Ṛgveda · Maṇḍala 1

Sūkta 113

Uṣas (Ab) · Uṣas And Rātri (Cd) · Uṣas · Kutsa Āṅgirasa · 20 ṛks

Link
Devatā देवता
1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
Ṛṣi ऋषि
Kutsa Āṅgirasa
Chandas छन्दस्
Triṣṭubh
Metres by ṛk

1st set of styles bhurikpaṅkti (4, 8, 10, 11, 15, 16); nicṛttriṣṭup (1, 3, 9, 12, 17); virāṭtrisṭup (7, 18-20); svarāṭpaṅkti (2, 5); nicṛtpaṅkti (13, 14); triṣṭup (6)

2nd set of styles triṣṭubh

  1. Ṛk 1

    इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा॑च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा॑ ।
    यथा॒ प्रसू॑ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ॥

    इदं श्रेष्ठं ज्योतिषां ज्योतिर् आगाच् चित्रः प्रकेतो अजनिष्ट विभ्वा |
    यथा प्रसूता सवितुः सवायं एवा रात्र्य् उषसे योनिम् आरैक् ||

    idám śréṣṭham jyótiṣām jyótirā́gāccitráḥ praketó ajaniṣṭa víbhvā ǀ
    yáthā prásūtā savitúḥ savā́yam̐ evā́ rā́tryuṣáse yónimāraik ǁ

    idaṃ śreṣṭhaṃ jyotiṣāṃ jyotir āgāc citraḥ praketo ajaniṣṭa vibhvā |
    yathā prasūtā savituḥ savāyaṃ evā rātry uṣase yonim āraik ||

    इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । आ । अ॒गा॒त् । चि॒त्रः । प्र॒ऽके॒तः । अ॒ज॒नि॒ष्ट॒ । विऽभ्वा॑ ।
    यथा॑ । प्रऽसू॑ता । स॒वि॒तुः । स॒वाय॑ । ए॒व । रात्री॑ । उ॒षसे॑ । योनि॑म् । अ॒रै॒क् ॥

    इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । आ । अगात् । चित्रः । प्रऽकेतः । अजनिष्ट । विऽभ्वा ।
    यथा । प्रऽसूता । सवितुः । सवाय । एव । रात्री । उषसे । योनिम् । अरैक् ॥

    idám ǀ śréṣṭham ǀ jyótiṣām ǀ jyótiḥ ǀ ā́ ǀ agāt ǀ citráḥ ǀ pra-ketáḥ ǀ ajaniṣṭa ǀ ví-bhvā ǀ
    yáthā ǀ prá-sūtā ǀ savitúḥ ǀ savā́ya ǀ evá ǀ rā́trī ǀ uṣáse ǀ yónim ǀ araik ǁ

    idam ǀ śreṣṭham ǀ jyotiṣām ǀ jyotiḥ ǀ ā ǀ agāt ǀ citraḥ ǀ pra-ketaḥ ǀ ajaniṣṭa ǀ vi-bhvā ǀ
    yathā ǀ pra-sūtā ǀ savituḥ ǀ savāya ǀ eva ǀ rātrī ǀ uṣase ǀ yonim ǀ araik ǁ

    1.113.1 Aṣṭaka 1.8.1.0

  2. Ṛk 2

    रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै॑गु कृ॒ष्णा सद॑नान्यस्याः ।
    स॒मा॒नबं॑धू अ॒मृते॑ अनू॒ची द्यावा॒ वर्णं॑ चरत आमिना॒ने ॥

    रुशद्वत्सा रुशती श्वेत्यागाद् आरैग् उ कृष्णा सदनान्य् अस्याः |
    समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ||

    rúśadvatsā rúśatī śvetyā́gādā́raigu kṛṣṇā́ sádanānyasyāḥ ǀ
    samānábandhū amṛ́te anūcī́ dyā́vā várṇam carata āmināné ǁ

    ruśadvatsā ruśatī śvetyāgād āraig u kṛṣṇā sadanāny asyāḥ |
    samānabandhū amṛte anūcī dyāvā varṇaṃ carata āmināne ||

    रुश॑त्ऽवत्सा । रुश॑ती । श्वे॒त्या । आ । अ॒गा॒त् । अरै॑क् । ऊं॒ इति॑ । कृ॒ष्णा । सद॑नानि । अ॒स्याः॒ ।
    स॒मा॒नब॑न्धू॒ इति॑ स॒मा॒नऽब॑न्धू । अ॒मृते॒ इति॑ । अ॒नू॒ची इति॑ । द्यावा॑ । वर्ण॑म् । च॒र॒तः॒ । आ॒मि॒ना॒ने इत्या॑ऽमि॒ना॒ने ॥

    रुशत्ऽवत्सा । रुशती । श्वेत्या । आ । अगात् । अरैक् । ऊं इति । कृष्णा । सदनानि । अस्याः ।
    समानबन्धू इति समानऽबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्याऽमिनाने ॥

    rúśat-vatsā ǀ rúśatī ǀ śvetyā́ ǀ ā́ ǀ agāt ǀ áraik ǀ ūṃ íti ǀ kṛṣṇā́ ǀ sádanāni ǀ asyāḥ ǀ
    samānábandhū íti samāná-bandhū ǀ amṛ́te íti ǀ anūcī́ íti ǀ dyā́vā ǀ várṇam ǀ carataḥ ǀ āmināné ítyā-mināné ǁ

    ruśat-vatsā ǀ ruśatī ǀ śvetyā ǀ ā ǀ agāt ǀ araik ǀ ūṃ iti ǀ kṛṣṇā ǀ sadanāni ǀ asyāḥ ǀ
    samānabandhū iti samāna-bandhū ǀ amṛte iti ǀ anūcī iti ǀ dyāvā ǀ varṇam ǀ carataḥ ǀ āmināne ityā-mināne ǁ

    1.113.2 Aṣṭaka 1.8.1.0

  3. Ṛk 3

    स॒मा॒नो अध्वा॒ स्वस्रो॑रनं॒तस्तम॒न्यान्या॑ चरतो दे॒वशि॑ष्टे ।
    न मे॑थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू॑पे ॥

    समानो अध्वा स्वस्रोर् अनन्तस् तम् अन्यान्या चरतो देवशिष्टे |
    न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ||

    samānó ádhvā svásroranantástámanyā́nyā carato deváśiṣṭe ǀ
    ná methete ná tasthatuḥ suméke náktoṣā́sā sámanasā vírūpe ǁ

    samāno adhvā svasror anantas tam anyānyā carato devaśiṣṭe |
    na methete na tasthatuḥ sumeke naktoṣāsā samanasā virūpe ||

    स॒मा॒नः । अध्वा॑ । स्वस्रोः॑ । अ॒न॒न्तः । तम् । अ॒न्याऽअ॑न्या । च॒र॒तः॒ । दे॒वशि॑ष्टे॒ इति॑ दे॒वऽशि॑ष्टे ।
    न । मे॒थे॒ते॒ इति॑ । न । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । नक्तो॒षसा॑ । सऽम॑नसा । विरू॑पे॒ इति॒ विऽरू॑पे ॥

    समानः । अध्वा । स्वस्रोः । अनन्तः । तम् । अन्याऽअन्या । चरतः । देवशिष्टे इति देवऽशिष्टे ।
    न । मेथेते इति । न । तस्थतुः । सुमेके इति सुऽमेके । नक्तोषसा । सऽमनसा । विरूपे इति विऽरूपे ॥

    samānáḥ ǀ ádhvā ǀ svásroḥ ǀ anantáḥ ǀ tám ǀ anyā́-anyā ǀ carataḥ ǀ deváśiṣṭe íti devá-śiṣṭe ǀ
    ná ǀ methete íti ǀ ná ǀ tasthatuḥ ǀ suméke íti su-méke ǀ náktoṣásā ǀ sá-manasā ǀ vírūpe íti ví-rūpe ǁ

    samānaḥ ǀ adhvā ǀ svasroḥ ǀ anantaḥ ǀ tam ǀ anyā-anyā ǀ carataḥ ǀ devaśiṣṭe iti deva-śiṣṭe ǀ
    na ǀ methete iti ǀ na ǀ tasthatuḥ ǀ sumeke iti su-meke ǀ naktoṣasā ǀ sa-manasā ǀ virūpe iti vi-rūpe ǁ

    1.113.3 Aṣṭaka 1.8.1.0

  4. Ṛk 4

    भास्व॑ती ने॒त्री सू॒नृता॑ना॒मचे॑ति चि॒त्रा वि दुरो॑ न आवः ।
    प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

    भास्वती नेत्री सूनृतानाम् अचेति चित्रा वि दुरो न आवः |
    प्रार्प्या जगद् व्य् उ नो रायो अख्यद् उषा अजीगर् भुवनानि विश्वा ||

    bhā́svatī netrī́ sūnṛ́tānāmáceti citrā́ ví dúro na āvaḥ ǀ
    prā́rpyā jágadvyú no rāyó akhyaduṣā́ ajīgarbhúvanāni víśvā ǁ

    bhāsvatī netrī sūnṛtānām aceti citrā vi duro na āvaḥ |
    prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā ||

    भास्व॑ती । ने॒त्री । सू॒नृता॑नाम् । अचे॑ति । चि॒त्रा । वि । दुरः॑ । नः॒ । आ॒व॒रित्या॑वः ।
    प्र॒ऽअर्प्य॑ । जग॑त् । वि । ऊं॒ इति॑ । नः॒ । रा॒यः । अ॒ख्य॒त् । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

    भास्वती । नेत्री । सूनृतानाम् । अचेति । चित्रा । वि । दुरः । नः । आवरित्यावः ।
    प्रऽअर्प्य । जगत् । वि । ऊं इति । नः । रायः । अख्यत् । उषाः । अजीगः । भुवनानि । विश्वा ॥

    bhā́svatī ǀ netrī́ ǀ sūnṛ́tānām ǀ áceti ǀ citrā́ ǀ ví ǀ dúraḥ ǀ naḥ ǀ āvarítyāvaḥ ǀ
    pra-árpya ǀ jágat ǀ ví ǀ ūṃ íti ǀ naḥ ǀ rāyáḥ ǀ akhyat ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

    bhāsvatī ǀ netrī ǀ sūnṛtānām ǀ aceti ǀ citrā ǀ vi ǀ duraḥ ǀ naḥ ǀ āvarityāvaḥ ǀ
    pra-arpya ǀ jagat ǀ vi ǀ ūṃ iti ǀ naḥ ǀ rāyaḥ ǀ akhyat ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

    1.113.4 Aṣṭaka 1.8.1.0

  5. Ṛk 5

    जि॒ह्म॒श्ये॒३॒॑ चरि॑तवे म॒घोन्या॑भो॒गय॑ इ॒ष्टये॑ रा॒य उ॑ त्वं ।
    द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

    जिह्मश्ये चरितवे मघोन्य् आभोगय इष्टये राय उ त्वम् |
    दभ्रम् पश्यद्भ्य उर्विया विचक्ष उषा अजीगर् भुवनानि विश्वा ||

    jihmaśyé cáritave maghónyābhogáya iṣṭáye rāyá u tvam ǀ
    dabhrám páśyadbhya urviyā́ vicákṣa uṣā́ ajīgarbhúvanāni víśvā ǁ

    jihmaśye caritave maghony ābhogaya iṣṭaye rāya u tvam |
    dabhram paśyadbhya urviyā vicakṣa uṣā ajīgar bhuvanāni viśvā ||

    जि॒ह्म॒ऽश्ये॑ । चरि॑तवे । म॒घोनी॑ । आ॒ऽभो॒गये॑ । इ॒ष्टये॑ । रा॒ये । ऊं॒ इति॑ । त्व॒म् ।
    द॒भ्रम् । पश्य॑त्ऽभ्यः । उ॒र्वि॒या । वि॒ऽचक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

    जिह्मऽश्ये । चरितवे । मघोनी । आऽभोगये । इष्टये । राये । ऊं इति । त्वम् ।
    दभ्रम् । पश्यत्ऽभ्यः । उर्विया । विऽचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥

    jihma-śyé ǀ cáritave ǀ maghónī ǀ ā-bhogáye ǀ iṣṭáye ǀ rāyé ǀ ūṃ íti ǀ tvam ǀ
    dabhrám ǀ páśyat-bhyaḥ ǀ urviyā́ ǀ vi-cákṣe ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

    jihma-śye ǀ caritave ǀ maghonī ǀ ā-bhogaye ǀ iṣṭaye ǀ rāye ǀ ūṃ iti ǀ tvam ǀ
    dabhram ǀ paśyat-bhyaḥ ǀ urviyā ǀ vi-cakṣe ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

    1.113.5 Aṣṭaka 1.8.1.0

  6. Ṛk 6

    क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये॑ त्व॒मर्थ॑मिव त्वमि॒त्यै ।
    विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा॑ ॥

    क्षत्राय त्वं श्रवसे त्वम् महीया इष्टये त्वम् अर्थम् इव त्वम् इत्यै |
    विसदृशा जीविताभिप्रचक्ष उषा अजीगर् भुवनानि विश्वा ||

    kṣatrā́ya tvam śrávase tvam mahīyā́ iṣṭáye tvamárthamiva tvamityái ǀ
    vísadṛśā jīvitā́bhipracákṣa uṣā́ ajīgarbhúvanāni víśvā ǁ

    kṣatrāya tvaṃ śravase tvam mahīyā iṣṭaye tvam artham iva tvam ityai |
    visadṛśā jīvitābhipracakṣa uṣā ajīgar bhuvanāni viśvā ||

    क्ष॒त्राय॑ । त्व॒म् । श्रव॑से । त्व॒म् । म॒ही॒यै । इ॒ष्टये॑ । त्व॒म् । अर्थ॑म्ऽइव । त्व॒म् । इ॒त्यै ।
    विऽस॑दृशा । जी॒वि॒ता । अ॒भि॒ऽप्र॒चक्षे॑ । उ॒षाः । अ॒जी॒गः॒ । भुव॑नानि । विश्वा॑ ॥

    क्षत्राय । त्वम् । श्रवसे । त्वम् । महीयै । इष्टये । त्वम् । अर्थम्ऽइव । त्वम् । इत्यै ।
    विऽसदृशा । जीविता । अभिऽप्रचक्षे । उषाः । अजीगः । भुवनानि । विश्वा ॥

    kṣatrā́ya ǀ tvam ǀ śrávase ǀ tvam ǀ mahīyái ǀ iṣṭáye ǀ tvam ǀ ártham-iva ǀ tvam ǀ ityái ǀ
    ví-sadṛśā ǀ jīvitā́ ǀ abhi-pracákṣe ǀ uṣā́ḥ ǀ ajīgaḥ ǀ bhúvanāni ǀ víśvā ǁ

    kṣatrāya ǀ tvam ǀ śravase ǀ tvam ǀ mahīyai ǀ iṣṭaye ǀ tvam ǀ artham-iva ǀ tvam ǀ ityai ǀ
    vi-sadṛśā ǀ jīvitā ǀ abhi-pracakṣe ǀ uṣāḥ ǀ ajīgaḥ ǀ bhuvanāni ǀ viśvā ǁ

    1.113.6 Aṣṭaka 1.8.2.0

  7. Ṛk 7

    ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छंती॑ युव॒तिः शु॒क्रवा॑साः ।
    विश्व॒स्येशा॑ना॒ पार्थि॑वस्य॒ वस्व॒ उषो॑ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ॥

    एषा दिवो दुहिता प्रत्य् अदर्शि व्युच्छन्ती युवतिः शुक्रवासाः |
    विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्य् उच्छ ||

    eṣā́ divó duhitā́ prátyadarśi vyucchántī yuvatíḥ śukrávāsāḥ ǀ
    víśvasyéśānā pā́rthivasya vásva úṣo adyéhá subhage vyúccha ǁ

    eṣā divo duhitā praty adarśi vyucchantī yuvatiḥ śukravāsāḥ |
    viśvasyeśānā pārthivasya vasva uṣo adyeha subhage vy uccha ||

    ए॒षा । दि॒वः । दु॒हि॒ता । प्रति॑ । अ॒द॒र्शि॒ । वि॒ऽउ॒च्छन्ती॑ । यु॒व॒तिः । शु॒क्रऽवा॑साः ।
    विश्व॑स्य । ईशा॑ना । पार्थि॑वस्य । वस्वः॑ । उषः॑ । अ॒द्य । इ॒ह । सु॒ऽभ॒गे॒ । वि । उ॒च्छ॒ ॥

    एषा । दिवः । दुहिता । प्रति । अदर्शि । विऽउच्छन्ती । युवतिः । शुक्रऽवासाः ।
    विश्वस्य । ईशाना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुऽभगे । वि । उच्छ ॥

    eṣā́ ǀ diváḥ ǀ duhitā́ ǀ práti ǀ adarśi ǀ vi-ucchántī ǀ yuvatíḥ ǀ śukrá-vāsāḥ ǀ
    víśvasya ǀ ī́śānā ǀ pā́rthivasya ǀ vásvaḥ ǀ úṣaḥ ǀ adyá ǀ ihá ǀ su-bhage ǀ ví ǀ uccha ǁ

    eṣā ǀ divaḥ ǀ duhitā ǀ prati ǀ adarśi ǀ vi-ucchantī ǀ yuvatiḥ ǀ śukra-vāsāḥ ǀ
    viśvasya ǀ īśānā ǀ pārthivasya ǀ vasvaḥ ǀ uṣaḥ ǀ adya ǀ iha ǀ su-bhage ǀ vi ǀ uccha ǁ

    1.113.7 Aṣṭaka 1.8.2.0

  8. Ṛk 8

    प॒रा॒य॒ती॒नामन्वे॑ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनां ।
    व्यु॒च्छंती॑ जी॒वमु॑दी॒रयं॑त्यु॒षा मृ॒तं कं च॒न बो॒धयं॑ती ॥

    परायतीनाम् अन्व् एति पाथ आयतीनाम् प्रथमा शश्वतीनाम् |
    व्युच्छन्ती जीवम् उदीरयन्त्य् उषा मृतं कं चन बोधयन्ती ||

    parāyatīnā́mánveti pā́tha āyatīnā́m prathamā́ śáśvatīnām ǀ
    vyucchántī jīvámudīráyantyuṣā́ mṛtám kám caná bodháyantī ǁ

    parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām |
    vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī ||

    प॒रा॒ऽय॒ती॒नाम् । अनु॑ । ए॒ति॒ । पाथः॑ । आ॒ऽय॒ती॒नाम् । प्र॒थ॒मा । शश्व॑तीनाम् ।
    वि॒ऽउ॒च्छन्ती॑ । जी॒वम् । उ॒त्ऽई॒रय॑न्ती । उ॒षाः । मृ॒तम् । कम् । च॒न । बो॒धय॑न्ती ॥

    पराऽयतीनाम् । अनु । एति । पाथः । आऽयतीनाम् । प्रथमा । शश्वतीनाम् ।
    विऽउच्छन्ती । जीवम् । उत्ऽईरयन्ती । उषाः । मृतम् । कम् । चन । बोधयन्ती ॥

    parā-yatīnā́m ǀ ánu ǀ eti ǀ pā́thaḥ ǀ ā-yatīnā́m ǀ prathamā́ ǀ śáśvatīnām ǀ
    vi-ucchántī ǀ jīvám ǀ ut-īráyantī ǀ uṣā́ḥ ǀ mṛtám ǀ kám ǀ caná ǀ bodháyantī ǁ

    parā-yatīnām ǀ anu ǀ eti ǀ pāthaḥ ǀ ā-yatīnām ǀ prathamā ǀ śaśvatīnām ǀ
    vi-ucchantī ǀ jīvam ǀ ut-īrayantī ǀ uṣāḥ ǀ mṛtam ǀ kam ǀ cana ǀ bodhayantī ǁ

    1.113.8 Aṣṭaka 1.8.2.0

  9. Ṛk 9

    उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।
    यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥

    उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य |
    यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ||

    úṣo yádagním samídhe cakártha ví yádā́vaścákṣasā sū́ryasya ǀ
    yánmā́nuṣānyakṣyámāṇām̐ ájīgastáddevéṣu cakṛṣe bhadrámapnaḥ ǁ

    uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya |
    yan mānuṣān yakṣyamāṇāṃ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ ||

    उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य ।
    यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥

    उषः । यत् । अग्निम् । सम्ऽइधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य ।
    यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अप्नः ॥

    úṣaḥ ǀ yát ǀ agním ǀ sam-ídhe ǀ cakártha ǀ ví ǀ yát ǀ ā́vaḥ ǀ cákṣasā ǀ sū́ryasya ǀ
    yát ǀ mā́nuṣān ǀ yakṣyámāṇān ǀ ájīgaríti ǀ tát ǀ devéṣu ǀ cakṛṣe ǀ bhadrám ǀ ápnaḥ ǁ

    uṣaḥ ǀ yat ǀ agnim ǀ sam-idhe ǀ cakartha ǀ vi ǀ yat ǀ āvaḥ ǀ cakṣasā ǀ sūryasya ǀ
    yat ǀ mānuṣān ǀ yakṣyamāṇān ǀ ajīgariti ǀ tat ǀ deveṣu ǀ cakṛṣe ǀ bhadram ǀ apnaḥ ǁ

    1.113.9 Aṣṭaka 1.8.2.0

  10. Ṛk 10

    किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।
    अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥

    कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् |
    अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ||

    kíyātyā́ yátsamáyā bhávāti yā́ vyūṣúryā́śca nūnám vyucchā́n ǀ
    ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣamanyā́bhireti ǁ

    kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān |
    anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti ||

    किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् ।
    अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥

    कियति । आ । यत् । समया । भवाति । याः । विऽऊषुः । याः । च । नूनम् । विऽउच्छान् ।
    अनु । पूर्वाः । कृपते । वावशाना । प्रऽदीध्याना । जोषम् । अन्याभिः । एति ॥

    kíyati ǀ ā́ ǀ yát ǀ samáyā ǀ bhávāti ǀ yā́ḥ ǀ vi-ūṣúḥ ǀ yā́ḥ ǀ ca ǀ nūnám ǀ vi-ucchā́n ǀ
    ánu ǀ pū́rvāḥ ǀ kṛpate ǀ vāvaśānā́ ǀ pra-dī́dhyānā ǀ jóṣam ǀ anyā́bhiḥ ǀ eti ǁ

    kiyati ǀ ā ǀ yat ǀ samayā ǀ bhavāti ǀ yāḥ ǀ vi-ūṣuḥ ǀ yāḥ ǀ ca ǀ nūnam ǀ vi-ucchān ǀ
    anu ǀ pūrvāḥ ǀ kṛpate ǀ vāvaśānā ǀ pra-dīdhyānā ǀ joṣam ǀ anyābhiḥ ǀ eti ǁ

    1.113.10 Aṣṭaka 1.8.2.0

  11. Ṛk 11

    ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छंती॑मु॒षसं॒ मर्त्या॑सः ।
    अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते यं॑ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥

    ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः |
    अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ||

    īyúṣṭé yé pū́rvatarāmápaśyanvyucchántīmuṣásam mártyāsaḥ ǀ
    asmā́bhirū nú praticákṣyābhūdó té yanti yé aparī́ṣu páśyān ǁ

    īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ |
    asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān ||

    ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः ।
    अ॒स्माभिः॑ । ऊं॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥

    ईयुः । ते । ये । पूर्वऽतराम् । अपश्यन् । विऽउच्छन्तीम् । उषसम् । मर्त्यासः ।
    अस्माभिः । ऊं इति । नु । प्रतिऽचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥

    īyúḥ ǀ té ǀ yé ǀ pū́rva-tarām ǀ ápaśyan ǀ vi-ucchántīm ǀ uṣásam ǀ mártyāsaḥ ǀ
    asmā́bhiḥ ǀ ūṃ íti ǀ nú ǀ prati-cákṣyā ǀ abhūt ǀ ó íti ǀ té ǀ yanti ǀ yé ǀ aparī́ṣu ǀ páśyān ǁ

    īyuḥ ǀ te ǀ ye ǀ pūrva-tarām ǀ apaśyan ǀ vi-ucchantīm ǀ uṣasam ǀ martyāsaḥ ǀ
    asmābhiḥ ǀ ūṃ iti ǀ nu ǀ prati-cakṣyā ǀ abhūt ǀ o iti ǀ te ǀ yanti ǀ ye ǀ aparīṣu ǀ paśyān ǁ

    1.113.11 Aṣṭaka 1.8.3.0

  12. Ṛk 12

    या॒व॒यद्द्वे॑षा ऋत॒पा ऋ॑ते॒जाः सु॑म्ना॒वरी॑ सू॒नृता॑ ई॒रयं॑ती ।
    सु॒मं॒ग॒लीर्बिभ्र॑ती दे॒ववी॑तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ॥

    यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती |
    सुमङ्गलीर् बिभ्रती देववीतिम् इहाद्योषः श्रेष्ठतमा व्य् उच्छ ||

    yāvayáddveṣā ṛtapā́ ṛtejā́ḥ sumnāvárī sūnṛ́tā īráyantī ǀ
    sumaṅgalī́rbíbhratī devávītimihā́dyóṣaḥ śréṣṭhatamā vyúccha ǁ

    yāvayaddveṣā ṛtapā ṛtejāḥ sumnāvarī sūnṛtā īrayantī |
    sumaṅgalīr bibhratī devavītim ihādyoṣaḥ śreṣṭhatamā vy uccha ||

    य॒व॒यत्ऽद्वे॑षाः । ऋ॒त॒ऽपाः । ऋ॒ते॒ऽजाः । सु॒म्न॒ऽवरी॑ । सू॒नृताः॑ । ई॒रय॑न्ती ।
    सु॒ऽम॒ङ्ग॒लीः । बिभ्र॑ती । दे॒वऽवी॑तिम् । इ॒ह । अ॒द्य । उ॒षः॒ । श्रेष्ठ॑ऽतमा । वि । उ॒च्छ॒ ॥

    यवयत्ऽद्वेषाः । ऋतऽपाः । ऋतेऽजाः । सुम्नऽवरी । सूनृताः । ईरयन्ती ।
    सुऽमङ्गलीः । बिभ्रती । देवऽवीतिम् । इह । अद्य । उषः । श्रेष्ठऽतमा । वि । उच्छ ॥

    yavayát-dveṣāḥ ǀ ṛta-pā́ḥ ǀ ṛte-jā́ḥ ǀ sumna-várī ǀ sūnṛ́tāḥ ǀ īráyantī ǀ
    su-maṅgalī́ḥ ǀ bíbhratī ǀ devá-vītim ǀ ihá ǀ adyá ǀ uṣaḥ ǀ śréṣṭha-tamā ǀ ví ǀ uccha ǁ

    yavayat-dveṣāḥ ǀ ṛta-pāḥ ǀ ṛte-jāḥ ǀ sumna-varī ǀ sūnṛtāḥ ǀ īrayantī ǀ
    su-maṅgalīḥ ǀ bibhratī ǀ deva-vītim ǀ iha ǀ adya ǀ uṣaḥ ǀ śreṣṭha-tamā ǀ vi ǀ uccha ǁ

    1.113.12 Aṣṭaka 1.8.3.0

  13. Ṛk 13

    शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।
    अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥

    शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी |
    अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ||

    śáśvatpuróṣā́ vyúvāsa devyátho adyédám vyā́vo maghónī ǀ
    átho vyúcchādúttarām̐ ánu dyū́najárāmṛ́tā carati svadhā́bhiḥ ǁ

    śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī |
    atho vy ucchād uttarāṃ anu dyūn ajarāmṛtā carati svadhābhiḥ ||

    शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ ।
    अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥

    शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी ।
    अथो इति । वि । उच्छात् । उत्ऽतरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥

    śáśvat ǀ purā́ ǀ uṣā́ḥ ǀ ví ǀ uvāsa ǀ devī́ ǀ átho íti ǀ adyá ǀ idám ǀ ví ǀ āvaḥ ǀ maghónī ǀ
    átho íti ǀ ví ǀ ucchāt ǀ út-tarān ǀ ánu ǀ dyū́n ǀ ajárā ǀ amṛ́tā ǀ carati ǀ svadhā́bhiḥ ǁ

    śaśvat ǀ purā ǀ uṣāḥ ǀ vi ǀ uvāsa ǀ devī ǀ atho iti ǀ adya ǀ idam ǀ vi ǀ āvaḥ ǀ maghonī ǀ
    atho iti ǀ vi ǀ ucchāt ǀ ut-tarān ǀ anu ǀ dyūn ǀ ajarā ǀ amṛtā ǀ carati ǀ svadhābhiḥ ǁ

    1.113.13 Aṣṭaka 1.8.3.0

  14. Ṛk 14

    व्यं१॒॑जिभि॑र्दि॒व आता॑स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं॑ दे॒व्या॑वः ।
    प्र॒बो॒धयं॑त्यरु॒णेभि॒रश्वै॒रोषा या॑ति सु॒युजा॒ रथे॑न ॥

    व्य् अञ्जिभिर् दिव आतास्व् अद्यौद् अप कृष्णां निर्णिजं देव्य् आवः |
    प्रबोधयन्त्य् अरुणेभिर् अश्वैर् ओषा याति सुयुजा रथेन ||

    vyáñjíbhirdivá ā́tāsvadyaudápa kṛṣṇā́m nirṇíjam devyā́vaḥ ǀ
    prabodháyantyaruṇébhiráśvairóṣā́ yāti suyújā ráthena ǁ

    vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ |
    prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena ||

    वि । अ॒ञ्जिऽभिः॑ । दि॒वः । आता॑सु । अ॒द्यौ॒त् । अप॑ । कृ॒ष्णाम् । निः॒ऽनिज॑म् । दे॒वी । आ॒व॒रित्या॑वः ।
    प्र॒ऽबो॒धय॑न्ती । अ॒रु॒णेभिः॑ । अश्वैः॑ । आ । उ॒षाः । या॒ति॒ । सु॒ऽयुजा॑ । रथे॑न ॥

    वि । अञ्जिऽभिः । दिवः । आतासु । अद्यौत् । अप । कृष्णाम् । निःऽनिजम् । देवी । आवरित्यावः ।
    प्रऽबोधयन्ती । अरुणेभिः । अश्वैः । आ । उषाः । याति । सुऽयुजा । रथेन ॥

    ví ǀ añjí-bhiḥ ǀ diváḥ ǀ ā́tāsu ǀ adyaut ǀ ápa ǀ kṛṣṇā́m ǀ niḥ-níjam ǀ devī́ ǀ āvarítyāvaḥ ǀ
    pra-bodháyantī ǀ aruṇébhiḥ ǀ áśvaiḥ ǀ ā́ ǀ uṣā́ḥ ǀ yāti ǀ su-yújā ǀ ráthena ǁ

    vi ǀ añji-bhiḥ ǀ divaḥ ǀ ātāsu ǀ adyaut ǀ apa ǀ kṛṣṇām ǀ niḥ-nijam ǀ devī ǀ āvarityāvaḥ ǀ
    pra-bodhayantī ǀ aruṇebhiḥ ǀ aśvaiḥ ǀ ā ǀ uṣāḥ ǀ yāti ǀ su-yujā ǀ rathena ǁ

    1.113.14 Aṣṭaka 1.8.3.0

  15. Ṛk 15

    आ॒वहं॑ती॒ पोष्या॒ वार्या॑णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना ।
    ई॒युषी॑णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ॥

    आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना |
    ईयुषीणाम् उपमा शश्वतीनां विभातीनाम् प्रथमोषा व्य् अश्वैत् ||

    āváhantī póṣyā vā́ryāṇi citrám ketúm kṛṇute cékitānā ǀ
    īyúṣīṇāmupamā́ śáśvatīnām vibhātīnā́m prathamóṣā́ vyáśvait ǁ

    āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā |
    īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait ||

    आ॒ऽवह॑न्ती । पोष्या॑ । वार्या॑णि । चि॒त्रम् । के॒तुम् । कृ॒णु॒ते॒ । चेकि॑ताना ।
    ई॒युषी॑णाम् । उ॒प॒ऽमा । शश्व॑तीनाम् । वि॒ऽभा॒ती॒नाम् । प्र॒थ॒मा । उ॒षाः । वि । अ॒श्वै॒त् ॥

    आऽवहन्ती । पोष्या । वार्याणि । चित्रम् । केतुम् । कृणुते । चेकिताना ।
    ईयुषीणाम् । उपऽमा । शश्वतीनाम् । विऽभातीनाम् । प्रथमा । उषाः । वि । अश्वैत् ॥

    ā-váhantī ǀ póṣyā ǀ vā́ryāṇi ǀ citrám ǀ ketúm ǀ kṛṇute ǀ cékitānā ǀ
    īyúṣīṇām ǀ upa-mā́ ǀ śáśvatīnām ǀ vi-bhātīnā́m ǀ prathamā́ ǀ uṣā́ḥ ǀ ví ǀ aśvait ǁ

    ā-vahantī ǀ poṣyā ǀ vāryāṇi ǀ citram ǀ ketum ǀ kṛṇute ǀ cekitānā ǀ
    īyuṣīṇām ǀ upa-mā ǀ śaśvatīnām ǀ vi-bhātīnām ǀ prathamā ǀ uṣāḥ ǀ vi ǀ aśvait ǁ

    1.113.15 Aṣṭaka 1.8.3.0

  16. Ṛk 16

    उदी॑र्ध्वं जी॒वो असु॑र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति ।
    आरै॒क्पंथां॒ यात॑वे॒ सूर्या॒याग॑न्म॒ यत्र॑ प्रति॒रंत॒ आयुः॑ ॥

    उद् ईर्ध्वं जीवो असुर् न आगाद् अप प्रागात् तम आ ज्योतिर् एति |
    आरैक् पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ||

    údīrdhvam jīvó ásurna ā́gādápa prā́gāttáma ā́ jyótireti ǀ
    ā́raikpánthām yā́tave sū́ryāyā́ganma yátra pratiránta ā́yuḥ ǁ

    ud īrdhvaṃ jīvo asur na āgād apa prāgāt tama ā jyotir eti |
    āraik panthāṃ yātave sūryāyāganma yatra pratiranta āyuḥ ||

    उत् । ई॒र्ध्व॒म् । जी॒वः । असुः॑ । नः॒ । आ । अ॒गा॒त् । अप॑ । प्र । अ॒गा॒त् । तमः॑ । आ । ज्योतिः॑ । ए॒ति॒ ।
    अरै॑क् । पन्था॑म् । यात॑वे । सूर्या॑य । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥

    उत् । ईर्ध्वम् । जीवः । असुः । नः । आ । अगात् । अप । प्र । अगात् । तमः । आ । ज्योतिः । एति ।
    अरैक् । पन्थाम् । यातवे । सूर्याय । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥

    út ǀ īrdhvam ǀ jīváḥ ǀ ásuḥ ǀ naḥ ǀ ā́ ǀ agāt ǀ ápa ǀ prá ǀ agāt ǀ támaḥ ǀ ā́ ǀ jyótiḥ ǀ eti ǀ
    áraik ǀ pánthām ǀ yā́tave ǀ sū́ryāya ǀ áganma ǀ yátra ǀ pra-tiránte ǀ ā́yuḥ ǁ

    ut ǀ īrdhvam ǀ jīvaḥ ǀ asuḥ ǀ naḥ ǀ ā ǀ agāt ǀ apa ǀ pra ǀ agāt ǀ tamaḥ ǀ ā ǀ jyotiḥ ǀ eti ǀ
    araik ǀ panthām ǀ yātave ǀ sūryāya ǀ aganma ǀ yatra ǀ pra-tirante ǀ āyuḥ ǁ

    1.113.16 Aṣṭaka 1.8.4.0

  17. Ṛk 17

    स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।
    अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥

    स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः |
    अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ||

    syū́manā vācá údiyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ ǀ
    adyā́ táduccha gṛṇaté maghonyasmé ā́yurní didīhi prajā́vat ǁ

    syūmanā vāca ud iyarti vahni stavāno rebha uṣaso vibhātīḥ |
    adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat ||

    स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः ।
    अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥

    स्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उषसः । विऽभातीः ।
    अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजाऽवत् ॥

    syū́manā ǀ vācáḥ ǀ út ǀ iyarti ǀ váhniḥ ǀ stávānaḥ ǀ rebháḥ ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ
    adyá ǀ tát ǀ uccha ǀ gṛṇaté ǀ maghoni ǀ asmé íti ǀ ā́yuḥ ǀ ní ǀ didīhi ǀ prajā́-vat ǁ

    syūmanā ǀ vācaḥ ǀ ut ǀ iyarti ǀ vahniḥ ǀ stavānaḥ ǀ rebhaḥ ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ
    adya ǀ tat ǀ uccha ǀ gṛṇate ǀ maghoni ǀ asme iti ǀ āyuḥ ǀ ni ǀ didīhi ǀ prajā-vat ǁ

    1.113.17 Aṣṭaka 1.8.4.0

  18. Ṛk 18

    या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छंति॑ दा॒शुषे॒ मर्त्या॑य ।
    वा॒योरि॑व सू॒नृता॑नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा॑ ॥

    या गोमतीर् उषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय |
    वायोर् इव सूनृतानाम् उदर्के ता अश्वदा अश्नवत् सोमसुत्वा ||

    yā́ gómatīruṣásaḥ sárvavīrā vyucchánti dāśúṣe mártyāya ǀ
    vāyóriva sūnṛ́tānāmudarké tā́ aśvadā́ aśnavatsomasútvā ǁ

    yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya |
    vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā ||

    याः । गोऽम॑तीः । उ॒षसः॑ । सर्व॑ऽवीराः । वि॒ऽउ॒च्छन्ति॑ । दा॒शुषे॑ । मर्त्या॑य ।
    वा॒योःऽइ॑व । सू॒नृता॑नाम् । उ॒त्ऽअ॒र्के । ताः । अ॒श्व॒ऽदाः । अ॒श्न॒व॒त् । सो॒म॒ऽसुत्वा॑ ॥

    याः । गोऽमतीः । उषसः । सर्वऽवीराः । विऽउच्छन्ति । दाशुषे । मर्त्याय ।
    वायोःऽइव । सूनृतानाम् । उत्ऽअर्के । ताः । अश्वऽदाः । अश्नवत् । सोमऽसुत्वा ॥

    yā́ḥ ǀ gó-matīḥ ǀ uṣásaḥ ǀ sárva-vīrāḥ ǀ vi-ucchánti ǀ dāśúṣe ǀ mártyāya ǀ
    vāyóḥ-iva ǀ sūnṛ́tānām ǀ ut-arké ǀ tā́ḥ ǀ aśva-dā́ḥ ǀ aśnavat ǀ soma-sútvā ǁ

    yāḥ ǀ go-matīḥ ǀ uṣasaḥ ǀ sarva-vīrāḥ ǀ vi-ucchanti ǀ dāśuṣe ǀ martyāya ǀ
    vāyoḥ-iva ǀ sūnṛtānām ǀ ut-arke ǀ tāḥ ǀ aśva-dāḥ ǀ aśnavat ǀ soma-sutvā ǁ

    1.113.18 Aṣṭaka 1.8.4.0

  19. Ṛk 19

    मा॒ता दे॒वाना॒मदि॑ते॒रनी॑कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा॑हि ।
    प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॒॑च्छा नो॒ जने॑ जनय विश्ववारे ॥

    माता देवानाम् अदितेर् अनीकं यज्ञस्य केतुर् बृहती वि भाहि |
    प्रशस्तिकृद् ब्रह्मणे नो व्य् उच्छा नो जने जनय विश्ववारे ||

    mātā́ devā́nāmáditeránīkam yajñásya ketúrbṛhatī́ ví bhāhi ǀ
    praśastikṛ́dbráhmaṇe no vyúcchā́ no jáne janaya viśvavāre ǁ

    mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi |
    praśastikṛd brahmaṇe no vy ucchā no jane janaya viśvavāre ||

    मा॒ता । दे॒वाना॑म् । अदि॑तेः । अनी॑कम् । य॒ज्ञस्य॑ । के॒तुः । बृ॒ह॒ती । वि । भा॒हि॒ ।
    प्र॒श॒स्ति॒ऽकृत् । ब्रह्म॑णे । नः॒ । वि । उ॒च्छ॒ । आ । नः॒ । जने॑ । ज॒न॒य॒ । वि॒श्व॒ऽवा॒रे॒ ॥

    माता । देवानाम् । अदितेः । अनीकम् । यज्ञस्य । केतुः । बृहती । वि । भाहि ।
    प्रशस्तिऽकृत् । ब्रह्मणे । नः । वि । उच्छ । आ । नः । जने । जनय । विश्वऽवारे ॥

    mātā́ ǀ devā́nām ǀ áditeḥ ǀ ánīkam ǀ yajñásya ǀ ketúḥ ǀ bṛhatī́ ǀ ví ǀ bhāhi ǀ
    praśasti-kṛ́t ǀ bráhmaṇe ǀ naḥ ǀ ví ǀ uccha ǀ ā́ ǀ naḥ ǀ jáne ǀ janaya ǀ viśva-vāre ǁ

    mātā ǀ devānām ǀ aditeḥ ǀ anīkam ǀ yajñasya ǀ ketuḥ ǀ bṛhatī ǀ vi ǀ bhāhi ǀ
    praśasti-kṛt ǀ brahmaṇe ǀ naḥ ǀ vi ǀ uccha ǀ ā ǀ naḥ ǀ jane ǀ janaya ǀ viśva-vāre ǁ

    1.113.19 Aṣṭaka 1.8.4.0

  20. Ṛk 20

    यच्चि॒त्रमप्न॑ उ॒षसो॒ वहं॑तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रं ।
    तन्नो॑ मि॒त्रो वरु॑णो मामहंता॒मदि॑तिः॒ सिंधुः॑ पृथि॒वी उ॒त द्यौः ॥

    यच् चित्रम् अप्न उषसो वहन्तीजानाय शशमानाय भद्रम् |
    तन् नो मित्रो वरुणो मामहन्ताम् अदितिः सिन्धुः पृथिवी उत द्यौः ||

    yáccitrámápna uṣáso váhantījānā́ya śaśamānā́ya bhadrám ǀ
    tánno mitró váruṇo māmahantāmáditiḥ síndhuḥ pṛthivī́ utá dyáuḥ ǁ

    yac citram apna uṣaso vahantījānāya śaśamānāya bhadram |
    tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ ||

    यत् । चि॒त्रम् । अप्नः॑ । उ॒षसः॑ । वह॑न्ति । ई॒जा॒नाय॑ । श॒श॒मा॒नाय॑ । भ॒द्रम् ।
    तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥

    यत् । चित्रम् । अप्नः । उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् ।
    तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥

    yát ǀ citrám ǀ ápnaḥ ǀ uṣásaḥ ǀ váhanti ǀ ījānā́ya ǀ śaśamānā́ya ǀ bhadrám ǀ
    tát ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ mamahantām ǀ áditiḥ ǀ síndhuḥ ǀ pṛthivī́ ǀ utá ǀ dyáuḥ ǁ

    yat ǀ citram ǀ apnaḥ ǀ uṣasaḥ ǀ vahanti ǀ ījānāya ǀ śaśamānāya ǀ bhadram ǀ
    tat ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ mamahantām ǀ aditiḥ ǀ sindhuḥ ǀ pṛthivī ǀ uta ǀ dyauḥ ǁ

    1.113.20 Aṣṭaka 1.8.4.0

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 1.113 · Uṣas (Ab) · Uṣas And Rātri (Cd) · Uṣas

Interpretations

Kapali Shastri

Ṛk 1

Commentary

This light has arrived, the fairest of lights; born is the far-extending many-hued Ray. Even as Ushas, issued from Night, gives birth to the sun, the Night gives birth to the Dawn.

Ṛk 2

Commentary

Parent of the sun, the fair, bright Dawn has arrived; the dark Night has vacated her dwellings; akin, immortal, succeeding each other, effacing each other's colour, they traverse the heavens.

Ṛk 3

Commentary

Common, unending is the path of the sisters; guided by the sun alternately they travel. Well-lighted, different in hues, common-minded, Night and Dawn do not clash, neither do they tarry.

Ṛk 4

Commentary

Brilliant guide to happy truths is known Ushas of many hues; she has opened our Doors. Lighting up the entire world, she has illuminated wealth for us. She issues forth all the worlds.

Ṛk 5

Commentary

Opulent (Ushas) sets the lazy on the right course – one for enjoyment, one for sacrifice, one for wealth. To those seeing little (she gives) extended vision. Ushas issues forth all the worlds.

Ṛk 6

Commentary

One to hero-strength, one to Hearing, one to great sacrifice, one to pursue his gain, - all to follow their different vocations, Ushas issues forth all the worlds.

Ṛk 7

Commentary

Daughter of Heaven, youthful, white-robed, sovereign of all riches of the Earth, is beheld lighting up all. Shine full here today, O auspicious Ushas.

Ṛk 8

Commentary

She follows the path of the Dawns that are past. First of the eternal Dawns to come, Ushas glows urging the living, awakening someone who was dead.

Ṛk 9

Commentary

O Ushas, as thou hast caused Agni to be kindled and with the eye of the sun revealed the world, and awakened men for sacrifice, thou hast done good service to the Gods.

Ṛk 10

Commentary

How long a time the Dawns have risen and the Dawns will rise ? Yearning for Dawns that have been, she shines. Shining bright, she goes forth with the others (to follow).

Ṛk 11

Commentary

The mortals who beheld the ancient Dawn rising have gone . She is now beheld direct by us and they will come who will behold her in after-times.

Footnote

to their destination of Truth-Light

Ṛk 12

Commentary

Scatterer of foes, guardian of Truth, manifest for Truth, happy, impeller of true words, most auspicious, carrying the advent of the Gods, O Ushas, most excellent, shine full here today.

Ṛk 13

Commentary

Divine Ushas hath dawned continually from of old. And endowed with wealth, she has now manifested this (world). So will she shine on days to come. Ageless, immortal, she moves on her own strength.

Ṛk 14

Commentary

Ushas lights up with her lustres the vast quarters of the Heavens. She has thrown off her dark form; and awakening (the world) Ushas approaches in her car drawn by purple steeds.

Ṛk 15

Commentary

Bringing with her life-sustaining blessings, awakening Ushas imparts the wondrous radiance. Model of the countluss Dawns gone by, she appears the first of the brilliant ones to come.

Ṛk 16

Commentary

Arise! Our inspiring being has emerged; darkness has departed; light approach s. It opens the way for the sun to travel. Let us repair to where life increases.

Footnote

the soul within

Ṛk 17

Commentary

The singer of lauds, praising the refulgent Dawns, utters the well-connected words. Affluent one, dawn today upon him who lauds thee. Shine down on us life with progeny.

Ṛk 18

Commentary

May he who has pressed libation gain, at the conclusion of his praise-songs like the wind (speeding) the Dawns bestowing Cows, Heroes, Steeds, shining upon the mortal who offers (oblations).

Ṛk 19

Commentary

Mother of the Gods, face of Aditi, ensign of sacrifice, great one, shine forth; approving of us, shine on our Word. Cherished by all, do thou make us felt among the people.

Ṛk 20

Commentary

Whatever wonderful capacity the Dawns bring to him who offers praises and worship is a blessing. May Mitra, Varuna, Aditi, Ocean, Earth and Heaven grant it.