravaḥ ǀ bṛhat ǀ
viśva-āyuḥ ǀ dhehi ǀ akṣitam ǁ1.9.7 Aṣṭaka 1.1.18.2Anuvāka 1.3.17
-
Ṛk 8
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मं ।
इंद्र॒ ता र॒थिनी॒रिषः॑ ॥अस्मे धेहि श्रवो बृहद् द्युम्नं सहस्रसातमम् |
इन्द्र ता रथिनीर् इषः ||asmé dhehi śrávo bṛháddyumnám sahasrasā́tamam ǀ
índra tā́ rathínīríṣaḥ ǁasme dhehi śravo bṛhad dyumnaṃ sahasrasātamam |
indra tā rathinīr iṣaḥ ||अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् । द्यु॒म्नम् । स॒ह॒स्र॒ऽसात॑मम् ।
इन्द्र॑ । ताः । र॒थिनीः॑ । इषः॑ ॥अस्मे इति । धेहि । श्रवः । बृहत् । द्युम्नम् । सहस्रऽसातमम् ।
इन्द्र । ताः । रथिनीः । इषः ॥asmé íti ǀ dhehi ǀ śrávaḥ ǀ bṛhát ǀ dyumnám ǀ sahasra-sā́tamam ǀ
índra ǀ tā́ḥ ǀ rathínīḥ ǀ íṣaḥ ǁasme iti ǀ dhehi ǀ śravaḥ ǀ bṛhat ǀ dyumnam ǀ sahasra-sātamam ǀ
indra ǀ tāḥ ǀ rathinīḥ ǀ iṣaḥ ǁ1.9.8 Aṣṭaka 1.1.18.3Anuvāka 1.3.18
-
Ṛk 9
वसो॒रिंद्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णंत॑ ऋ॒ग्मियं॑ ।
होम॒ गंता॑रमू॒तये॑ ॥वसोर् इन्द्रं वसुपतिं गीर्भिर् गृणन्त ऋग्मियम् |
होम गन्तारम् ऊतये ||vásoríndram vásupatim gīrbhírgṛṇánta ṛgmíyam ǀ
hóma gántāramūtáye ǁvasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam |
homa gantāram ūtaye ||वसोः॑ । इन्द्र॑म् । वसु॑ऽपतिम् । गीः॒ऽभिः । गृ॒णन्तः॑ । ऋ॒ग्मिय॑म् ।
होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥वसोः । इन्द्रम् । वसुऽपतिम् । गीःऽभिः । गृणन्तः । ऋग्मियम् ।
होम । गन्तारम् । ऊतये ॥vásoḥ ǀ índram ǀ vásu-patim ǀ gīḥ-bhíḥ ǀ gṛṇántaḥ ǀ ṛgmíyam ǀ
hóma ǀ gántāram ǀ ūtáye ǁvasoḥ ǀ indram ǀ vasu-patim ǀ gīḥ-bhiḥ ǀ gṛṇantaḥ ǀ ṛgmiyam ǀ
homa ǀ gantāram ǀ ūtaye ǁ1.9.9 Aṣṭaka 1.1.18.4Anuvāka 1.3.19
-
Ṛk 10
सु॒तेसु॑ते॒ न्यो॑कसे बृ॒हद्बृ॑ह॒त एद॒रिः ।
इंद्रा॑य शू॒षम॑र्चति ॥सुते-सुते न्योकसे बृहद् बृहत एद् अरिः |
इन्द्राय शूषम् अर्चति ||sutésute nyókase bṛhádbṛhatá édaríḥ ǀ
índrāya śūṣámarcati ǁsute-sute nyokase bṛhad bṛhata ed ariḥ |
indrāya śūṣam arcati ||सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते । आ । इत् । अ॒रिः ।
इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥सुतेऽसुते । निऽओकसे । बृहत् । बृहते । आ । इत् । अरिः ।
इन्द्राय । शूषम् । अर्चति ॥suté-sute ǀ ní-okase ǀ bṛhát ǀ bṛhaté ǀ ā́ ǀ ít ǀ aríḥ ǀ
índrāya ǀ śūṣám ǀ arcati ǁsute-sute ǀ ni-okase ǀ bṛhat ǀ bṛhate ǀ ā ǀ it ǀ ariḥ ǀ
indrāya ǀ śūṣam ǀ arcati ǁ1.9.10 Aṣṭaka 1.1.18.5Anuvāka 1.3.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.