Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.10
Saṃhitā
किया॒त्या यत्स॒मया॒ भवा॑ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् ।
अनु॒ पूर्वाः॑ कृपते वावशा॒ना प्र॒दीध्या॑ना॒ जोष॑म॒न्याभि॑रेति ॥
कियात्य् आ यत् समया भवाति या व्यूषुर् याश् च नूनं व्युच्छान् |
अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषम् अन्याभिर् एति ||
kíyātyā́ yátsamáyā bhávāti yā́ vyūṣúryā́śca nūnám vyucchā́n ǀ
ánu pū́rvāḥ kṛpate vāvaśānā́ pradī́dhyānā jóṣamanyā́bhireti ǁ
kiyāty ā yat samayā bhavāti yā vyūṣur yāś ca nūnaṃ vyucchān |
anu pūrvāḥ kṛpate vāvaśānā pradīdhyānā joṣam anyābhir eti ||
Padapāṭha
किय॑ति । आ । यत् । स॒मया॑ । भवा॑ति । याः । वि॒ऽऊ॒षुः । याः । च॒ । नू॒नम् । वि॒ऽउ॒च्छान् ।
अनु॑ । पूर्वाः॑ । कृ॒प॒ते॒ । वा॒व॒शा॒ना । प्र॒ऽदीध्या॑ना । जोष॑म् । अ॒न्याभिः॑ । ए॒ति॒ ॥
कियति । आ । यत् । समया । भवाति । याः । विऽऊषुः । याः । च । नूनम् । विऽउच्छान् ।
अनु । पूर्वाः । कृपते । वावशाना । प्रऽदीध्याना । जोषम् । अन्याभिः । एति ॥
kíyati ǀ ā́ ǀ yát ǀ samáyā ǀ bhávāti ǀ yā́ḥ ǀ vi-ūṣúḥ ǀ yā́ḥ ǀ ca ǀ nūnám ǀ vi-ucchā́n ǀ
ánu ǀ pū́rvāḥ ǀ kṛpate ǀ vāvaśānā́ ǀ pra-dī́dhyānā ǀ jóṣam ǀ anyā́bhiḥ ǀ eti ǁ
kiyati ǀ ā ǀ yat ǀ samayā ǀ bhavāti ǀ yāḥ ǀ vi-ūṣuḥ ǀ yāḥ ǀ ca ǀ nūnam ǀ vi-ucchān ǀ
anu ǀ pūrvāḥ ǀ kṛpate ǀ vāvaśānā ǀ pra-dīdhyānā ǀ joṣam ǀ anyābhiḥ ǀ eti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.02.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.