Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.13
Saṃhitā
शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो॑ अ॒द्येदं व्या॑वो म॒घोनी॑ ।
अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता॑ चरति स्व॒धाभिः॑ ॥
शश्वत् पुरोषा व्य् उवास देव्य् अथो अद्येदं व्य् आवो मघोनी |
अथो व्य् उच्छाद् उत्तरां अनु द्यून् अजरामृता चरति स्वधाभिः ||
śáśvatpuróṣā́ vyúvāsa devyátho adyédám vyā́vo maghónī ǀ
átho vyúcchādúttarām̐ ánu dyū́najárāmṛ́tā carati svadhā́bhiḥ ǁ
śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī |
atho vy ucchād uttarāṃ anu dyūn ajarāmṛtā carati svadhābhiḥ ||
Padapāṭha
शश्व॑त् । पु॒रा । उ॒षाः । वि । उ॒वा॒स॒ । दे॒वी । अथो॒ इति॑ । अ॒द्य । इ॒दम् । वि । आ॒वः॒ । म॒घोनी॑ ।
अथो॒ इति॑ । वि । उ॒च्छा॒त् । उत्ऽत॑रान् । अनु॑ । द्यून् । अ॒जरा॑ । अ॒मृता॑ । च॒र॒ति॒ । स्व॒धाभिः॑ ॥
शश्वत् । पुरा । उषाः । वि । उवास । देवी । अथो इति । अद्य । इदम् । वि । आवः । मघोनी ।
अथो इति । वि । उच्छात् । उत्ऽतरान् । अनु । द्यून् । अजरा । अमृता । चरति । स्वधाभिः ॥
śáśvat ǀ purā́ ǀ uṣā́ḥ ǀ ví ǀ uvāsa ǀ devī́ ǀ átho íti ǀ adyá ǀ idám ǀ ví ǀ āvaḥ ǀ maghónī ǀ
átho íti ǀ ví ǀ ucchāt ǀ út-tarān ǀ ánu ǀ dyū́n ǀ ajárā ǀ amṛ́tā ǀ carati ǀ svadhā́bhiḥ ǁ
śaśvat ǀ purā ǀ uṣāḥ ǀ vi ǀ uvāsa ǀ devī ǀ atho iti ǀ adya ǀ idam ǀ vi ǀ āvaḥ ǀ maghonī ǀ
atho iti ǀ vi ǀ ucchāt ǀ ut-tarān ǀ anu ǀ dyūn ǀ ajarā ǀ amṛtā ǀ carati ǀ svadhābhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.13
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.03.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.