Ṛgveda · Maṇḍala 1 · Sūkta 116
Ṛk 1.116.16
Saṃhitā
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तांधं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
शतम् मेषान् वृक्ये चक्षदानम् ऋज्राश्वं तम् पितान्धं चकार |
तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजाव् अनर्वन् ||
śatám meṣā́nvṛkyé cakṣadānámṛjrā́śvam tám pitā́ndhám cakāra ǀ
tásmā akṣī́ nāsatyā vicákṣa ā́dhattam dasrā bhiṣajāvanarván ǁ
śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra |
tasmā akṣī nāsatyā vicakṣa ādhattaṃ dasrā bhiṣajāv anarvan ||
Padapāṭha
श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।
तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥
शतम् । मेषान् । वृक्ये । चक्षदानम् । ऋज्रऽअश्वम् । तम् । पिता । अन्धम् । चकार ।
तस्मै । अक्षी इति । नासत्या । विऽचक्षे । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन् ॥
śatám ǀ meṣā́n ǀ vṛkyé ǀ cakṣadānám ǀ ṛjrá-aśvam ǀ tám ǀ pitā́ ǀ andhám ǀ cakāra ǀ
tásmai ǀ akṣī́ íti ǀ nāsatyā ǀ vi-cákṣe ǀ ā́ ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarván ǁ
śatam ǀ meṣān ǀ vṛkye ǀ cakṣadānam ǀ ṛjra-aśvam ǀ tam ǀ pitā ǀ andham ǀ cakāra ǀ
tasmai ǀ akṣī iti ǀ nāsatyā ǀ vi-cakṣe ǀ ā ǀ adhattam ǀ dasrā ǀ bhiṣajau ǀ anarvan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.116.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.11.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.016
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.