Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.9
Saṃhitā
उषो॒ यद॒ग्निं स॒मिधे॑ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य ।
यन्मानु॑षान्य॒क्ष्यमा॑णाँ॒ अजी॑ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ॥
उषो यद् अग्निं समिधे चकर्थ वि यद् आवश् चक्षसा सूर्यस्य |
यन् मानुषान् यक्ष्यमाणां अजीगस् तद् देवेषु चकृषे भद्रम् अप्नः ||
úṣo yádagním samídhe cakártha ví yádā́vaścákṣasā sū́ryasya ǀ
yánmā́nuṣānyakṣyámāṇām̐ ájīgastáddevéṣu cakṛṣe bhadrámapnaḥ ǁ
uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya |
yan mānuṣān yakṣyamāṇāṃ ajīgas tad deveṣu cakṛṣe bhadram apnaḥ ||
Padapāṭha
उषः॑ । यत् । अ॒ग्निम् । स॒म्ऽइधे॑ । च॒कर्थ॑ । वि । यत् । आवः॑ । चक्ष॑सा । सूर्य॑स्य ।
यत् । मानु॑षान् । य॒क्ष्यमा॑णान् । अजी॑ग॒रिति॑ । तत् । दे॒वेषु॑ । च॒कृ॒षे॒ । भ॒द्रम् । अप्नः॑ ॥
उषः । यत् । अग्निम् । सम्ऽइधे । चकर्थ । वि । यत् । आवः । चक्षसा । सूर्यस्य ।
यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अप्नः ॥
úṣaḥ ǀ yát ǀ agním ǀ sam-ídhe ǀ cakártha ǀ ví ǀ yát ǀ ā́vaḥ ǀ cákṣasā ǀ sū́ryasya ǀ
yát ǀ mā́nuṣān ǀ yakṣyámāṇān ǀ ájīgaríti ǀ tát ǀ devéṣu ǀ cakṛṣe ǀ bhadrám ǀ ápnaḥ ǁ
uṣaḥ ǀ yat ǀ agnim ǀ sam-idhe ǀ cakartha ǀ vi ǀ yat ǀ āvaḥ ǀ cakṣasā ǀ sūryasya ǀ
yat ǀ mānuṣān ǀ yakṣyamāṇān ǀ ajīgariti ǀ tat ǀ deveṣu ǀ cakṛṣe ǀ bhadram ǀ apnaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.02.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.