Sūkta 116
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2, 8, 9, 12-15, 18, 20, 24, 25); triṣṭup (3-5, 7, 21); virāṭtrisṭup (1, 10, 22, 23); bhurikpaṅkti (6, 16, 19); paṅktiḥ (11); svarāṭpaṅkti (17)
2nd set of styles triṣṭubh
-
Ṛk 1
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृं॑जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥नासत्याभ्याम् बर्हिर् इव प्र वृञ्जे स्तोमां इयर्म्य् अभ्रियेव वातः |
याव् अर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ||nā́satyābhyām barhíriva prá vṛñje stómām̐ iyarmyabhríyeva vā́taḥ ǀ
yā́várbhagāya vimadā́ya jāyā́m senājúvā nyūhátū ráthena ǁnāsatyābhyām barhir iva pra vṛñje stomāṃ iyarmy abhriyeva vātaḥ |
yāv arbhagāya vimadāya jāyāṃ senājuvā nyūhatū rathena ||नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ ।
यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥नासत्याभ्याम् । बर्हिःऽइव । प्र । वृञ्जे । स्तोमान् । इयर्मि । अभ्रियाऽइव । वातः ।
यौ । अर्भगाय । विऽमदाय । जायाम् । सेनाऽजुवा । निऽऊहतुः । रथेन ॥nā́satyābhyām ǀ barhíḥ-iva ǀ prá ǀ vṛñje ǀ stómān ǀ iyarmi ǀ abhríyā-iva ǀ vā́taḥ ǀ
yáu ǀ árbhagāya ǀ vi-madā́ya ǀ jāyā́m ǀ senā-júvā ǀ ni-ūhátuḥ ǀ ráthena ǁnāsatyābhyām ǀ barhiḥ-iva ǀ pra ǀ vṛñje ǀ stomān ǀ iyarmi ǀ abhriyā-iva ǀ vātaḥ ǀ
yau ǀ arbhagāya ǀ vi-madāya ǀ jāyām ǀ senā-juvā ǀ ni-ūhatuḥ ǀ rathena ǁ1.116.1 Aṣṭaka 1.8.8.0
-
Ṛk 2
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।
तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥वीऌउपत्मभिर् आशुहेमभिर् वा देवानां वा जूतिभिः शाशदाना |
तद् रासभो नासत्या सहस्रम् आजा यमस्य प्रधने जिगाय ||vīḷupátmabhirāśuhémabhirvā devā́nām vā jūtíbhiḥ śā́śadānā ǀ
tádrā́sabho nāsatyā sahásramājā́ yamásya pradháne jigāya ǁvīḷupatmabhir āśuhemabhir vā devānāṃ vā jūtibhiḥ śāśadānā |
tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya ||वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना ।
तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥वीळुपत्मऽभिः । आशुहेमऽभिः । वा । देवानाम् । वा । जूतिऽभिः । शाशदाना ।
तत् । रासभः । नासत्या । सहस्रम् । आजा । यमस्य । प्रऽधने । जिगाय ॥vīḷupátma-bhiḥ ǀ āśuhéma-bhiḥ ǀ vā ǀ devā́nām ǀ vā ǀ jūtí-bhiḥ ǀ śā́śadānā ǀ
tát ǀ rā́sabhaḥ ǀ nāsatyā ǀ sahásram ǀ ājā́ ǀ yamásya ǀ pra-dháne ǀ jigāya ǁvīḷupatma-bhiḥ ǀ āśuhema-bhiḥ ǀ vā ǀ devānām ǀ vā ǀ jūti-bhiḥ ǀ śāśadānā ǀ
tat ǀ rāsabhaḥ ǀ nāsatyā ǀ sahasram ǀ ājā ǀ yamasya ǀ pra-dhane ǀ jigāya ǁ1.116.2 Aṣṭaka 1.8.8.0
-
Ṛk 3
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरंतरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥तुग्रो ह भुज्युम् अश्विनोदमेघे रयिं न कश् चिन् ममृवां अवाहाः |
तम् ऊहथुर् नौभिर् आत्मन्वतीभिर् अन्तरिक्षप्रुद्भिर् अपोदकाभिः ||túgro ha bhujyúmaśvinodameghé rayím ná káścinmamṛvā́m̐ ávāhāḥ ǀ
támūhathurnaubhírātmanvátībhirantarikṣaprúdbhirápodakābhiḥ ǁtugro ha bhujyum aśvinodameghe rayiṃ na kaś cin mamṛvāṃ avāhāḥ |
tam ūhathur naubhir ātmanvatībhir antarikṣaprudbhir apodakābhiḥ ||तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवान् । अव॑ । अ॒हाः॒ ।
तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥तुग्रः । ह । भुज्युम् । अश्विना । उदऽमेघे । रयिम् । न । कः । चित् । ममृऽवान् । अव । अहाः ।
तम् । ऊहथुः । नौभिः । आत्मन्ऽवतीभिः । अन्तरिक्षप्रुत्ऽभिः । अपऽउदकाभिः ॥túgraḥ ǀ ha ǀ bhujyúm ǀ aśvinā ǀ uda-meghé ǀ rayím ǀ ná ǀ káḥ ǀ cit ǀ mamṛ-vā́n ǀ áva ǀ ahāḥ ǀ
tám ǀ ūhathuḥ ǀ naubhíḥ ǀ ātman-vátībhiḥ ǀ antarikṣaprút-bhiḥ ǀ ápa-udakābhiḥ ǁtugraḥ ǀ ha ǀ bhujyum ǀ aśvinā ǀ uda-meghe ǀ rayim ǀ na ǀ kaḥ ǀ cit ǀ mamṛ-vān ǀ ava ǀ ahāḥ ǀ
tam ǀ ūhathuḥ ǀ naubhiḥ ǀ ātman-vatībhiḥ ǀ antarikṣaprut-bhiḥ ǀ apa-udakābhiḥ ǁ1.116.3 Aṣṭaka 1.8.8.0
-
Ṛk 4
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥तिस्रः क्षपस् त्रिर् अहातिव्रजद्भिर् नासत्या भुज्युम् ऊहथुः पतङ्गैः |
समुद्रस्य धन्वन्न् आर्द्रस्य पारे त्रिभी रथैः शतपद्भिः षऌअश्वैः ||tisráḥ kṣápastríráhātivrájadbhirnā́satyā bhujyúmūhathuḥ pataṃgáiḥ ǀ
samudrásya dhánvannārdrásya pāré tribhī́ ráthaiḥ śatápadbhiḥ ṣáḷaśvaiḥ ǁtisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ |
samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaḷaśvaiḥ ||ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः ।
स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥तिस्रः । क्षपः । त्रिः । अहा । अतिव्रजत्ऽभिः । नासत्या । भुज्युम् । ऊहथुः । पतङ्गैः ।
समुद्रस्य । धन्वन् । आर्द्रस्य । पारे । त्रिऽभिः । रथैः । शतपत्ऽभिः । षट्ऽअश्वैः ॥tisráḥ ǀ kṣápaḥ ǀ tríḥ ǀ áhā ǀ ativrájat-bhiḥ ǀ nā́satyā ǀ bhujyúm ǀ ūhathuḥ ǀ pataṅgáiḥ ǀ
samudrásya ǀ dhánvan ǀ ārdrásya ǀ pāré ǀ tri-bhíḥ ǀ ráthaiḥ ǀ śatápat-bhiḥ ǀ ṣáṭ-aśvaiḥ ǁtisraḥ ǀ kṣapaḥ ǀ triḥ ǀ ahā ǀ ativrajat-bhiḥ ǀ nāsatyā ǀ bhujyum ǀ ūhathuḥ ǀ pataṅgaiḥ ǀ
samudrasya ǀ dhanvan ǀ ārdrasya ǀ pāre ǀ tri-bhiḥ ǀ rathaiḥ ǀ śatapat-bhiḥ ǀ ṣaṭ-aśvaiḥ ǁ1.116.4 Aṣṭaka 1.8.8.0
-
Ṛk 5
अ॒ना॒रं॒भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांसं॑ ॥अनारम्भणे तद् अवीरयेथाम् अनास्थाने अग्रभणे समुद्रे |
यद् अश्विना ऊहथुर् भुज्युम् अस्तं शतारित्रां नावम् आतस्थिवांसम् ||anārambhaṇé tádavīrayethāmanāsthāné agrabhaṇé samudré ǀ
yádaśvinā ūháthurbhujyúmástam śatā́ritrām nā́vamātasthivā́ṃsam ǁanārambhaṇe tad avīrayethām anāsthāne agrabhaṇe samudre |
yad aśvinā ūhathur bhujyum astaṃ śatāritrāṃ nāvam ātasthivāṃsam ||अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे ।
यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥अनारम्भणे । तत् । अवीरयेथाम् । अनास्थाने । अग्रभणे । समुद्रे ।
यत् । अश्विना । ऊहथुः । भुज्युम् । अस्तम् । शतऽअरित्रान् । नावम् । आतस्थिवांसम् ॥anārambhaṇé ǀ tát ǀ avīrayethām ǀ anāsthāné ǀ agrabhaṇé ǀ samudré ǀ
yát ǀ aśvinā ǀ ūháthuḥ ǀ bhujyúm ǀ ástam ǀ śatá-aritrān ǀ nā́vam ǀ ātasthivā́ṃsam ǁanārambhaṇe ǀ tat ǀ avīrayethām ǀ anāsthāne ǀ agrabhaṇe ǀ samudre ǀ
yat ǀ aśvinā ǀ ūhathuḥ ǀ bhujyum ǀ astam ǀ śata-aritrān ǀ nāvam ǀ ātasthivāṃsam ǁ1.116.5 Aṣṭaka 1.8.8.0
-
Ṛk 6
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥यम् अश्विना ददथुः श्वेतम् अश्वम् अघाश्वाय शश्वद् इत् स्वस्ति |
तद् वां दात्रम् महि कीर्तेन्यम् भूत् पैद्वो वाजी सदम् इद् धव्यो अर्यः ||yámaśvinā dadáthuḥ śvetámáśvamaghā́śvāya śáśvadítsvastí ǀ
tádvām dātrám máhi kīrtényam bhūtpaidvó vājī́ sádamíddhávyo aryáḥ ǁyam aśvinā dadathuḥ śvetam aśvam aghāśvāya śaśvad it svasti |
tad vāṃ dātram mahi kīrtenyam bhūt paidvo vājī sadam id dhavyo aryaḥ ||यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति ।
तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥यम् । अश्विना । ददथुः । श्वेतम् । अश्वम् । अघऽअश्वाय । शश्वत् । इत् । स्वस्ति ।
तत् । वाम् । दात्रम् । महि । कीर्तेन्यम् । भूत् । पैद्वः । वाजी । सदम् । इत् । हव्यः । अर्यः ॥yám ǀ aśvinā ǀ dadáthuḥ ǀ śvetám ǀ áśvam ǀ aghá-aśvāya ǀ śáśvat ǀ ít ǀ svastí ǀ
tát ǀ vām ǀ dātrám ǀ máhi ǀ kīrtényam ǀ bhūt ǀ paidváḥ ǀ vājī́ ǀ sádam ǀ ít ǀ hávyaḥ ǀ aryáḥ ǁyam ǀ aśvinā ǀ dadathuḥ ǀ śvetam ǀ aśvam ǀ agha-aśvāya ǀ śaśvat ǀ it ǀ svasti ǀ
tat ǀ vām ǀ dātram ǀ mahi ǀ kīrtenyam ǀ bhūt ǀ paidvaḥ ǀ vājī ǀ sadam ǀ it ǀ havyaḥ ǀ aryaḥ ǁ1.116.6 Aṣṭaka 1.8.9.0
-
Ṛk 7
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिं ।
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कुं॒भाँ अ॑सिंचतं॒ सुरा॑याः ॥युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतम् पुरन्धिम् |
कारोतराच् छफाद् अश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ||yuvám narā stuvaté pajriyā́ya kakṣī́vate aradatam púraṃdhim ǀ
kārotarā́cchaphā́dáśvasya vṛ́ṣṇaḥ śatám kumbhā́m̐ asiñcatam súrāyāḥ ǁyuvaṃ narā stuvate pajriyāya kakṣīvate aradatam purandhim |
kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṃ asiñcataṃ surāyāḥ ||यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् ।
का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥युवम् । नरा । स्तुवते । पज्रियाय । कक्षीवते । अरदतम् । पुरम्ऽधिम् ।
कारोतरात् । शफात् । अश्वस्य । वृष्णः । शतम् । कुम्भान् । असिञ्चतम् । सुरायाः ॥yuvám ǀ narā ǀ stuvaté ǀ pajriyā́ya ǀ kakṣī́vate ǀ aradatam ǀ púram-dhim ǀ
kārotarā́t ǀ śaphā́t ǀ áśvasya ǀ vṛ́ṣṇaḥ ǀ śatám ǀ kumbhā́n ǀ asiñcatam ǀ súrāyāḥ ǁyuvam ǀ narā ǀ stuvate ǀ pajriyāya ǀ kakṣīvate ǀ aradatam ǀ puram-dhim ǀ
kārotarāt ǀ śaphāt ǀ aśvasya ǀ vṛṣṇaḥ ǀ śatam ǀ kumbhān ǀ asiñcatam ǀ surāyāḥ ǁ1.116.7 Aṣṭaka 1.8.9.0
-
Ṛk 8
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तं ।
ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् |
ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ||himénāgním ghraṃsámavārayethām pitumátīmū́rjamasmā adhattam ǀ
ṛbī́se átrimaśvinā́vanītamúnninyathuḥ sárvagaṇam svastí ǁhimenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam |
ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti ||हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॑म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् ।
ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥हिमेन । अग्निम् । घ्रंसम् । अवारयेथाम् । पितुऽमतीम् । ऊर्जम् । अस्मै । अधत्तम् ।
ऋबीसे । अत्रिम् । अश्विना । अवऽनीतम् । उत् । निन्यथुः । सर्वऽगणम् । स्वस्ति ॥hiména ǀ agním ǀ ghraṃsám ǀ avārayethām ǀ pitu-mátīm ǀ ū́rjam ǀ asmai ǀ adhattam ǀ
ṛbī́se ǀ átrim ǀ aśvinā ǀ áva-nītam ǀ út ǀ ninyathuḥ ǀ sárva-gaṇam ǀ svastí ǁhimena ǀ agnim ǀ ghraṃsam ǀ avārayethām ǀ pitu-matīm ǀ ūrjam ǀ asmai ǀ adhattam ǀ
ṛbīse ǀ atrim ǀ aśvinā ǀ ava-nītam ǀ ut ǀ ninyathuḥ ǀ sarva-gaṇam ǀ svasti ǁ1.116.8 Aṣṭaka 1.8.9.0
-
Ṛk 9
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रं ।
क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥परावतं नासत्यानुदेथाम् उच्चाबुध्नं चक्रथुर् जिह्मबारम् |
क्षरन्न् आपो न पायनाय राये सहस्राय तृष्यते गोतमस्य ||párāvatám nāsatyānudethāmuccā́budhnam cakrathurjihmábāram ǀ
kṣárannā́po ná pāyánāya rāyé sahásrāya tṛ́ṣyate gótamasya ǁparāvataṃ nāsatyānudethām uccābudhnaṃ cakrathur jihmabāram |
kṣarann āpo na pāyanāya rāye sahasrāya tṛṣyate gotamasya ||परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् ।
क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥परा । अवतम् । नासत्या । अनुदेथाम् । उच्चाऽबुध्नम् । चक्रथुः । जिह्मऽबारम् ।
क्षरन् । आपः । न । पायनाय । राये । सहस्राय । तृष्यते । गोतमस्य ॥párā ǀ avatám ǀ nāsatyā ǀ anudethām ǀ uccā́-budhnam ǀ cakrathuḥ ǀ jihmá-bāram ǀ
kṣáran ǀ ā́paḥ ǀ ná ǀ pāyánāya ǀ rāyé ǀ sahásrāya ǀ tṛ́ṣyate ǀ gótamasya ǁparā ǀ avatam ǀ nāsatyā ǀ anudethām ǀ uccā-budhnam ǀ cakrathuḥ ǀ jihma-bāram ǀ
kṣaran ǀ āpaḥ ǀ na ǀ pāyanāya ǀ rāye ǀ sahasrāya ǀ tṛṣyate ǀ gotamasya ǁ1.116.9 Aṣṭaka 1.8.9.0
-
Ṛk 10
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामुं॑चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीनां॑ ॥जुजुरुषो नासत्योत वव्रिम् प्रामुञ्चतं द्रापिम् इव च्यवानात् |
प्रातिरतं जहितस्यायुर् दस्राद् इत् पतिम् अकृणुतं कनीनाम् ||jujurúṣo nāsatyotá vavrím prā́muñcatam drāpímiva cyávānāt ǀ
prā́tiratam jahitásyā́yurdasrā́dítpátimakṛṇutam kanī́nām ǁjujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt |
prātirataṃ jahitasyāyur dasrād it patim akṛṇutaṃ kanīnām ||जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् ।
प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥जुजुरुषः । नासत्या । उत । वव्रिम् । प्र । अमुञ्चतम् । द्रापिम्ऽइव । च्यवानात् ।
प्र । अतिरतम् । जहितस्य । आयुः । दस्रा । आत् । इत् । पतिम् । अकृणुतम् । कनीनाम् ॥jujurúṣaḥ ǀ nāsatyā ǀ utá ǀ vavrím ǀ prá ǀ amuñcatam ǀ drāpím-iva ǀ cyávānāt ǀ
prá ǀ atiratam ǀ jahitásya ǀ ā́yuḥ ǀ dasrā ǀ ā́t ǀ ít ǀ pátim ǀ akṛṇutam ǀ kanī́nām ǁjujuruṣaḥ ǀ nāsatyā ǀ uta ǀ vavrim ǀ pra ǀ amuñcatam ǀ drāpim-iva ǀ cyavānāt ǀ
pra ǀ atiratam ǀ jahitasya ǀ āyuḥ ǀ dasrā ǀ āt ǀ it ǀ patim ǀ akṛṇutam ǀ kanīnām ǁ1.116.10 Aṣṭaka 1.8.9.0
-
Ṛk 11
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थं ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वंद॑नाय ॥तद् वां नरा शंस्यं राध्यं चाभिष्टिमन् नासत्या वरूथम् |
यद् विद्वांसा निधिम् इवापगूऌहम् उद् दर्शताद् ऊपथुर् वन्दनाय ||tádvām narā śáṃsyam rā́dhyam cābhiṣṭimánnāsatyā várūtham ǀ
yádvidvā́ṃsā nidhímivā́pagūḷhamúddarśatā́dūpáthurvándanāya ǁtad vāṃ narā śaṃsyaṃ rādhyaṃ cābhiṣṭiman nāsatyā varūtham |
yad vidvāṃsā nidhim ivāpagūḷham ud darśatād ūpathur vandanāya ||तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् ।
यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टिऽमत् । नासत्या । वरूथम् ।
यत् । विद्वांसा । निधिम्ऽइव । अपऽगूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय ॥tát ǀ vām ǀ narā ǀ śáṃsyam ǀ rā́dhyam ǀ ca ǀ abhiṣṭi-mát ǀ nāsatyā ǀ várūtham ǀ
yát ǀ vidvā́ṃsā ǀ nidhím-iva ǀ ápa-gūḷham ǀ út ǀ darśatā́t ǀ ūpáthuḥ ǀ vándanāya ǁtat ǀ vām ǀ narā ǀ śaṃsyam ǀ rādhyam ǀ ca ǀ abhiṣṭi-mat ǀ nāsatyā ǀ varūtham ǀ
yat ǀ vidvāṃsā ǀ nidhim-iva ǀ apa-gūḷham ǀ ut ǀ darśatāt ǀ ūpathuḥ ǀ vandanāya ǁ1.116.11 Aṣṭaka 1.8.10.1Anuvāka 1.17.11
-
Ṛk 12
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिं ।
द॒ध्यङ् ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥तद् वां नरा सनये दंस उग्रम् आविष् कृणोमि तन्यतुर् न वृष्टिम् |
दध्यङ् ह यन् मध्व् आथर्वणो वाम् अश्वस्य शीर्ष्णा प्र यद् ईम् उवाच ||tádvām narā sanáye dáṃsa ugrámāvíṣkṛṇomi tanyatúrná vṛṣṭím ǀ
dadhyáṅ ha yánmádhvātharvaṇó vāmáśvasya śīrṣṇā́ prá yádīmuvā́ca ǁtad vāṃ narā sanaye daṃsa ugram āviṣ kṛṇomi tanyatur na vṛṣṭim |
dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā pra yad īm uvāca ||तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । त॒न्य॒तुः । न । वृ॒ष्टिम् ।
द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । शी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥तत् । वाम् । नरा । सनये । दंसः । उग्रम् । आविः । कृणोमि । तन्यतुः । न । वृष्टिम् ।
दध्यङ् । ह । यत् । मधु । आथर्वणः । वाम् । अश्वस्य । शीर्ष्णा । प्र । यत् । ईम् । उवाच ॥tát ǀ vām ǀ narā ǀ sanáye ǀ dáṃsaḥ ǀ ugrám ǀ āvíḥ ǀ kṛṇomi ǀ tanyatúḥ ǀ ná ǀ vṛṣṭím ǀ
dadhyáṅ ǀ ha ǀ yát ǀ mádhu ǀ ātharvaṇáḥ ǀ vām ǀ áśvasya ǀ śīrṣṇā́ ǀ prá ǀ yát ǀ īm ǀ uvā́ca ǁtat ǀ vām ǀ narā ǀ sanaye ǀ daṃsaḥ ǀ ugram ǀ āviḥ ǀ kṛṇomi ǀ tanyatuḥ ǀ na ǀ vṛṣṭim ǀ
dadhyaṅ ǀ ha ǀ yat ǀ madhu ǀ ātharvaṇaḥ ǀ vām ǀ aśvasya ǀ śīrṣṇā ǀ pra ǀ yat ǀ īm ǀ uvāca ǁ1.116.12 Aṣṭaka 1.8.10.2Anuvāka 1.17.12
-
Ṛk 13
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तं ॥अजोहवीन् नासत्या करा वाम् महे यामन् पुरुभुजा पुरन्धिः |
श्रुतं तच् छासुर् इव वध्रिमत्या हिरण्यहस्तम् अश्विनाव् अदत्तम् ||ájohavīnnāsatyā karā́ vām mahé yā́manpurubhujā púraṃdhiḥ ǀ
śrutám tácchā́suriva vadhrimatyā́ híraṇyahastamaśvināvadattam ǁajohavīn nāsatyā karā vām mahe yāman purubhujā purandhiḥ |
śrutaṃ tac chāsur iva vadhrimatyā hiraṇyahastam aśvināv adattam ||अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः ।
श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्रि॒ऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥अजोहवीत् । नासत्या । करा । वाम् । महे । यामन् । पुरुऽभुजा । पुरम्ऽधिः ।
श्रुतम् । तत् । शासुःऽइव । वध्रिऽमत्याः । हिरण्यऽहस्तम् । अश्विनौ । अदत्तम् ॥ájohavīt ǀ nāsatyā ǀ karā́ ǀ vām ǀ mahé ǀ yā́man ǀ puru-bhujā ǀ púram-dhiḥ ǀ
śrutám ǀ tát ǀ śā́suḥ-iva ǀ vadhri-matyā́ḥ ǀ híraṇya-hastam ǀ aśvinau ǀ adattam ǁajohavīt ǀ nāsatyā ǀ karā ǀ vām ǀ mahe ǀ yāman ǀ puru-bhujā ǀ puram-dhiḥ ǀ
śrutam ǀ tat ǀ śāsuḥ-iva ǀ vadhri-matyāḥ ǀ hiraṇya-hastam ǀ aśvinau ǀ adattam ǁ1.116.13 Aṣṭaka 1.8.10.3Anuvāka 1.17.13
-
Ṛk 14
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तं ।
उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥आस्नो वृकस्य वर्तिकाम् अभीके युवं नरा नासत्यामुमुक्तम् |
उतो कविम् पुरुभुजा युवं ह कृपमाणम् अकृणुतं विचक्षे ||āsnó vṛ́kasya vártikāmabhī́ke yuvám narā nāsatyāmumuktam ǀ
utó kavím purubhujā yuvám ha kṛ́pamāṇamakṛṇutam vicákṣe ǁāsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam |
uto kavim purubhujā yuvaṃ ha kṛpamāṇam akṛṇutaṃ vicakṣe ||आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।
उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥आस्नः । वृकस्य । वर्तिकाम् । अभीके । युवम् । नरा । नासत्या । अमुमुक्तम् ।
उतो इति । कविम् । पुरुऽभुजा । युवम् । ह । कृपमाणम् । अकृणुतम् । विऽचक्षे ॥āsnáḥ ǀ vṛ́kasya ǀ vártikām ǀ abhī́ke ǀ yuvám ǀ narā ǀ nāsatyā ǀ amumuktam ǀ
utó íti ǀ kavím ǀ puru-bhujā ǀ yuvám ǀ ha ǀ kṛ́pamāṇam ǀ akṛṇutam ǀ vi-cákṣe ǁāsnaḥ ǀ vṛkasya ǀ vartikām ǀ abhīke ǀ yuvam ǀ narā ǀ nāsatyā ǀ amumuktam ǀ
uto iti ǀ kavim ǀ puru-bhujā ǀ yuvam ǀ ha ǀ kṛpamāṇam ǀ akṛṇutam ǀ vi-cakṣe ǁ1.116.14 Aṣṭaka 1.8.10.4Anuvāka 1.17.14
-
Ṛk 15
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायां ।
स॒द्यो जंघा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तं ॥चरित्रं हि वेर् इवाच्छेदि पर्णम् आजा खेलस्य परितक्म्यायाम् |
सद्यो जङ्घाम् आयसीं विश्पलायै धने हिते सर्तवे प्रत्य् अधत्तम् ||carítram hí vérivā́cchedi parṇámājā́ khelásya páritakmyāyām ǀ
sadyó jáṅghāmā́yasīm viśpálāyai dháne hité sártave prátyadhattam ǁcaritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām |
sadyo jaṅghām āyasīṃ viśpalāyai dhane hite sartave praty adhattam ||च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् ।
स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥चरित्रम् । हि । वेःऽइव । अच्छेदि । पर्णम् । आजा । खेलस्य । परिऽतक्म्यायाम् ।
सद्यः । जङ्घाम् । आयसीम् । विश्पलायै । धने । हिते । सर्तवे । प्रति । अधत्तम् ॥carítram ǀ hí ǀ véḥ-iva ǀ ácchedi ǀ parṇám ǀ ājā́ ǀ khelásya ǀ pári-takmyāyām ǀ
sadyáḥ ǀ jáṅghām ǀ ā́yasīm ǀ viśpálāyai ǀ dháne ǀ hité ǀ sártave ǀ práti ǀ adhattam ǁcaritram ǀ hi ǀ veḥ-iva ǀ acchedi ǀ parṇam ǀ ājā ǀ khelasya ǀ pari-takmyāyām ǀ
sadyaḥ ǀ jaṅghām ǀ āyasīm ǀ viśpalāyai ǀ dhane ǀ hite ǀ sartave ǀ prati ǀ adhattam ǁ1.116.15 Aṣṭaka 1.8.10.5Anuvāka 1.17.15
-
Ṛk 16
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तांधं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार |
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ||śatám meṣā́nvṛkyé cakṣadānámṛjrā́śvam tám pitā́ndhám cakāra ǀ
tásmā akṣī́ nāsatyā vicákṣa ā́dhattam dasrā bhiṣajāvanarván ǁśatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra |
tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan ||श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।
तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥शतम् । मेषान् । वृक्ये । चक्षदानम् । ऋज्रऽअश्वम् । तम् । पिता । अन्धम् । चकार ।
तस्मै । अक्षी इति । नासत्या । विऽचक्षे । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन् ॥śatám ǀ meṣā́n ǀ vṛkyé ǀ cakṣadānám ǀ ṛjrá-aśvam ǀ tám ǀ pitā́ ǀ andhám ǀ cakāra ǀ
tásmai ǀ akṣī́ íti ǀ nāsatyā ǀ vi-cákṣe ǀ ā́ ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarván ǁśatam ǀ meṣān ǀ vṛkye ǀ cakṣadānam ǀ ṛjra-aśvam ǀ tam ǀ pitā ǀ andham ǀ cakāra ǀ
tasmai ǀ akṣī iti ǀ nāsatyā ǀ vi-cakṣe ǀ ā ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarvan ǁ1.116.16 Aṣṭaka 1.8.11.1Anuvāka 1.17.16
-
Ṛk 17
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जयं॑ती ।
विश्वे॑ दे॒वा अन्व॑मन्यंत हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठद् अर्वता जयन्ती |
विश्वे देवा अन्व् अमन्यन्त हृद्भिः सम् उ श्रिया नासत्या सचेथे ||ā́ vām rátham duhitā́ sū́ryasya kā́rṣmevātiṣṭhadárvatā jáyantī ǀ
víśve devā́ ánvamanyanta hṛdbhíḥ sámu śriyā́ nāsatyā sacethe ǁā vāṃ rathaṃ duhitā sūryasya kārṣmevātiṣṭhad arvatā jayantī |
viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe ||आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती ।
विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊं॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥आ । वाम् । रथम् । दुहिता । सूर्यस्य । कार्ष्मऽइव । अतिष्ठत् । अर्वता । जयन्ती ।
विश्वे । देवाः । अनु । अमन्यन्त । हृत्ऽभिः । सम् । ऊं इति । श्रिया । नासत्या । सचेथे इति ॥ā́ ǀ vām ǀ rátham ǀ duhitā́ ǀ sū́ryasya ǀ kā́rṣma-iva ǀ atiṣṭhat ǀ árvatā ǀ jáyantī ǀ
víśve ǀ devā́ḥ ǀ ánu ǀ amanyanta ǀ hṛt-bhíḥ ǀ sám ǀ ūṃ íti ǀ śriyā́ ǀ nāsatyā ǀ sacethe íti ǁā ǀ vām ǀ ratham ǀ duhitā ǀ sūryasya ǀ kārṣma-iva ǀ atiṣṭhat ǀ arvatā ǀ jayantī ǀ
viśve ǀ devāḥ ǀ anu ǀ amanyanta ǀ hṛt-bhiḥ ǀ sam ǀ ūṃ iti ǀ śriyā ǀ nāsatyā ǀ sacethe iti ǁ1.116.17 Aṣṭaka 1.8.11.2Anuvāka 1.17.17
-
Ṛk 18
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हयं॑ता ।
रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥यद् अयातं दिवोदासाय वर्तिर् भरद्वाजायाश्विना हयन्ता |
रेवद् उवाह सचनो रथो वां वृषभश् च शिंशुमारश् च युक्ता ||yádáyātam dívodāsāya vartírbharádvājāyāśvinā háyantā ǀ
reváduvāha sacanó rátho vām vṛṣabháśca śiṃśumā́raśca yuktā́ ǁyad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā |
revad uvāha sacano ratho vāṃ vṛṣabhaś ca śiṃśumāraś ca yuktā ||यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता ।
रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥यत् । अयातम् । दिवःऽदासाय । वर्तिः । भरत्ऽवाजाय । अश्विना । हयन्ता ।
रेवत् । उवाह । सचनः । रथः । वाम् । वृषभः । च । शिंशुमारः । च । युक्ता ॥yát ǀ áyātam ǀ dívaḥ-dāsāya ǀ vartíḥ ǀ bharát-vājāya ǀ aśvinā ǀ háyantā ǀ
revát ǀ uvāha ǀ sacanáḥ ǀ ráthaḥ ǀ vām ǀ vṛṣabháḥ ǀ ca ǀ śiṃśumā́raḥ ǀ ca ǀ yuktā́ ǁyat ǀ ayātam ǀ divaḥ-dāsāya ǀ vartiḥ ǀ bharat-vājāya ǀ aśvinā ǀ hayantā ǀ
revat ǀ uvāha ǀ sacanaḥ ǀ rathaḥ ǀ vām ǀ vṛṣabhaḥ ǀ ca ǀ śiṃśumāraḥ ǀ ca ǀ yuktā ǁ1.116.18 Aṣṭaka 1.8.11.3Anuvāka 1.17.18
-
Ṛk 19
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वहं॑ता ।
आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातं ॥रयिं सुक्षत्रं स्वपत्यम् आयुः सुवीर्यं नासत्या वहन्ता |
आ जह्नावीं समनसोप वाजैस् त्रिर् अह्नो भागं दधतीम् अयातम् ||rayím sukṣatrám svapatyámā́yuḥ suvī́ryam nāsatyā váhantā ǀ
ā́ jahnā́vīm sámanasópa vā́jaistríráhno bhāgám dádhatīmayātam ǁrayiṃ sukṣatraṃ svapatyam āyuḥ suvīryaṃ nāsatyā vahantā |
ā jahnāvīṃ samanasopa vājais trir ahno bhāgaṃ dadhatīm ayātam ||र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता ।
आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥रयिम् । सुऽक्षत्रम् । सुऽअपत्यम् । आयुः । सुऽवीर्यम् । नासत्या । वहन्ता ।
आ । जह्नावीम् । सऽमनसा । उप । वाजैः । त्रिः । अह्नः । भागम् । दधतीम् । अयातम् ॥rayím ǀ su-kṣatrám ǀ su-apatyám ǀ ā́yuḥ ǀ su-vī́ryam ǀ nāsatyā ǀ váhantā ǀ
ā́ ǀ jahnā́vīm ǀ sá-manasā ǀ úpa ǀ vā́jaiḥ ǀ tríḥ ǀ áhnaḥ ǀ bhāgám ǀ dádhatīm ǀ ayātam ǁrayim ǀ su-kṣatram ǀ su-apatyam ǀ āyuḥ ǀ su-vīryam ǀ nāsatyā ǀ vahantā ǀ
ā ǀ jahnāvīm ǀ sa-manasā ǀ upa ǀ vājaiḥ ǀ triḥ ǀ ahnaḥ ǀ bhāgam ǀ dadhatīm ǀ ayātam ǁ1.116.19 Aṣṭaka 1.8.11.4Anuvāka 1.17.19
-
Ṛk 20
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
वि॒भिं॒दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातं ॥परिविष्टं जाहुषं विश्वतः सीं सुगेभिर् नक्तम् ऊहथू रजोभिः |
विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ||páriviṣṭam jāhuṣám viśvátaḥ sīm sugébhirnáktamūhathū rájobhiḥ ǀ
vibhindúnā nāsatyā ráthena ví párvatām̐ ajarayū́ ayātam ǁpariviṣṭaṃ jāhuṣaṃ viśvataḥ sīṃ sugebhir naktam ūhathū rajobhiḥ |
vibhindunā nāsatyā rathena vi parvatāṃ ajarayū ayātam ||परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥परिऽविष्टम् । जाहुषम् । विश्वतः । सीम् । सुऽगेभिः । नक्तम् । ऊहथुः । रजःऽभिः ।
विऽभिन्दुना । नासत्या । रथेन । वि । पर्वतान् । अजरयू इति । अयातम् ॥pári-viṣṭam ǀ jāhuṣám ǀ viśvátaḥ ǀ sīm ǀ su-gébhiḥ ǀ náktam ǀ ūhathuḥ ǀ rájaḥ-bhiḥ ǀ
vi-bhindúnā ǀ nāsatyā ǀ ráthena ǀ ví ǀ párvatān ǀ ajarayū́ íti ǀ ayātam ǁpari-viṣṭam ǀ jāhuṣam ǀ viśvataḥ ǀ sīm ǀ su-gebhiḥ ǀ naktam ǀ ūhathuḥ ǀ rajaḥ-bhiḥ ǀ
vi-bhindunā ǀ nāsatyā ǀ rathena ǀ vi ǀ parvatān ǀ ajarayū iti ǀ ayātam ǁ1.116.20 Aṣṭaka 1.8.11.5Anuvāka 1.17.20
-
Ṛk 21
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इंद्र॑वंता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥एकस्या वस्तोर् आवतं रणाय वशम् अश्विना सनये सहस्रा |
निर् अहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणाव् अरातीः ||ékasyā vástorāvatam ráṇāya váśamaśvinā sanáye sahásrā ǀ
nírahatam ducchúnā índravantā pṛthuśrávaso vṛṣaṇāvárātīḥ ǁekasyā vastor āvataṃ raṇāya vaśam aśvinā sanaye sahasrā |
nir ahataṃ ducchunā indravantā pṛthuśravaso vṛṣaṇāv arātīḥ ||एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥एकस्याः । वस्तोः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा ।
निः । अहतम् । दुच्छुनाः । इन्द्रऽवन्ता । पृथुऽश्रवसः । वृषणौ । अरातीः ॥ékasyāḥ ǀ vástoḥ ǀ āvatam ǀ ráṇāya ǀ váśam ǀ aśvinā ǀ sanáye ǀ sahásrā ǀ
níḥ ǀ ahatam ǀ ducchúnāḥ ǀ índra-vantā ǀ pṛthu-śrávasaḥ ǀ vṛṣaṇau ǀ árātīḥ ǁekasyāḥ ǀ vastoḥ ǀ āvatam ǀ raṇāya ǀ vaśam ǀ aśvinā ǀ sanaye ǀ sahasrā ǀ
niḥ ǀ ahatam ǀ ducchunāḥ ǀ indra-vantā ǀ pṛthu-śravasaḥ ǀ vṛṣaṇau ǀ arātīḥ ǁ1.116.21 Aṣṭaka 1.8.12.1Anuvāka 1.17.21
-
Ṛk 22
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।
श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गां ॥शरस्य चिद् आर्चत्कस्यावताद् आ नीचाद् उच्चा चक्रथुः पातवे वाः |
शयवे चिन् नासत्या शचीभिर् जसुरये स्तर्यम् पिप्यथुर् गाम् ||śarásya cidārcatkásyāvatā́dā́ nīcā́duccā́ cakrathuḥ pā́tave vā́ḥ ǀ
śayáve cinnāsatyā śácībhirjásuraye staryám pipyathurgā́m ǁśarasya cid ārcatkasyāvatād ā nīcād uccā cakrathuḥ pātave vāḥ |
śayave cin nāsatyā śacībhir jasuraye staryam pipyathur gām ||श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वारिति॒ वाः ।
श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥शरस्य । चित् । आर्चत्ऽकस्य । अवतात् । आ । नीचात् । उच्चा । चक्रथुः । पातवे । वारिति वाः ।
शयवे । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यम् । पिप्यथुः । गाम् ॥śarásya ǀ cit ǀ ārcat-kásya ǀ avatā́t ǀ ā́ ǀ nīcā́t ǀ uccā́ ǀ cakrathuḥ ǀ pā́tave ǀ vā́ríti vā́ḥ ǀ
śayáve ǀ cit ǀ nāsatyā ǀ śácībhiḥ ǀ jásuraye ǀ staryám ǀ pipyathuḥ ǀ gā́m ǁśarasya ǀ cit ǀ ārcat-kasya ǀ avatāt ǀ ā ǀ nīcāt ǀ uccā ǀ cakrathuḥ ǀ pātave ǀ vāriti vāḥ ǀ
śayave ǀ cit ǀ nāsatyā ǀ śacībhiḥ ǀ jasuraye ǀ staryam ǀ pipyathuḥ ǀ gām ǁ1.116.22 Aṣṭaka 1.8.12.2Anuvāka 1.17.22
-
Ṛk 23
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः |
पशुं न नष्टम् इव दर्शनाय विष्णाप्वं ददथुर् विश्वकाय ||avasyaté stuvaté kṛṣṇiyā́ya ṛjūyaté nāsatyā śácībhiḥ ǀ
paśúm ná naṣṭámiva dárśanāya viṣṇāpvám dadathurvíśvakāya ǁavasyate stuvate kṛṣṇiyāya ṛjūyate nāsatyā śacībhiḥ |
paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya ||अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः ।
प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥अवस्यते । स्तुवते । कृष्णियाय । ऋजुऽयते । नासत्या । शचीभिः ।
पशुम् । न । नष्टम्ऽइव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय ॥avasyaté ǀ stuvaté ǀ kṛṣṇiyā́ya ǀ ṛju-yaté ǀ nāsatyā ǀ śácībhiḥ ǀ
paśúm ǀ ná ǀ naṣṭám-iva ǀ dárśanāya ǀ viṣṇāpvám ǀ dadathuḥ ǀ víśvakāya ǁavasyate ǀ stuvate ǀ kṛṣṇiyāya ǀ ṛju-yate ǀ nāsatyā ǀ śacībhiḥ ǀ
paśum ǀ na ǀ naṣṭam-iva ǀ darśanāya ǀ viṣṇāpvam ǀ dadathuḥ ǀ viśvakāya ǁ1.116.23 Aṣṭaka 1.8.12.3Anuvāka 1.17.23
-
Ṛk 24
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्वं१॒॑तः ।
विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥दश रात्रीर् अशिवेना नव द्यून् अवनद्धं श्नथितम् अप्स्व् अन्तः |
विप्रुतं रेभम् उदनि प्रवृक्तम् उन् निन्यथुः सोमम् इव स्रुवेण ||dáśa rā́trīráśivenā náva dyū́návanaddham śnathitámapsvántáḥ ǀ
víprutam rebhámudáni právṛktamúnninyathuḥ sómamiva sruvéṇa ǁdaśa rātrīr aśivenā nava dyūn avanaddhaṃ śnathitam apsv antaḥ |
viprutaṃ rebham udani pravṛktam un ninyathuḥ somam iva sruveṇa ||दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् । अ॒प्ऽसु । अ॒न्तरिति॑ ।
विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव । स्रु॒वेण॑ ॥दश । रात्रीः । अशिवेन । नव । द्यून् । अवऽनद्धम् । श्नथितम् । अप्ऽसु । अन्तरिति ।
विऽप्रुतम् । रेभम् । उदनि । प्रऽवृक्तम् । उत् । निन्यथुः । सोमम्ऽइव । स्रुवेण ॥dáśa ǀ rā́trīḥ ǀ áśivena ǀ náva ǀ dyū́n ǀ áva-naddham ǀ śnathitám ǀ ap-sú ǀ antáríti ǀ
ví-prutam ǀ rebhám ǀ udáni ǀ prá-vṛktam ǀ út ǀ ninyathuḥ ǀ sómam-iva ǀ sruvéṇa ǁdaśa ǀ rātrīḥ ǀ aśivena ǀ nava ǀ dyūn ǀ ava-naddham ǀ śnathitam ǀ ap-su ǀ antariti ǀ
vi-prutam ǀ rebham ǀ udani ǀ pra-vṛktam ǀ ut ǀ ninyathuḥ ǀ somam-iva ǀ sruveṇa ǁ1.116.24 Aṣṭaka 1.8.12.4Anuvāka 1.17.24
-
Ṛk 25
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।
उ॒त पश्य॑न्नश्नु॒वंदी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्यां ॥प्र वां दंसांस्य् अश्विनाव् अवोचम् अस्य पतिः स्यां सुगवः सुवीरः |
उत पश्यन्न् अश्नुवन् दीर्घम् आयुर् अस्तम् इवेज् जरिमाणं जगम्याम् ||prá vām dáṃsāṃsyaśvināvavocamasyá pátiḥ syām sugávaḥ suvī́raḥ ǀ
utá páśyannaśnuvándīrghámā́yurástamivéjjarimā́ṇam jagamyām ǁpra vāṃ daṃsāṃsy aśvināv avocam asya patiḥ syāṃ sugavaḥ suvīraḥ |
uta paśyann aśnuvan dīrgham āyur astam ivej jarimāṇaṃ jagamyām ||प्र । वा॒म् । दंसां॑सि । अ॒श्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ ।
उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥प्र । वाम् । दंसांसि । अश्विनौ । अवोचम् । अस्य । पतिः । स्याम् । सुऽगवः । सुऽवीरः ।
उत । पश्यन् । अश्नुवन् । दीर्घम् । आयुः । अस्तम्ऽइव । इत् । जरिमाणम् । जगम्याम् ॥prá ǀ vām ǀ dáṃsāṃsi ǀ aśvinau ǀ avocam ǀ asyá ǀ pátiḥ ǀ syām ǀ su-gávaḥ ǀ su-vī́raḥ ǀ
utá ǀ páśyan ǀ aśnuván ǀ dīrghám ǀ ā́yuḥ ǀ ástam-iva ǀ ít ǀ jarimā́ṇam ǀ jagamyām ǁpra ǀ vām ǀ daṃsāṃsi ǀ aśvinau ǀ avocam ǀ asya ǀ patiḥ ǀ syām ǀ su-gavaḥ ǀ su-vīraḥ ǀ
uta ǀ paśyan ǀ aśnuvan ǀ dīrgham ǀ āyuḥ ǀ astam-iva ǀ it ǀ jarimāṇam ǀ jagamyām ǁ1.116.25 Aṣṭaka 1.8.12.5Anuvāka 1.17.25
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.