Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.8
Saṃhitā
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तं ।
ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
हिमेनाग्निं घ्रंसम् अवारयेथाम् पितुमतीम् ऊर्जम् अस्मा अधत्तम् |
ऋबीसे अत्रिम् अश्विनावनीतम् उन् निन्यथुः सर्वगणं स्वस्ति ||
himénāgním ghraṃsámavārayethām pitumátīmū́rjamasmā adhattam ǀ
ṛbī́se átrimaśvinā́vanītamúnninyathuḥ sárvagaṇam svastí ǁ
himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam |
ṛbīse atrim aśvināvanītam un ninyathuḥ sarvagaṇaṃ svasti ||
Padapāṭha
हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॑म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् ।
ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥
हिमेन । अग्निम् । घ्रंसम् । अवारयेथाम् । पितुऽमतीम् । ऊर्जम् । अस्मै । अधत्तम् ।
ऋबीसे । अत्रिम् । अश्विना । अवऽनीतम् । उत् । निन्यथुः । सर्वऽगणम् । स्वस्ति ॥
hiména ǀ agním ǀ ghraṃsám ǀ avārayethām ǀ pitu-mátīm ǀ ū́rjam ǀ asmai ǀ adhattam ǀ
ṛbī́se ǀ átrim ǀ aśvinā ǀ áva-nītam ǀ út ǀ ninyathuḥ ǀ sárva-gaṇam ǀ svastí ǁ
himena ǀ agnim ǀ ghraṃsam ǀ avārayethām ǀ pitu-matīm ǀ ūrjam ǀ asmai ǀ adhattam ǀ
ṛbīse ǀ atrim ǀ aśvinā ǀ ava-nītam ǀ ut ǀ ninyathuḥ ǀ sarva-gaṇam ǀ svasti ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.09.00
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.