Ṛgveda · Maṇḍala 1 · Sūkta 113
Ṛk 1.113.11
Saṃhitā
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छंती॑मु॒षसं॒ मर्त्या॑सः ।
अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑भू॒दो ते यं॑ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ॥
ईयुष् टे ये पूर्वतराम् अपश्यन् व्युच्छन्तीम् उषसम् मर्त्यासः |
अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ||
īyúṣṭé yé pū́rvatarāmápaśyanvyucchántīmuṣásam mártyāsaḥ ǀ
asmā́bhirū nú praticákṣyābhūdó té yanti yé aparī́ṣu páśyān ǁ
īyuṣ ṭe ye pūrvatarām apaśyan vyucchantīm uṣasam martyāsaḥ |
asmābhir ū nu praticakṣyābhūd o te yanti ye aparīṣu paśyān ||
Padapāṭha
ई॒युः । ते । ये । पूर्व॑ऽतराम् । अप॑श्यन् । वि॒ऽउ॒च्छन्ती॑म् । उ॒षस॑म् । मर्त्या॑सः ।
अ॒स्माभिः॑ । ऊं॒ इति॑ । नु । प्र॒ति॒ऽचक्ष्या॑ । अ॒भू॒त् । ओ इति॑ । ते । य॒न्ति॒ । ये । अ॒प॒रीषु॑ । पश्या॑न् ॥
ईयुः । ते । ये । पूर्वऽतराम् । अपश्यन् । विऽउच्छन्तीम् । उषसम् । मर्त्यासः ।
अस्माभिः । ऊं इति । नु । प्रतिऽचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥
īyúḥ ǀ té ǀ yé ǀ pū́rva-tarām ǀ ápaśyan ǀ vi-ucchántīm ǀ uṣásam ǀ mártyāsaḥ ǀ
asmā́bhiḥ ǀ ūṃ íti ǀ nú ǀ prati-cákṣyā ǀ abhūt ǀ ó íti ǀ té ǀ yanti ǀ yé ǀ aparī́ṣu ǀ páśyān ǁ
īyuḥ ǀ te ǀ ye ǀ pūrva-tarām ǀ apaśyan ǀ vi-ucchantīm ǀ uṣasam ǀ martyāsaḥ ǀ
asmābhiḥ ǀ ūṃ iti ǀ nu ǀ prati-cakṣyā ǀ abhūt ǀ o iti ǀ te ǀ yanti ǀ ye ǀ aparīṣu ǀ paśyān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.113.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.03.00
- Devatā देवता
- 1: Uṣas (Ab); Uṣas And Rātri (Cd); 2-20: Uṣas
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.