Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.17
Saṃhitā
स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा॑नो रे॒भ उ॒षसो॑ विभा॒तीः ।
अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ॥
स्यूमना वाच उद् इयर्ति वह्नि स्तवानो रेभ उषसो विभातीः |
अद्या तद् उच्छ गृणते मघोन्य् अस्मे आयुर् नि दिदीहि प्रजावत् ||
syū́manā vācá údiyarti váhniḥ stávāno rebhá uṣáso vibhātī́ḥ ǀ
adyā́ táduccha gṛṇaté maghonyasmé ā́yurní didīhi prajā́vat ǁ
syūmanā vāca ud iyarti vahni stavāno rebha uṣaso vibhātīḥ |
adyā tad uccha gṛṇate maghony asme āyur ni didīhi prajāvat ||
Padapāṭha
स्यूम॑ना । वा॒चः । उत् । इ॒य॒र्ति॒ । वह्निः॑ । स्तवा॑नः । रे॒भः । उ॒षसः॑ । वि॒ऽभा॒तीः ।
अ॒द्य । तत् । उ॒च्छ॒ । गृ॒ण॒ते । म॒घो॒नि॒ । अ॒स्मे इति॑ । आयुः॑ । नि । दि॒दी॒हि॒ । प्र॒जाऽव॑त् ॥
स्यूमना । वाचः । उत् । इयर्ति । वह्निः । स्तवानः । रेभः । उषसः । विऽभातीः ।
अद्य । तत् । उच्छ । गृणते । मघोनि । अस्मे इति । आयुः । नि । दिदीहि । प्रजाऽवत् ॥
syū́manā ǀ vācáḥ ǀ út ǀ iyarti ǀ váhniḥ ǀ stávānaḥ ǀ rebháḥ ǀ uṣásaḥ ǀ vi-bhātī́ḥ ǀ
adyá ǀ tát ǀ uccha ǀ gṛṇaté ǀ maghoni ǀ asmé íti ǀ ā́yuḥ ǀ ní ǀ didīhi ǀ prajā́-vat ǁ
syūmanā ǀ vācaḥ ǀ ut ǀ iyarti ǀ vahniḥ ǀ stavānaḥ ǀ rebhaḥ ǀ uṣasaḥ ǀ vi-bhātīḥ ǀ
adya ǀ tat ǀ uccha ǀ gṛṇate ǀ maghoni ǀ asme iti ǀ āyuḥ ǀ ni ǀ didīhi ǀ prajā-vat ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.04.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.